As Ramapriyan mahodaya did in the previous thread, I have collected all the responses in this thread so far. See the attached document. If I have missed out responses or not copied the correct versions, please let me know.
This may also be easier for newcomers to follow the thread.
पीतामृतं मोदयति क्व तक्रम्?
पिपासतीन्द्रो न हि पञ्चगव्यम्।शक्रेण रुच्येत नु पद्यपानम्
पदामृतं वाञ्चति पद्यतक्रम्॥
छन्दस्सु दिष्टे ननु दैवयज्ञेवयं प्रयत्ने निरतास् सुवीराः।तक्रोद्भवे पात्रमिवात्र सृष्टम्समर्पयामीह नवीनवृन्दम्॥
+padyadhaaraa@googlegroups , यम् पालयेत् रसिकश्रेष्टः रामप्रियः।--On Fri, Apr 5, 2013 at 8:00 PM, Naresh Cuntoor <nare...@gmail.com> wrote:
As Ramapriyan mahodaya did in the previous thread, I have collected all the responses in this thread so far. See the attached document. If I have missed out responses or not copied the correct versions, please let me know.
This may also be easier for newcomers to follow the thread.
--
Vishvas /विश्वासः
पीतामृतं मोदयति क्व तक्रम्?पातामृतं
Standard version:
भोजनान्ते च किं पथ्यं जयन्तः कस्य वै सुतः ।
विष्णुपदं कथं प्रोक्तं तक्रं शक्रस्य दुर्लभम् ॥
HKR
किं दध्ना निर्मितं वज्रः कस्य हस्ते विराजते ।
शशशृङ्गं कथं प्राप्तं तक्रं शक्रस्य दुर्लभम् ॥
HKK
हैयङ्ग्वीनशेषः किं कस्य भार्या पुलोमजा ।
किं तत्पदं मनुष्येभ्यः तक्रं शक्रस्य दुर्लभम् ॥
एतस्मिन् नन्दने वर्षे वसन्तः शिशिरायते |
क्षीराब्धिमन्थनेनापि तक्रं शक्रस्य दुर्लभम् ||
(bonus - वसन्तः शिशिरायते !)
कामधेनुः कल्पवृक्षः क्षीराब्धिशयनकृपा |
किमेतैरुपपन्नस्य तक्रं शक्रस्य दुर्लभम् ||
NPC
क्रिस्मस् दिनेऽवदत्पत्नी तक्रं नास्ति शतक्रतो ।
विपणे पिहिते चाभूत् तक्रं शक्रस्य दुर्लभम् ॥
बलीन्द्रः प्राह किं न्याय्यं चार्हतो मे निवारणम् ।
संभाषणवचोधारातक्रं शक्रस्य दुर्लभम् ॥
तृषार्तः सन् खगः प्राप्तस्तक्रपूर्णं घटं मुदा ।
ह्रस्वचञ्चोः गतो नन्दस्तक्रं शक्रस्य दुर्लभम् ॥
(शक्रः = उल्लूकः)
पूजायां स्नपनार्थं नु क्षीरं घृतं तथा पयः ।
भजन्ते पुष्पसंगं तु तक्रं शक्रस्य दुर्लभम् ॥
(शक्रः = गिरिमल्लिका)
पुष्पं क्ष्रीरे, दधिनि, घृते च निमज्जनं कृत्वा स्नपयामः । तत्र 'तक्रेण स्नपयामि' इति वचनस्य अश्रवणात् शक्रस्य (मल्लिकापुष्पस्य) तक्रं दुर्लभम्)
ह्यूस्टन् जाता समस्येयं काष्ठाण्यार्द्राणि वृष्टितः ।
यज्ञाभावे कुतो भोज्यं तक्रं शक्रस्य दुर्लभम् ॥
देवे वर्षति भूयिष्ठं विमानानि न यान्ति हि ।
पाकाय नोद्गतं किञ्चित् तक्रं शक्रस्य दुर्लभम् ॥
आस्टिन्त आल्बनीं गन्तुं घण्टा भवन्ति विंशतिः ।
देवानां चेद् भुवो भोज्यं तक्रं शक्रस्य दुर्लभम् ॥
JK
विजयवत्सरे शच्या दधि प्राप्तं भवेद् घनम् ।
तावत्समयपर्यन्तं तक्रं शक्रस्य दुर्लभम् ॥
SV
यमो मित्रं न किं दद्यात् धवलं माहिषं दधि ।
अहो कष्टं पुनः सत्यं तक्रं शक्रस्य दुर्लभम् ॥
वसन्तोऽद्य पुनः शैत्यात् साहाय्यात् विरतो ननु ।
अतः क्षीरं जडं जातं तक्रं शक्रस्य दुर्लभम्॥
नभोमण्डलतापेन स्वर्गेऽप्यस्ति महाश्रमः ।
अतो दध्ना गतं नष्टं तक्रं शक्रस्य दुर्लभम्॥
दिव्याश्वेभद्रुमास्सर्वे चेन्द्रेणापहृता ननु ।
अत्याशाकारणादेव तक्रं शक्रस्य दुर्लभम् ॥
गोवर्धनधरो देवोऽनयत्सर्वं स माधवः ।
समग्रं गोकुलं रिक्तं तक्रं शक्रस्य दुर्लभम् ॥
NJ
नवनीतं विना क्षीरं को लोकः पुण्यशालिनाम् ।
कथं परान्नं भिक्षूणां तक्रं शक्रस्य दुर्लभम् ॥
स्वाद्वाम्ररसयुक्तं किं स्कन्दजायासुता कस्य।
सत्यशीलंसन्मित्रञ्च तक्रं शक्रस्य दुर्लभम्॥
अथ -
HKR
शताश्वमेधान् कृतवान् हविर्भिः
घृतादिभिः पूर्णघटैर्महद्भिः ।
प्रगृह्य वृत्रस्य वधाय वज्रं
शक्रः किमर्थं चिनुते स्म तक्रम् ??
NC
आसीत् पुरा भूरि पुरन्दरस्य
यागेषु भागोऽमितपात्रता च ।
कार्पण्यबाधा भुवि नायकानां
तक्रेऽपि हानिं यजने करोति ॥
(कार्पण्यबाधया sequester अभिप्रेतम् !)
I have attached a .docx version since some indicated that they could not download the rtf version that Naresh mahodaya sent. Please see if this works for you.Ramapriyan.
From: Naresh CuntoorSent: Friday, April 05, 2013 11:00 PMTo: H. K. RamapriyanSubject: Re: takram shakrasya durlabham - samasyaa in the spirit of puraapi navamAs Ramapriyan mahodaya did in the previous thread, I have collected all the responses in this thread so far. See the attached document. If I have missed out responses or not copied the correct versions, please let me know.This may also be easier for newcomers to follow the thread.