ॐ
वक्रतुंड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
कर्पूरगौरं करुणावतारं
संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे
भवं भवानीसहितं नमामि ॥
या कुन्देन्दु तुषार् हार धवला या शुभ्रवस्त्रावृता ।
या वीणावरदंड मंडितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभ्रुतिभिर्देवै सदा वंदिता ।
सा मां पातु सरस्वती भगवती निःशेष जाड्या पहा ॥
गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रह्म तस्मै श्री गुरवेनमः ॥