ध्वनिसन्देश-प्रेषणाय whatsapp-प्रयोगः

15 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 1, 2014, 11:30:03 AM7/1/14
to
(bcc: भिन्न-ससुहृत्-संस्कृतयूथानि, अन्ये संस्कृतभाषिमित्राणि च)

आत्मीयास् संस्कृतभाषिणः! मम मित्रेण योगेशाख्येन व्याकरणविषयं कञ्चन चर्चयताऽधिगामितोऽहं यत् "whatsapp" नाम तन्त्रांशस्य प्रयोगेण बहुसरलरीत्या वयं ध्वनिसन्देशैर् आलापितुं शक्नुमः इति! 

(ध्वनिसन्देशैरालापनं नाम दूरवाणिसम्भाषणमिव न - अपि तु पत्त्रव्यवहार इव। अमुकस् तमुकं ध्वनिसन्देशं प्रेषयेत्। तमुकश् च तत्क्षणं नाऽपि स्वानुकूल्यानुसारं प्रत्युत्तरं दद्यात् अपरेण ध्वनिसन्देशेन। )

ये एवं मया सह भाषितुम् इच्छन्ति, ते http://www.whatsapp.com/faq/en/general/25118341 इत्येतत् पठित्वा, whatsapp-तन्त्रांशं स्थापयित्वा, मां तत्र योजयन्तु मम विपत्र-सङ्केतस्य प्रयोगेण। भवत्सु ये समयोत्साहकौशलादेर् अभावात् पत्त्राणि न लिखितुमिच्छन्ति ते ध्वनिसन्देशान् प्रेषयितुमर्हन्ति (परं तु संस्कृतेनैव वाऽपरया भारतीयभाष्या :-)।

राम राम!

​​
--
--
Vishvas
​​
/विश्वासः
​​

​​
​​

Reply all
Reply to author
Forward
0 new messages