Srimad Ramayana Aranya kandam part 14 in sanskrit

13 views
Skip to first unread message

K.N.RAMESH

unread,
Nov 4, 2024, 2:44:16 PM11/4/24
to
*श्रीरामायणकथा, अरण्यकाण्डम्!*
(चतुर्दशः सर्गः)
सीतारावणयोः संवादः।

रामस्य वियोगात् अत्यन्तं दुःखितायाः अश्रूणि प्रवाहयन्त्याः सीतायाः समीपं गत्वा रावणः अवदत् हे शोभने! राज्यात् च्युतस्य दीनतपस्विनः रामस्य कृते तव अश्रुप्रवाहणं सर्वथा व्यर्थमेव। रामे तावती शक्तिः कुत्र यत् सः अत्र आगत्य त्वां नेतुं शक्नुयाः। त्वं रामं विस्मर! हे विशाललोचने! त्वं मां तव पतिरूपेण अङ्गीकुरु। समुद्रेण वेष्टितं शतयोजनं यावत् विस्तृतम् एतत् मम राज्यं तुभ्यं समर्पयिष्यामि। अहं त्रयाणां लोकानां स्वामी तव चरणयोः दासः भूत्वा जीविष्यामि। मम सर्वाः राज्ञीः तव दास्यः भूत्वा जीविष्यन्ति। समस्तदेवः, दानवः, नरः, किन्नरः च इत्यादयः ये मम दासाः सन्ति, ते सर्वे तव दासाः भूत्वा स्थास्यन्ति।  

तव प्राक्तनं दुष्कर्म तुभ्यं वनवासस्य कष्टं प्रदाय समाप्तम् अभवत्, इदानीं तव पुण्यकर्म हि अवशिष्टम् अस्ति। अधुना मया सह उषित्वा समस्तप्रकार-पुष्पहारः, दिव्यगन्धः, श्रेष्ठम् आभूषणं च इत्यादीनां सेवनं कुरु। हे सुमुखि! तव कमलस्य समानम् एतत् सुन्दरं निर्मलं मनोहरं च मुखं शोकेन पीडितं भूत्वा शोभाहीनम् अभवत्। मां तव पतिरूपेण अङ्गीकृत्य पुनः तव तद् मुखं शोभमानं कुरु। धर्मः लोकलज्जा च इत्यनयोः भयं निर्मूलम् अस्ति। एतत् सर्वं केवलं तव मिथ्या विचारः एव।

युद्धे कस्याश्चित् सुन्दर्याः हरणं कृत्वा तया सह विवाहः क्रियेत चेत् सः विवाहः तु वैदिकरीतेः कश्चन अङ्गः एव। तदर्थं त्वं शङ्कारहिता भूत्वा मम अर्धाङ्गिनी भव। तव कोमलचरणौ अहं मम शिरोभिः प्रणमामि, मयि शीघ्रं कृपां कुरु।

रावणस्य तादृशं वचनं श्रुत्वा रामस्य वियोगात् शोकेन सन्तप्ता सीता अवदत् हे अधम राक्षस! परमपराक्रमी धर्मपरायणः सत्यप्रतिज्ञः दशरथनन्दनः श्रीरामचन्द्रः एव मम पतिः अस्ति। तमतिरिच्य अन्यं कमपि पुरुषम् अहं द्रष्टुमपि न शक्नोमि।  यदि त्वं मम पत्युः पुरतः बलपूर्वकं मम अपहरणम् अकरिष्यः तर्हि खरवत् तवापि सा एव दशा अभविष्यत्। परन्तु त्वं तु कापुरुषवद् मां चोरयित्वा आनयः। तव इत्थम् अनर्गलप्रलापेन एवं भाति यत् सम्पूर्णलङ्कया सह तव विनाशस्य समयः आगच्छति। 
त्वम् अस्मिन् भ्रमे मा स्थाः यद् देवाः राक्षसाः तव कामपि हानिं कर्तुं न शक्नुवन्ति, अतः रामः अपि त्वां हन्तुं न शक्नुयात्। तस्य हस्ताभ्यां तव मृत्युः निश्चितः अस्ति। इदानीं तव जीवनकालः समाप्तप्रायः अभूत्। तव तेजः, बलम्, बुद्धिः च इत्यादिकं सर्वं पूर्वं हि नष्टम् अभवत्। 
यस्य बुद्धिः नष्टा भवति तस्य विनाशकालः दूरे न भवति। 

अरे राक्षसाधम! त्वं महापापी असि अतः त्वं मम स्पर्शं कर्तुं न शक्नोषि। त्वं कदाचित् चिन्तयसि यत् कमलेषु  विहारं कुर्वाणाः हंसाः किं कुक्कुटैः सह स्थातुं शक्नुवन्ति?  
त्वं मम एतत् संज्ञाशून्यं जडशरीरं बद्ध्वा वा स्थापय, कर्तय वा, परन्तु अहं कदापि निन्दनीयं कार्यं कर्तुं न शक्नोमि।
*-प्रदीपः!*
Reply all
Reply to author
Forward
0 new messages