नूतनसमस्या -श्रोत्रस्कन्धी

48 views
Skip to first unread message

H. K. Ramapriyan

unread,
Jun 14, 2014, 5:51:18 AM6/14/14
to padyad...@googlegroups.com
श्रोत्रस्कन्धी इति पदमुपयुज्य पद्यं रचनीयम् ।

H. K. Ramapriyan

unread,
Jun 22, 2014, 7:07:51 AM6/22/14
to padyad...@googlegroups.com

कश्चित्कान्ताविरहगुरुणा पीडितो दुस्सहेन

श्रोतुं तस्या मधुरवचनं मातृगेहं गतायाः ।

हस्तौ व्यग्रौ पचनसमये, तां ग्रहीतुं न शक्तः

श्रोत्रस्कन्धी धरति स वदन् जङ्गमां दूरवाणीम् ॥

Raghu Rao

unread,
Jun 22, 2014, 7:45:53 AM6/22/14
to padyad...@googlegroups.com
samyak!! 

parantu, shrotraskandhaH uta shrotraskandhiH iti bahuvrIhiH karaNeeyaH kila? 

guNin iva kartum icChati chet, 
iNi pratyayaat purvam  kim? 

Raghu

Sent from my iPhone

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 22, 2014, 11:46:11 AM6/22/14
to padyadhaaraa पद्यधारा
2014-06-22 4:45 GMT-07:00 Raghu Rao <mnr...@gmail.com>:

parantu, shrotraskandhaH uta shrotraskandhiH iti bahuvrIhiH karaNeeyaH kila? 
​​

​प्रश्नोऽयं साधुः। श्रोत्रस्कन्धस् स्याद् इति मेऽवगतिः। ​
​​

guNin iva kartum icChati chet, 
iNi pratyayaat purvam  kim? 
​​
​​
​​श्रोत्रं स्कन्धे यस्याः सा (भङ्गी) - श्रोत्रस्कन्धा। श्रोत्रस्कन्धा अस्यास्तीति श्रोत्रस्कन्धी।
​​
=========
प्रसङ्गेऽस्मिन् अन्यसूत्रगृहीतं स्मर्यते ---
​​

"बहुव्रीहिनिर्वाह्ये न भवन्ति मतुबादयः" इति सामान्यस्थितिः।
किञ्च श्रूयते यत् (अस्मात् सूत्रात्) - 

भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः॥

– भा.पा.सू. ५२९४​​
​​
​​
​​



--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 22, 2014, 3:31:43 PM6/22/14
to padyadhaaraa पद्यधारा

2014-06-22 8:45 GMT-07:00 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः॥

– भा.पा.सू. ५२९४​​

काशिकायामेवं दृश्यते - 
"भूमनिन्दाप्रशंसासु नित्ययोगे ऽतिशायने। संसर्गे ऽस्ति विवक्षायां भवन्ति मतुबादयः।

भूम्नि तावत् गोमान्। निन्दायाम् कुष्ठी। ककुदावर्तिनी। प्रशंसायाम् रूपवती कन्या। नित्ययोगे क्षीरिणो वृक्षाः। अतिशायने उदरिणी कन्या। संसर्गे दण्डी। छत्री। अस्तिविवक्षायाम् अस्तिमान्।"

H. K. Ramapriyan

unread,
Jun 22, 2014, 5:49:07 PM6/22/14
to padyad...@googlegroups.com
एतेन विवरणेन दृश्यते श्रोत्रस्कन्धी इति पदं समीचीनमिति । मम चिन्तनमासीत् श्रोत्रं स्कन्धे निक्षिप्य कश्चित् जङ्गमदूरवाणीं तथा गृहीत्वा सम्भाषणं करोति इति । अतः शोर्त्रं स्कन्धे यस्य सः श्रोत्रस्कन्धी इति प्रयोगम् उपयुक्तवान् ।
 
