समस्या - अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः।

163 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 26, 2014, 10:07:29 PM9/26/14
to padyadhaaraa पद्यधारा


--
--
Vishvas /विश्वासः

H. K. Ramapriyan

unread,
Oct 1, 2014, 8:07:23 AM10/1/14
to padyad...@googlegroups.com
धर्मक्षेत्रे कुरुक्षेत्रे प्रश्नस्समभवत्ततः । अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ।। (विनायकः = विगतः नायकः यस्य सः । नायकः = कृष्णः)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 1, 2014, 8:42:04 AM10/1/14
to padyadhaaraa पद्यधारा

2014-10-01 5:07 GMT-07:00 H. K. Ramapriyan <ramap...@verizon.net>:
प्रश्नस्समभवत्ततः

​इत्यनेन किं विवक्षितमिति नाजानि।​

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 1, 2014, 8:44:50 AM10/1/14
to padyadhaaraa पद्यधारा
अवग्रहस्य दानेन वाक्येऽर्थः परिवर्तते।
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो (ऽ)विनायकः॥

2014-10-01 5:07 GMT-07:00 H. K. Ramapriyan <ramap...@verizon.net>:

H. K. Ramapriyan

unread,
Oct 1, 2014, 6:57:49 PM10/1/14
to padyad...@googlegroups.com
तत्र मम चिन्तनम् एवम् आसीत् – कुरुक्षेत्रे यदा युद्धः प्रचलन्नस्सीत्, तदा किञ्चित्कालानन्तरं केषाञ्चित् मनसि प्रश्नः सञ्जातः । “कुन्तीपुत्रः अर्जुनः सदा कृष्णस्य साहाय्येनैव युद्धं कुर्वन्नस्ति । यदि सः तेन सहितः न भवेत् (अर्थात् विनायको भवेत्) तर्हि अबद्धो भवेत् वा (अर्थात् कर्मयोगेन न बद्धो भूत्वा युद्धं त्यजेत् वा) सुभद्धो भवेत् वा (गीतोपदेशं स्मरन् कृष्णस्य अनुपस्थितावपि युद्धम् अनुवर्तेत वा)?” इति ।
 

H. K. Ramapriyan

unread,
Oct 1, 2014, 8:35:14 PM10/1/14
to padyad...@googlegroups.com
“यदि सः तेन सहितः न भवेत् (अर्थात् विनायको भवेत्)” इत्यत्र “यदि सः तेन सहितः न भवेत् (अर्थात् अर्जुनः विनायको भवेत्)” इति लेखनीयमासीत्, क्षम्यताम् ।

Naresh Cuntoor

unread,
Oct 1, 2014, 8:50:58 PM10/1/14
to padyad...@googlegroups.com
दारिद्र्यं राजते देशे, यान्ति ते मङ्गलाय हि ।
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ॥

Naresh

Raghu Rao

unread,
Oct 3, 2014, 1:22:32 AM10/3/14
to padyad...@googlegroups.com
आधिकरणिकस्यतु सन्तोप्यमितनायकाः |
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ||

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2014, 9:38:51 AM10/3/14
to padyadhaaraa पद्यधारा
रामप्रियार्यस्य विवरणेन सदास्वादो ऽजायत। नरेशपूरणं समयोचितम्।​


2014-10-02 22:22 GMT-07:00 Raghu Rao <mnr...@gmail.com>:
आधिकरणिकस्यतु सन्तोप्यमितनायकाः |

​कृपया अर्थ उच्यताम्​

Raghu Rao

unread,
Oct 3, 2014, 11:25:10 AM10/3/14
to padyad...@googlegroups.com
आधिकरणिकस्यतु सन्तोप्यमितनायकाः 

Even though a government offficial/worker has many heads (managers), they seem to be leaderless or unrestrained (or do as they wish). Or alternately..

आधिकरणिकस्यतु ह्यनन्ता ननु नायकाः | (इत्यपि पूरणम् युज्यते) 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2014, 11:58:59 AM10/3/14
to padyadhaaraa पद्यधारा
एवं तर्हि कुन्तीपुत्रस्याऽत्र कोऽन्वयः?

