तमुवाचोरगपतेर्दुहिता प्रहसन्त्यथ। |
14-82-5a 14-82-5b 14-82-5c |
|
|
2014-06-06 3:14 GMT-07:00 H. K. Ramapriyan <ramap...@verizon.net>:
सत्यमेव। नूनं भाषा प्रथममागताव्याकरणं पश्चात्। सर्वदा लक्ष्यं प्रथममागतं, पश्चाद्धि लक्षणम्। छन्दःशास्त्रेऽप्येवमेव। भर्तृहरेर् अपाणिनीयप्रयोगाः, यतिस्थानप्रमादाೲ प्रसिद्धाः।
परन्तु, कश्चन गुणवत्पद्यैर् हीनः ज्ञात्वा ज्ञात्वाऽपि दोषान् करोति, गुणप्राप्तौ न प्रयतते, तर्हि तन्नयुक्तम् - तद्दोषा न निमग्नागुणैः।
वाल्मीकिरामायणे -- "प्रदीयतां दाशरथाय मैथिली" (दाशरथये इति सामान्यप्रयोगः)
अत्र संस्तम्भयते + इन्द्रियाणाम् = संस्तम्भयतेन्द्रियाणाम् कथं भवेत्?
अत्र संस्तम्भयते + इन्द्रियाणाम् = संस्तम्भयतेन्द्रियाणाम् कथं भवेत्?णिचश्च । इति सूत्रेण णिजन्तानां खल्व् उभयपदित्वम्? कर्त्रभिप्राये क्रियफल एव आत्मनेपदिता। अत्र तु प्रयोजककर्ता मोहः रत्याः उपकारं करोति, तेन क्रियाफलं रत्यभिप्रायम्।
संस्तम्भयतेऽन्द्रियाणाम् इति ईदृशः सन्धिः महाभारते बहुदा दृश्यते ।
सहिताः अनघाः सहिता अनघाः सहितानघाः इति सन्धिः ।
आत्मीय, अत्र कर्मधारयसमासोऽस्ति। सहितानघा इति समस्तपदम् - त तत्र सन्धिना योजितं पदद्वयं लक्ष्यते।
> अत्र कर्मधारयसमासोऽस्ति।कथञ्चित् समर्थनीयम् इति धिया वक्रगतिः अङ्गीकृता इति **मे** भाति ।
"सहितानघ"सदृशप्रयोगाः (कर्मधारयत्वेन) वर्त्तन्ते वाङ्ग्मये यदि, अवश्यं
प्रकाश्यन्ताम् ।
सस्नेहम्,
अजितः
वैशम्पायन उवाच। | 15-19-1x |
कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम। |
| व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सह भारत।। | 15-19-1a 15-19-1b |
कथञ्चित् समर्थनीयम् इति धिया वक्रगतिः अङ्गीकृता इति **मे** भाति ।
येन केनापि प्रकारेण समर्थनसाहसं विहाय यद्येवम् उच्येत यत्
(१) एतेषु प्रसङ्गेषु विसर्गसन्धिं कृत्वा अच्सन्धिं कदाचित् कुर्वन्ति स्म
(२) कालेन एतादृशाः प्रयोगाः क्षीणतां गताश्चेति
तर्हि का हानिर्जायेत ?
साध्वयम् आक्षेपः। समस्यमानपदयोस् सामर्थ्यमस्ति नवेति अधीतव्याकरणाः पृच्छ्यमानास् सन्ति।

पाञ्चाल्या सहितानघाः इत्यस्य साधुत्वम् एवं चिन्तयितुं शक्यम् स्यात् --
इदं वाक्यं मन्यताम् -- लक्ष्मीसहितं /-समेतं विष्णुं वन्दे = लक्ष्म्या सहितं विष्णुं वन्दे = लक्ष्म्या सहितविष्णुं वन्दे ।
पुनश्च हरिनारायणार्यस्य विचारः - "सहिताः + अनघाः इति सन्धौ, विसर्गलोपे, तस्यासिद्धत्वात्, सहिता अनघाः इति विसन्धौ, दोषात्, आर्षत्वात्, सन्धिरेव, न समासः इति समाधेयम्। अन्ये तादृशा प्रयोगा मृग्याः, न झटिति स्मरामि। किं तु क्वचित् दृष्टाः।"
१) अत्र देवदत्तस्य गुरुकुलम्, ऋद्धस्य राज्ञः पुरुषः - अप्रासङ्गिकम् । ऋद्धः राज्ञः विशेषणम्, अतः तत्र क्लेशः । कुलं गुरोः । गुरुः देवदत्तस्य । अतः तत्र क्लेशः । अत्र तादृशः क्लेशः नास्ति । तर्हि तेषुकिमर्थंचर्चात्र?
३) तेन सहितः तत्सहितः स
मासः बहुधा श्रूयते । सूत्रं सम्यक्न स्मरामि । किमपि कृता बहुलम् इति किंचित् catch all सूत्रं भवति इतिमन्ये। तेप्रयोगास्तुलोकेनरीनृत्यन्ते।
४
) रमासहितविष्णुः = रमया सहितः विष्णुः = रमासहितः विष्णुः इत्यत्र वैवक्षिकः समस्तप्रयोगो वा व्यस्तप्रयोगो वा ।
नित्यसमासस्य प्रसङ्गः नायम् ।
५) सरलः (आर्षः) श्लोकः । सरलः अर्थः । तत्र एतावता तर्केण / दोषाविष्करणप्रयासेन किं जायते इति मया नज्ञायते ।
2014-06-26 23:20 GMT-07:00 Naresh Cuntoor <nare...@gmail.com>:
१) अत्र देवदत्तस्य गुरुकुलम्, ऋद्धस्य राज्ञः पुरुषः - अप्रासङ्गिकम् । ऋद्धः राज्ञः विशेषणम्, अतः तत्र क्लेशः । कुलं गुरोः । गुरुः देवदत्तस्य । अतः तत्र क्लेशः । अत्र तादृशः क्लेशः नास्ति । तर्हि तेषुकिमर्थंचर्चात्र?आत्मीय, "ऋद्धस्य राज्ञः पुरुषः" , तथा "स्फुटोपमेन शम्भुना" (माघकाव्योल्लेखात् विद्वत्परिषदि), तथा "पाञ्चाल्या सहितानघाः" इति सर्वत्र समानता "समस्तपदस्यावयवस्य सापेक्षता" इति। तथ्यं हि त्वयोक्तय्ँ यत् "ऋद्धस्य राज्ञः पुरुषः" इत्यत्र दृश्यमान-विशेषण-विशेष्य-भावो ऽन्यत्र न दृश्यत इति। किञ्च शास्त्रदृष्ट्या विशेषणविशेषभावो वस्तुतः चर्चायाम् अस्याम् न समाससाधुत्वशङ्काया मूलम् - अपि तु सापेक्षता ऽवयवस्य।
puraa iva = pureva | atra kuto bhramaH ?