अनुभूतिमीमांसाभाष्यसंपादनम् - प्राजेक्ट्

41 views
Skip to first unread message

Jagannatha S

unread,
Jan 19, 2022, 2:05:50 PM1/19/22
to sams...@googlegroups.com

संबद्धान् विद्वज्जनान् प्रति-

अप्पयशिवाचार्यनामा विद्वान् (क्रैस्तवीये  शके ऽष्टादशे शतके ) तिरुनेल्वेल्ली  इत्यत्र  जीवन् प्रस्थनत्रयभाष्याण्यभाषत यत्र स्वविचारसिद्धम् अनुभवाद्वैतं युक्तिभिरमण्डत्।प्राच्यविद्यासंशोधनालये कृतिनोऽस्य मातृकाबद्धाः कृतयः सन्ति 

अप्पयशिवाचार्यस्य गुरुशिष्यसंवादः मया संपादितः प्राच्यविद्यासंशोधनालयतः प्रकटितश्च।

आर्कैव्स्(archives) इत्यत्र  भवन्तः कृपया  पश्यन्तु मया संपादितं   ग्रन्थममुम्- https://archive.org/details/CrFx_guru-shishya-samvada-of-appa-shivacharya-series-no.-202-oriental-research-institute-mysore

एतेन विरचितानां कृतीनां प्रधानतमा तु अनुभूतिमीमांसाभाष्यम्। इदं च तेनैव विरचितस्य अष्टोत्तरशतोपनिषदां समन्वायकस्य अनुभूतिमीमांसासूत्राख्यस्य ग्रन्थस्य भाष्यरूपम्।

गुरुशिष्यसंवादस्य परिशिष्टत्वेन . अनुभूतिमीमांसासूत्रस्य समग्रः पाठः, . अनुभूतिमीमांसाभाष्यस्य उपक्रमभागश्च दत्तः

अनुभूतिमीमांसाभाष्यसंपादनरूपं प्राजेक्ट् मह्यं ददतु भवन्त इति विज्ञापयामि।

ग्रन्थस्य परिमाणं (Size)कियत् स्यादिति भवन्त एव निश्चिन्वन्तु। पेज्-मेकर् इत्यत्र परिमाणं निश्चित्य तदनुसारेणैकं पुटं मह्यं भवन्तः प्रेषयन्तु। झटित्युट्टङ्कनं प्रारभे ।

प्रतिमासं भृतिर्यदि   व्यवस्थाप्यते , वर्षद्वयावधौ कर्मेदं परिसमाप्यते।

अनुभूतिमीमांसाभाष्यस्य मातृकायाः आहत्य पुटसंख्या- ३३४

इति विनयावनतो जगन्नाथः 

ग्रन्थलिपिलिखितस्य अनुभूतिमीमांसाभाष्यस्य मातृकायाश्चत्वारि पुटानि दर्शितान्यत्र।

 

Anubhuti-four-pages.pdf

Jagannatha S

unread,
Jan 22, 2022, 8:53:28 AM1/22/22
to sams...@googlegroups.com
I approached some Government institutes.
They want to see me as resource person for teaching Grantha script 
in workshops and not an editor of texts. 
I forgot to add CV and here it is.  
Jagannatha Resume.pdf
Reply all
Reply to author
Forward
0 new messages