Usha Sanka

unread,
Oct 3, 2014, 1:58:34 PM10/3/14
to padyad...@googlegroups.com
प्रणम्य,
ऐदंप्राथम्येन पूरणं कृतम्। सविनयं समर्प्यते। दशहरा-पर्वसमये रामस्मरणपूर्वकं पूरणमिदम्। अनुगृहीता भवेयम्।
यदि दोषः अस्ति चेत् सूच्याहम्।

रामेति रावणारिर्न, तत्क्रियारूपमुत्तमम् । 
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः  
अभिप्रेतार्थः -- रा-धातोः लोटि उत्तमपुरुष-रूपाण्येवं भवन्ति-- ​रानि, राव, राम ​। अतः स शब्दः न रामबोधकः इति ।
धन्यास्मि। 

​​
 

--
"-यद्गत्वा न निवर्तन्ते तद्धाम परमं मम"

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2014, 2:25:08 PM10/3/14
to padyadhaaraa पद्यधारा
​यौगिकार्थप्रयोगेण भ्र​ष्टो रूढ्यर्थसौरभः।
इति स्मारणतस् तुष्टः त्वत्पद्यं पूजयाम्य् अहम्॥

H. K. Ramapriyan

unread,
Oct 3, 2014, 9:43:57 PM10/3/14
to padyad...@googlegroups.com
मम पूरणम् विना अन्येषु पुरणेषु मम संशयः अस्ति । तेषु पूरणेषु द्वितीयार्धस्य कः अर्थः इति । कृपया विवरणं ददातु ।
 

Naresh Cuntoor

unread,
Oct 3, 2014, 9:54:44 PM10/3/14
to padyad...@googlegroups.com
आभाणकस्यैव निदर्शनत्वेन मम पूरणम् आसीत् । कुन्तीपुत्रः च विनायकः च इत्यनयोः यथा अबद्धत्वं वर्तते तथैव इस्रो संस्थया प्रेषितं मङ्गलयानं च देशे दारिद्र्यं च तयोः संबन्धः इति अभिप्रायः । अबद्धसंबन्धः इति ।

Naresh

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2014, 9:58:53 PM10/3/14
to padyadhaaraa पद्यधारा
अवग्रहस्य दानेन वाक्येऽर्थः परिवर्तते।
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो (ऽ)विनायकः॥

इत्यत्र एवमभिप्रेतम् - "अवग्रहस्वीकारो वाक्यस्य अर्थं सुबाधं वा अबद्धं वा करोति। यथा "कुतीपुत्रो विनायकः" इति वाक्ये।"

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2014, 10:03:03 PM10/3/14
to padyadhaaraa पद्यधारा

2014-10-03 18:54 GMT-07:00 Naresh Cuntoor <nare...@gmail.com>:
आभाणकस्यैव निदर्शनत्वेन मम पूरणम् आसीत् । कुन्तीपुत्रः च विनायकः च इत्यनयोः यथा अबद्धत्वं वर्तते तथैव इस्रो संस्थया प्रेषितं मङ्गलयानं च देशे दारिद्र्यं च तयोः संबन्धः इति अभिप्रायः । अबद्धसंबन्धः इति ।


अत्र "अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः" इत्याभणकस्य भूमिका स्मार्या। कश्चित् कुतर्केण "अमुकं सिद्धम्" इति उद्घोषयति चेत्, तत्र दोषं दृष्ट्वा वदेत्

{तव ​तर्करहिता घोषणा एवमस्ति "अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः"।}

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2014, 10:08:53 PM10/3/14
to padyadhaaraa पद्यधारा

2014-10-03 19:02 GMT-07:00 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
इत्याभणकस्य

आभाणकस्य​

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2014, 10:10:51 PM10/3/14
to padyadhaaraa पद्यधारा
2014-10-03 11:24 GMT-07:00 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
​यौगिकार्थप्रयोगेण भ्र​ष्टो रूढ्यर्थसौरभः।
यौगिनार्थप्रदानेन भ्रष्टं रूढार्थसौरभम्।​
 