रामप्रियः ।

Naresh Cuntoor

unread,
Jun 22, 2014, 6:22:56 PM6/22/14
to padyad...@googlegroups.com
अत्र संशयो मे वर्तते ।
ऊर्णनाभः इति पदं मन्यताम् । ऊर्णेव नाभौ अस्य अस्तीति विग्रहवाक्यम् भवति । अच् प्रत्ययः मत्वर्थे ।
ऊर्णनाभिः इत्यपि पदं वर्तते । तत्र बहुव्रीहिणा समर्थनं शक्यम् । विना मत्वर्थीयेन प्रत्ययेन ।

तर्हि बहुव्रीहिणा यत्र सिद्धं भवेत् तत्र सापेक्षं विग्रहवाक्यं भवितुम् अर्हति इति किम् ? (शिष्टप्रयोगं दृष्ट्वा कथंचित् समर्थनं क्रियेत इति तदन्यत् ) ।

कः मत्वर्थीयः प्रत्ययः च भवति इति द्वितीयः संशयः ।

अत्र श्रोत्रस्कन्धः श्रोत्रं स्कन्धे यस्य सः इत्येव पर्याप्तं ननु ?
अथवा स्कन्धे लग्नश्रोत्रः इति वरं मन्ये । स्पष्टतार्थम् ।



Naresh

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 22, 2014, 7:35:41 PM6/22/14
to padyadhaaraa पद्यधारा
2014-06-22 15:22 GMT-07:00 Naresh Cuntoor <nare...@gmail.com>:
अत्र संशयो मे वर्तते ।
​​

ऊर्णनाभः
​​
इति
​​
पदं
​​
मन्यताम्
​​
। ऊर्णेव
​​
नाभौ
​​
अस्य
​​
अस्तीति
​​
विग्रहवाक्यम्
​​
भवति
​​
। अच्
​​
प्रत्ययः
​​
मत्वर्थे
​​
​​
​​
नाभेरुपसङ्ख्यानमित्यच्। इति वदति ​शब्दकल्पद्रुमः। (तथाऽपि वार्त्तिकमिदमन्यत्र न प्राप्तम्।) परमत्र "ऊर्णेव" इति किम्? ततर् सन्धिः कथम्?

​​
ऊर्णनाभिः इत्यपि पदं वर्तते । तत्र बहुव्रीहिणा सम
​​
र्थनं शक्यम् । विना मत्वर्थीयेन प्रत्ययेन ।
​​

​​

तर्हि बहुव्रीहिणा यत्र सिद्धं भवेत् तत्र सापेक्षं विग्रहवाक्यं भवितुम् अर्हति इति किम् ? (शिष्टप्रयोगं दृष्ट्वा कथंचित् समर्थनं क्रियेत इति तदन्यत् ) ।
​​
​​

​विवक्षामवलम्ब्यैव वृत्तिः प्रवर्तते ननु। अतः " शोर्त्रं स्कन्धे यस्य सः " इत्येवमेव विवक्षिते श्रोत्रस्कन्धः इत्येव स्यात्। तत्र भङ्गिर् बलेन विवक्षितं‌ चेत् पूर्वोक्तरीत्या श्रोत्रस्कन्धीति साधुरेव भाति।
​​

​​
कः मत्वर्थीयः प्रत्ययः च भवति इति द्वितीयः संशयः ।
अत्र तावत् नास्ति काठिन्यम्। ​तदस्यास्त्यस्मिन्निति मतुप्‌॥ इत्यारभ्य अहंशुभमोर्युस् ॥ इति यावदेव मत्वादिविधानम्।

​​
अत्र श्रोत्रस्कन्धः श्रोत्रं स्कन्धे यस्य सः इत्येव पर्याप्तं ननु ?
आम्- नास्त्यत्र संशयः।​
​​

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 22, 2014, 7:36:55 PM6/22/14
to padyadhaaraa पद्यधारा

2014-06-22 16:35 GMT-07:00 विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com>:
 तत्र भङ्गिर् बलेन विवक्षितं‌ चेत् पूर्वोक्तरीत्या श्रोत्रस्कन्धीति साधुरेव भाति।
​विवक्षिता​

