सन्तः, कश्चन विचारः प्रस्तुतोऽधो यत्संवादीनि चिन्तनानि वाम् अन्येषां वा शुश्रूषे।
> सर्वं प्रलयास्पदम्।
तर्हि किं सोत्साहेन पुरुषार्थ-साधन-प्रयासेन?
यथा - मा चिरं प्रजा-सन्ततिर् नङ्क्ष्यति।
किम् पुनः प्रजा-जनन-भरण-रक्षणादिभिः?
इति निराशा-जनक-विचार-सन्ततिः।
सत्यं, सर्वं नश्वरम्।
यावत् तु जीवामः, तावत् तु स्वाभाविकी प्रवृत्तिस् सैवादरणीया +उल्लासकाङ्क्षिभिः।
स्वभावाधारो हि पुरुषार्थविचारः।
"जीते हैँ शानसे, मरते हैँ शानसे" इति यथा गीतम्,
"दोसतोँ से प्यार किया, दुशमनोँ से बदला लिया, जो भि किया, हमने किया शान से" इति वा।
नश्वरता-स्मृतिर् वर्तमान-क्षणस्य महार्हत्वं स्मारयेत्, सौन्दर्याभिज्ञानं च वर्धयेत्। एतद्धि "वाबि-साबि"-तत्त्वान्तर्गता ऽनित्यता-भाव उषःपुत्रैः प्रशस्तः।