इति स्मारणतस् तुष्टः त्वत्पद्यं पूजयाम्य् अहम्॥

Avinash L Varna

unread,
Oct 4, 2014, 2:13:05 AM10/4/14
to padyadhaaraa
समस्यापूरणेषु स्यात् कुतो(ऽ)दृष्टार्थसंगतिः ।
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ॥

अत्र द्वेधा अर्थः अभिप्रेतः अवग्रहस्वीकारेण, त्यागेन च ( धन्यवादाः विश्वास ;-) )
१. समस्यापूरणेषु अर्थसंगतिः कुतः दृष्टा स्यात् (इत्युक्ते अर्थसंगतिः किमर्थं स्पष्टा भवेदेव?) । अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः इतिवत् समस्यापूरणं कथञ्चित् कुर्मः इति ।
२. समस्यापूरणेषु अदृष्टार्थसंगतिः कुतः ? (इत्युक्ते समस्यायाः प्रथमपठनेन यद्यपि अर्थसंगतिः न दृश्यते, तथापि समस्यापूरणेन काचित् अपूर्वा अर्थसंगतिः कथम् आनीयते इति आश्चर्येण प्रश्नः) । उदाहरणं तु द्वीतीयार्धः ।

पुनश्च एतौ अंशौ एतस्मिन्नपि समस्यापूरणेऽपि अन्वयं गच्छतः :-p (Maybe this is way too meta :p)

प्रायश्चित्तरूपेण अन्यः :) -
जामाख्यायां तु क्रीडायां वदन्नेव भवेत्सदा ।

अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ॥

"JAM (Just a minute)" इति क्रीडायां तु लक्ष्यं भवति निमेषं यावत् यं कमपि विषयम् अधिकृत्य वदन्नेव भवेत् इति । तत्र तु अबद्धो वा सुबद्धो वा "कुन्तीपुत्रो विनायकः" इति वा वदन्नेव भवेत् ।

Raghu Rao

unread,
Oct 4, 2014, 3:37:51 PM10/4/14
to padyad...@googlegroups.com
भो भोः, एवं विकृताङ्गहारैः (contortions) साध्यं चेत् मम प्रयत्नः एवं :-) -
(वक्तव्यं यत् मयापि कश्चित् आभाणकः स्मर्यते परंतु सम्पूर्णतया न )

आधिकरणिकस्यतु सन्तोप्यमितनायकाः |
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ||

कुन्ती = काचन ब्राह्मणपत्नी 
कुन्तीपुत्रः = कश्चन ब्राह्मणः | इदानींतने बुद्धिजीवी इति स्वीक्रियताम् :-)

तर्हि यःकोपी ब्राह्मणः वा बुद्धिजीवी वा यः सर्वकारे कार्यं करोति इति भवति | 

आभाणकः - ಅಂತು ಇಂತೂ ಕುಂತಿಮಕ್ಕಳಿಗೆ ರಾಜ್ಯ ಸಿಗಲಿಲ್ಲ !

भवदीयः,
रघु 






2014-10-03 18:54 GMT-07:00 Naresh Cuntoor <nare...@gmail.com>:

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 4, 2014, 4:14:53 PM10/4/14
to padyadhaaraa पद्यधारा

2014-10-04 12:37 GMT-07:00 Raghu Rao <mnr...@gmail.com>:
कुन्ती = काचन ब्राह्मणपत्नी 

​अहो आश्चर्यम्!​

Raghu Rao

unread,
Oct 4, 2014, 4:22:35 PM10/4/14
to padyad...@googlegroups.com
monier-williams dictionary!!

Raghu Rao

unread,
Oct 4, 2014, 4:23:08 PM10/4/14
to padyad...@googlegroups.com

Naresh Cuntoor

unread,
Oct 5, 2014, 9:57:29 AM10/5/14
to padyad...@googlegroups.com
एतादृशाः दुरूह्याः प्रयत्नाः निवार्याः इति श्रूयते । कदाचित् मम पूरणेषु अपि सः आक्षेपः श्रुतः एव ।

प्रतिपदं कोशदर्शनं चेत् अर्थावगमनं न भवति । परन्तु दृष्टार्थसंगतिः कुतः ? इति मन्वानाः परस्परं भावयितुं प्रभवन्ति !

