पद्यधारामीनाः - प्रश्नोत्तरपद्यानि युष्माकं दिदृक्षे। सुहासकृतिभिः प्रेरितेन मयेदं लिखितम् -
“के यूयं?” “ननु पारसीकजनता मौहम्मदैःपीडिताः,
संभ्रान्ताश्च पराजये हतनृपाः” “किं वेच्छथागताः”।
“त्वद्राज्ये स्वनिवासभूमिमभयां” “विद्रोहिता स्यान्न वः”
“क्षीरे शर्करवद्भवेम शरणं भव्याद्भुतं भारतम्”॥