Fwd: शं शुभं शिवम्

0 views
Skip to first unread message

PHOOLGADI INDIA

unread,
Jan 1, 2024, 6:10:07 AM1/1/24
to phoolga...@googlegroups.com

Forwarded Conversation
Subject: शं शुभं शिवम्
------------------------

From: PHOOLGADI <commen...@wordpress.com>
Date: Mon, Jan 1, 2024 at 4:25 PM
To: <phoolga...@gmail.com>


Site logo image PHOOLGADI INDIA posted: " रामरामराम। रामरामराम।श्रीगुरुभ्योनमः। हरिःॐ। वन्दे सर्वजगद्विहारमतुलंवन्देन्धकध्वंसिनंवन्दे देवशिखामणिं शशिनिभंवन्दे हरेर्वल्लभम्।वन्दे क्रूरभुजङ्गभूषणधरंवन्दे शिवं चिन्मयंवन्दे भक्तजनाश्रयं च वरदंवन्दे शिवं शङ्करम्॥ वन्दे सर्व-जगद्-विहारम् अतुलं व" PHOOLGADI

शं शुभं शिवम्

PHOOLGADI INDIA

Jan 1

रामरामराम। रामरामराम।
श्रीगुरुभ्योनमः। हरिःॐ।

वन्दे सर्वजगद्विहारमतुलं
वन्देन्धकध्वंसिनं
वन्दे देवशिखामणिं शशिनिभं
वन्दे हरेर्वल्लभम्।
वन्दे क्रूरभुजङ्गभूषणधरं
वन्दे शिवं चिन्मयं
वन्दे भक्तजनाश्रयं च वरदं
वन्दे शिवं शङ्करम्॥

वन्दे सर्व-जगद्-विहारम् अतुलं वन्दे अन्धक-ध्वंसिनं वन्दे देव-शिखा-मणिं शशि-निभं वन्दे हरेः वल्लभम्। वन्दे क्रूर-भुजङ्ग-भूषण-धरं वन्दे शिवं चित्-मयं वन्दे भक्त-जन-आश्रयं च वरदं वन्दे शिवं शं-करम्।

वन्दे वन्दनं कुर्वे अहं वन्दनं करोमि।

सर्वस्मिन् सर्वति इति सर्वः समग्रः समस्तः। गच्छति इति जगत् लोकः। क्रीडार्थं पादाभ्यां गच्छति इति विहारः परिक्रमः। सर्वेषां जगतां विहारः सर्वजगद्विहारः शम्भुः परमेश्वरः शिवः तं सर्वजगद्विहारम् अहं वन्दे।

तुला तुलना सादृश्यम्। न विद्यमाना तुला सादृश्यं यस्य अतुलः परमेश्वरः शिवः तं शिवम् अतुलम् अहं वन्दे।

अन्धकः असुरभेदः। ध्वंसः नाशः। विशिष्टः ध्वंसः अस्य अस्ति इति विध्वंसिन् विध्वंसी विध्वंसिनी विध्वंसि। अन्धकस्य ध्वंसी विनाशकः अन्धकध्वंसी परमेश्वरः शिवः तम् अन्धकध्वंसिनं शिवम् अन्धकध्वंसिनम् अहं वन्दे।

अन्धः एव अन्धकः स्वार्थे कन् अन्धकः अन्धकारः तमोगुणः भक्तानां मनोभ्यः अन्धकस्य ध्वंसं करोति इति अन्धकः तमोगुणः अन्धकस्य ध्वंसी अन्धकध्वंसी वा शिवः तम् अन्धकध्वंसिनम् अन्धकध्वंसिनम् अहं वन्दे।

शिरोमध्यस्थचूडा शिखा। शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा इति अमरकोशः। मण्यते इति मणिः रत्नम्। मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम्। रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च इति अमरकोशः। सर्वश्रेष्ठतमेन मणिना एव शिखायाः अलङ्कारः क्रियते। दीव्यति इति देवः सुरः। शिखायां सर्वश्रेष्ठतमः मणिः इव देवानां सर्वश्रेष्ठतमः देवः महादेवः परमेश्वरः शिवः शिखायां मणिः शिखामणिः देवानां शिखामणिः देवशिखामणिः तं देवशिखामणिं शिवम् अहं वन्दे।