अपि च, रघो, भवतः पूरणे श्लोकच्छन्दः न दृश्यते ।


Naresh

Raghu Rao

unread,
Oct 5, 2014, 12:15:34 PM10/5/14
to padyad...@googlegroups.com
नरेश, 
भवदाक्षेपं अङ्गीकरोमि | अत्र त्वरा न युज्यते इति यावत् अनुभवज्ञानं प्राप्नुमश्चेदपि समये विस्मरामः | 

>> अपि च, रघो, भवतः पूरणे श्लोकच्छन्दः न दृश्यते । 

आधिकरणिकस्यवै सन्तोप्यमितनायकाः |
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ||

रघुः 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 5, 2014, 12:44:30 PM10/5/14
to padyadhaaraa पद्यधारा

2014-10-05 9:15 GMT-07:00 Raghu Rao <mnr...@gmail.com>:
आधिकरणिकस्यवै

​भद्र, खलु श्लोकच्छन्दसि (=पथ्यवक्त्रे) विषमपादेषु सप्तमोऽक्षरः गुरुस् स्यात्?​

Raghu Rao

unread,
Oct 5, 2014, 12:49:39 PM10/5/14
to padyad...@googlegroups.com
:-) त्वरा मास्तु इति वदन्नेव प्रेशितवान् | तत् प्रेषिते सति ज्ञातं ..


आधिकरणिकस्यापि ...

Usha Sanka

unread,
Oct 5, 2014, 4:54:22 PM10/5/14
to padyad...@googlegroups.com

अन्यत् पूरणम्- 


कृषीवलश्च संन्यासी पद्यपादश्च दण्डिनः । 

अथवा

संन्यासी क्षेत्रको भटश्श्लोकपादश्च दण्डिनः

अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ।।



(सूचना- दण्डः अस्य अस्तीति दण्डी । पद्यपादान्ते दण्डः स्थाप्यते इति सोपि दण्डी।)
क्षन्तव्या पद्ये दोषोस्ति चेत्। 

On Sat, Sep 27, 2014 at 7:37 AM, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:


--
--
Vishvas /विश्वासः




विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 5, 2014, 8:23:56 PM10/5/14
to padyadhaaraa पद्यधारा
2014-10-05 13:54 GMT-07:00 Usha Sanka <usha....@gmail.com>:

कृषीवलश्च संन्यासी

​कथमिव?​ बीजानि न्यस्यतीति वा?


 

पद्यपादश्च दण्डिनः । 

पद्यपादाश्च​​
 

अथवा

संन्यासी क्षेत्रको भटश्श्लोकपादश्च दण्डिनः

सप्तमाक्षरं स्याद् गुरु।​

 

अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ।।

Avinash L Varna

unread,
Oct 5, 2014, 8:41:58 PM10/5/14
to padyadhaaraa
+1.
बहुधा अस्माकं समस्यापूरणानि तु रचयितुः व्याख्यां विना दुरवगम्यान्येव भवन्ति । अत्र भामहाचार्यस्य वचनं स्मर्यते -
काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत् ।
उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ।। २.२० ।।

अत एव "tongue-in-cheek" मया तथा पूरणं कृतम् । ईदृग्भिः समस्यापूरणैः किमस्माकं पद्यरचनाकौशलं वस्तुतो वर्धत इति चिन्त्यं मन्ये ।

Raghu Rao

unread,
Oct 5, 2014, 9:17:26 PM10/5/14
to padyad...@googlegroups.com
नरेशस्य क्वचित् परिवर्त्य -

दारिद्र्यं राजते गेहे याति स मङ्गलायहि |
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो(s)विनायकः ||

पाशुपतास्त्रप्राप्तिपूर्वम् गृहे दारिद्र्यं, तथापि अर्जुनः मङ्गलकार्याय (दिव्यास्त्रेभ्यः) गच्छति | दारिद्र्येण सुबद्धो वा अबद्धो वा कृष्णस्तु तेन सह वर्तत एव |
  

