गोमूत्रिकाबन्धे अभ्यासः।

42 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 26, 2014, 10:00:18 AM10/26/14
to padyadhaaraa पद्यधारा
युष्माकमत्र प्रयत्नस्य फलं दिदृक्षे।

मम त्वत्रास्ति -
=================
गङ्गादेव्याः मधुराविजयकाव्यम् अधि मम प्रथमो गोमूत्रिकाबन्धनिबद्धश् श्लोकः।

नष्टाततिसुराजानां शिलास्वकथिता गतिः।
दुष्टारातिकुराजीनां हला! सुकविता कृतिः॥

नष्टा आततिः (=सन्ततिः) येषान् ते नष्टाततयः।  दुष्टानां अरातीनां कुत्सिता राजिर् येषान् ते दुष्टारातिकुराजयः।

दोषः - अत्र शब्दज्ञाननैय्यूनत्वात् मम क्त-क्तिन्-सुँप्-प्रत्ययेषु, सु-कु-उपसर्गयोः, "हला" नामाव्यये च अधिकालम्बश् चित्रबन्धनार्थं पदनिर्माणे। 
===================

युष्मत्सूचनाः शुश्रूषे।

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 26, 2014, 10:25:49 AM10/26/14
to padyadhaaraa पद्यधारा

2014-10-26 6:59 GMT-07:00 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
शब्दज्ञाननैय्यूनत्वात्

नैय्यून्यादिति विवक्षितम्।​

H. K. Ramapriyan

unread,
Oct 26, 2014, 2:19:43 PM10/26/14
to padyad...@googlegroups.com
सम्यगस्ति भोः!

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Nov 2, 2014, 2:31:48 PM11/2/14
to padyadhaaraa पद्यधारा
चक्रबन्धे ममादिमः प्रयत्नः। दोषान् सूचयन्तु दोषज्ञाः। (युष्माकमपि प्रयत्नान् दिदृक्षे एव।)


चक्रं दर्शनदक्षताकृतिरथे, वाचंयमे साधिमा
भद्रं यन् मनसस् तनोत्यतितरां, सर्वक्षमाशौण्डता।
वक्रं यद्वचनं विधुं प्रतिवदेत्, यत्सूक्ष्मता स्मायिका
काव्यं मे चरितं भवेत् प्रवचने, मा भून् मिता दीपिका॥

Reply all
Reply to author
Forward
0 new messages