शशः इव चिह्नः अस्य अस्ति इति शशिन् शशी चन्द्रः। नियतं भाति इति निभः प्रकाशः। शशिनः निभः इव निभः यस्य शशिनिभः परमेश्वरः शिवः तं शशिनिभं शिवम् अहं वन्दे।

हरति पापानि इति हरिः महाविष्णुः। वल्लभः दयितः प्रियः। अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् इति अमरकोशः। हरेः वल्लभः हरेर्वल्लभः परमेश्वरः शिवः तं हरेर्वल्लभं शिवम् अहं वन्दे।

कृन्तति इति क्रूरः कठिनः निष्ठुरः। खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् इति अमरकोशः। भुजं वक्रं गच्छति इति भुजङ्गः सर्पः। भूष्यते अनेन इति भूषणम् अलङ्कारः। धरति इति धरः। क्रूरतमस्य सर्पस्य अलङ्कारः इव धरति इति क्रूरः भुजङ्गः क्रूरभुजङ्गः क्रूरभुजङ्गः इति भूषणं क्रूरभुजङ्गभूषणं क्रूरभुजङ्गभूषणं धरः यस्य क्रूरभुजङ्गभूषणधरः परमेश्वरः शिवः तं क्रूरभुजङ्गभूषणधरं शिवम् अहं वन्दे।

चित् ज्ञानम्। बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना इति अमरकोशः। प्रकृता चित् यस्य ५.४.२१तमसूत्रेण चिन्मयः प्रकृता चित् यस्मिन् स चिन्मयः वा परमेश्वरः शिवः तं चिन्मयं शिवम् अहं वन्दे।

शिवं मङ्गलम् अस्य अस्ति इति श्यति पापम् इति वा श्येते अस्मिन् सर्वम् इति वा शेरते अवतिष्ठते अणिमादयः अष्टौ गुणाः अस्मिन् इति वा शिवः परमेश्वरः। शम्भूरीशः पशुपतिः शिवः शूली महेश्वरः। ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः इति अमरकोशः। तं परमेश्वरं शिवम् अहं वन्दे।

भजते स्म इति भक्तः। जायते इति जनः व्यक्तिः। आश्रयम् अवलम्बनम्। भक्तः च असौ जनः च अयं भक्तजनः भक्तजनानाम् आश्रयः भक्तजनाश्रयः परमेश्वरः शिवः तं भक्तजनाश्रयं शिवम् अहं वन्दे।

वरान् ददाति इति वरदः परमेश्वरः शिवः तं वरदं शिवम् अहं वन्दे।

शं कल्याणं करोति इति शङ्करः परमेश्वरः शिवः तं शिवम् अहं वन्दे ।

वन्द् अभिवादनस्तुत्योः वन्दते उत्तमपुरुषैकवचनान्तं पदं वन्दे अहं स्तौमि।

सर्वलोकविहारः शिवः अन्धकनाशकः शिवः देवानां श्रेष्ठतमः शिवः चन्द्रमसः इव निभयुक्तः शिवः हरेः प्रियः शिवः सर्पाभरणधरः शिवः चित् एव सः शिवः शुभं मङ्गलम् एव सः शिवः भक्तजनाश्रयः शिवः वरदाता शिवः कल्याणकरः परमेश्वरः शम्भुः शिवः। तं शिवम् अहं स्तौमि इति शं शुभं शिवम्।

जयतु संस्कृतम्।
पुरुषोत्तमशर्मा।

५१२४तमे कल्यब्दे श्रीशोभकृति धनूरव्यसितपक्षे पञ्चमीषष्ठीभ्यां युक्तः माघपूर्वप्रोष्ठपदयोः इन्दुयुक्तः सोमवासरः।
२०२४-०१-०१. ।

Comment
Like
Tip icon image You can also reply to this email to leave a comment.

Manage your email settings or unsubscribe.

WordPress.com and Jetpack Logos

Get the Jetpack app to use Reader anywhere, anytime

Follow your favorite sites, save posts to read later, and get real-time notifications for likes and comments.

Download Jetpack on Google Play Download Jetpack from the App Store

Automattic, Inc. - 60 29th St. #343, San Francisco, CA 94110  



----------
From: PHOOLGADI <commen...@wordpress.com>
Date: Mon, Jan 1, 2024 at 4:25 PM
To: <phoolga...@gmail.com>




Reply all
Reply to author
Forward
0 new messages