Naresh Cuntoor

unread,
Oct 5, 2014, 10:33:02 PM10/5/14
to padyad...@googlegroups.com
2014-10-05 21:17 GMT-04:00 Raghu Rao <mnr...@gmail.com>:
नरेशस्य क्वचित् परिवर्त्य -

दारिद्र्यं राजते गेहे याति स मङ्गलायहि |
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो(s)विनायकः ||

पाशुपतास्त्रप्राप्तिपूर्वम् गृहे दारिद्र्यं, तथापि अर्जुनः मङ्गलकार्याय (दिव्यास्त्रेभ्यः) गच्छति | दारिद्र्येण सुबद्धो वा अबद्धो वा कृष्णस्तु तेन सह वर्तत एव |

साक्षात् श्लोकपठनेन पाशुपतास्त्रप्रप्तेः प्रसङ्गः न गम्यते इति कृत्वा अस्मिन् श्लोकेऽपि क्लेशो वर्तते ।

Naresh Cuntoor

unread,
Oct 5, 2014, 10:46:18 PM10/5/14
to padyad...@googlegroups.com
ईदृग्भिः समस्यापूरणैः किमस्माकं पद्यरचनाकौशलं वस्तुतो वर्धत इति चिन्त्यं मन्ये ।


तव कथितेन वृत्तान्तोऽयं स्मृतिपथे समायाति ।

अभिगम्य स पट्टाभिं गुरुं योगिषु योगिनम् ।
शीर्षासनमहं वाञ्छन् स्थितो ब्रूते  सकौतुकम् ॥

कश्चित् शीर्षासनं कर्तुं वाञ्छन् पट्टाभिजोयिसम् अभिजगाम ।

श्रुत्वैतच्च वचो नम्रं स्मयेन तमबोधयत् ।
पादयोः प्रथमं ज्ञात्वा स्थितिं शीर्षस्य चिन्तय ॥

स योगगुरुः प्रत्युवाच यत्, प्रथमं पादयोः स्थातुं जानीहि (ताडासनेन) । अनन्तरं शीर्षासनं चिन्तयाम इति ।

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 5, 2014, 11:06:23 PM10/5/14
to padyadhaaraa पद्यधारा
उग्रमेतद्वचो धीमन् न पट्टाभिगुरोः श्रुतम्।
अय्यङ्गार्यस्य भ्रूभङ्ग-समुन्नीतमुखोद्गतम्॥ ​

Naresh Cuntoor

unread,
Oct 5, 2014, 11:46:51 PM10/5/14
to padyad...@googlegroups.com
साधु । नामादेशो विस्मृत्या कृतः ।

Usha Sanka

unread,
Oct 6, 2014, 6:38:31 AM10/6/14
to padyad...@googlegroups.com
नैव- 
कृषीवलस्यापि हस्ते दण्डः भवति सदा।  
नो चेत् तत्स्थाने पशुपालकं योजयितुं शक्यते। 

गोपालकश्च संन्यासी पद्यपादश्च दण्डिनः ...
अपि इदानीं प्रथमः साधु..?

संन्यासी क्षेत्रकश्चैव श्लोकपादश्च दण्डिनः..

किमिदं युज्यते..?किं  दोषः अपकृतः?
यदि विचारः द्वितीये पूरणे साधु - तर्हि साहाय्यं क्रियताम् - अहम् दोषापकरणे न समर्था तत्र। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 6, 2014, 8:07:12 AM10/6/14
to padyadhaaraa पद्यधारा
2014-10-06 3:38 GMT-07:00 Usha Sanka <usha....@gmail.com>:
कृषीवलस्यापि हस्ते दण्डः भवति सदा।  
नो चेत् तत्स्थाने पशुपालकं योजयितुं शक्यते। 
​संन्यासी दण्डधारीति नूनं व्यस्मरि श्रीमति।
यतिर् दण्डेन वात्मानं ताडयेदिति विस्मयः॥​

 

गोपालकश्च संन्यासी पद्यपादश्च दण्डिनः ...
अपि इदानीं प्रथमः साधु..?

​साधु​
 
संन्यासी क्षेत्रकश्चैव श्लोकपादश्च दण्डिनः..

​साधु

Ajit Krishnan

unread,
Oct 6, 2014, 8:21:00 AM10/6/14
to padyad...@googlegroups.com
आत्मीयाः,

बाला भक्तार्तिथा लोके विनाथा अनुकम्पिताः । 
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ॥

अभिप्रेतार्थः -- विनायक अबद्धश्चेत्, भक्तया कुन्त्या बालः सः पुत्रभावनया प्रार्थ्यते । कथञ्चिदपि विनायको निबद्धो यदि, तर्हि सर्वमातुरनुकम्पया तं पुत्रं मन्यते माता कुन्ती । 

सस्नेहम्,

    अजितः



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 6, 2014, 8:45:20 AM10/6/14
to padyadhaaraa पद्यधारा
2014-10-06 5:20 GMT-07:00 Ajit Krishnan <ajit.k...@gmail.com>:

बाला
​​
भक्तार्तिथा लोके विनाथा अनुकम्पिताः । 
भक्तार्तिथा इति किम्?​
अबद्धो वा सुबद्धो वा कुन्तीपुत्रो विनायकः ॥

अभिप्रेतार्थः -- विनायक अबद्धश्चेत्, भक्तया कुन्त्या बालः सः पुत्रभावनया प्रार्थ्यते । कथञ्चिदपि विनायको निबद्धो यदि, तर्हि सर्वमातुरनुकम्पया तं पुत्रं मन्यते माता कुन्ती ।
​अत्र अबद्धसुबद्धयोर् अर्थौ, भक्त्यानुकम्पोत्पाकत्वे च नावगतानि।​

Ajit Krishnan

unread,
Oct 6, 2014, 9:17:05 AM10/6/14
to padyad...@googlegroups.com

यद्येवं सर्वथा नावगतं, तर्हि असफलता जाता इति कृत्वा अग्रे सर्तव्यम् :-)

सामान्यार्था एव स्वीकृताः -- 
भक्तार्थितः -- भक्तैः अर्थितः (इष्टो प्रार्थितो वा) ।
अबद्धः -- न बद्धः, सः ईश्वरः इति ।
सुबद्धः -- निबद्धः, कारागृहे बद्धो वा, मायया बद्धो वा, कथञ्चित् बद्धः ।

Since Sanskrit clearly didn't work -- If Ganesha is free (i.e. ishwara), then Kunti prays to him as a bhakta, though he is a child. This is quite common (eg. Bala Krishna), and is appropriate for Ganesha who is a child. If Ganesha isn't free (I'm sure there are plenty of pauranic stories, but I don't have a particular one in mind), then Kunti looks at him with compassion, just as all mothers look at all children ... particularly orphans. तस्मादबद्धो वा विनायकः, सुबद्धो वा विनायकः कुन्तीपुत्र एव । विनायकशब्दस्यापि श्लेषः, किन्तु सामान्यार्थे अबोधिते सति, किं श्लेषस्य? :-)

शब्दानाम् अर्थबाहुल्ये, प्रायेण सर्वेऽपि अर्थाः अस्मिन् पुरणे नियुक्ताः। 

भक्त्यानुकम्पोत्पाकत्वे

उत्पाकत्वम् ?

सस्नेहम्,

    अजितः



 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 6, 2014, 10:21:31 AM10/6/14
to padyadhaaraa पद्यधारा

2014-10-06 6:16 GMT-07:00 Ajit Krishnan <ajit.k...@gmail.com>:

उत्पाकत्वम् ?

​उत्पादकत्वमिति​

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 6, 2014, 10:23:15 AM10/6/14
to padyadhaaraa पद्यधारा

2014-10-06 6:16 GMT-07:00 Ajit Krishnan <ajit.k...@gmail.com>:
Since Sanskrit clearly didn't work

​अधुनाऽवगतम् - किञ्च संस्कृतेनाप्येवं विवरणे दत्ते ऽवगम्येत एव​
Reply all
Reply to author
Forward
0 new messages