Naresh Cuntoor

unread,
Jun 22, 2014, 7:43:03 PM6/22/14
to padyad...@googlegroups.com
2014-06-22 15:22 GMT-07:00 Naresh Cuntoor <nare...@gmail.com>:

अत्र संशयो मे वर्तते ।
​​

ऊर्णनाभः
​​
इति
​​
पदं
​​
मन्यताम्
​​
। ऊर्णेव
​​
नाभौ
​​
अस्य
​​
अस्तीति
​​
विग्रहवाक्यम्
​​
भवति
​​
। अच्
​​
प्रत्ययः
​​
मत्वर्थे
​​
​​
​​
नाभेरुपसङ्ख्यानमित्यच्। इति वदति ​शब्दकल्पद्रुमः। (तथाऽपि वार्त्तिकमिदमन्यत्र न प्राप्तम्।) परमत्र "ऊर्णेव" इति किम्? ततर् सन्धिः कथम्?

तन्तुः इति पदं लेखनवेगेन त्यक्तम् ।
ऊर्णा इव तन्तुः ….

​विवक्षामवलम्ब्यैव वृत्तिः प्रवर्तते ननु। अतः " शोर्त्रं स्कन्धे यस्य सः " इत्येवमेव विवक्षिते श्रोत्रस्कन्धः इत्येव स्यात्। तत्र भङ्गिर् बलेन विवक्षितं‌ चेत् पूर्वोक्तरीत्या श्रोत्रस्कन्धीति साधुरेव भाति।
​​

​​
कः मत्वर्थीयः प्रत्ययः च भवति इति द्वितीयः संशयः ।
अत्र तावत् नास्ति काठिन्यम्। ​तदस्यास्त्यस्मिन्निति मतुप्‌॥ इत्यारभ्य अहंशुभमोर्युस् ॥ इति यावदेव मत्वादिविधानम्।

मदीयं लेखनम् अस्पष्टमासीत् इति भाति । शिष्टप्रयोगं दृष्ट्वा कस्मिंश्चित् पदे कः मत्वर्थीयः प्रत्ययः इति  ज्ञायते । तत्र न तावत् काठिन्यम् । परन्तु नूतनपदप्रयोगे कः मत्वर्थीयः प्रयोगः भवितुम् अर्हति इत्यत्र न सर्वदा स्पष्टता वर्तते । अच् वा अपरो वा इत्यादि ।

न्

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 22, 2014, 8:37:25 PM6/22/14
to padyadhaaraa पद्यधारा
मम श्वशुरौ स्मृत्वा -

​याने गच्छति तीव्रवेगसहिते श्रान्त्या हि पृष्ठे स्थिताव्
औष्ण्ये मन्द्यगतेऽपि काम्बलकृते जाड्ये निलीनौ कृतौ।
श्रुण्वन्ताविव सारथेश् च भषणं व्यर्थं कृतं किञ्चन
श्रोत्रस्कन्धविधाव् उभावपि गतौ निद्राप्रपञ्चं सुखम्॥

[काम्बलकृतम् = काम्बलेन कृतम् (औष्ण्यम्)। काम्बलम् = कम्बलेन वृत्तं स्यन्दनम्, अथवा कम्बलस्य इदम्। काम्बलकृतमौष्ण्यं निद्राहितम्।
भषणं बुक्कनम् शुनकस्य :-)।]
Photo
​​
​​


2014
​​
-06-22 16:42 GMT-07:00 Naresh Cuntoor <nare...@gmail.com>:

मदीयं लेखनम् अस्पष्टमासीत् इति भाति । शिष्टप्रयोगं दृष्ट्वा कस्मिंश्चित् पदे कः मत्वर्थीयः प्रत्ययः इति  ज्ञायते । तत्र न तावत् काठिन्यम् । परन्तु नूतनपदप्रयोगे कः मत्वर्थीयः प्रयोगः भवितुम् अर्हति इत्यत्र न सर्वदा स्पष्टता वर्तते । अच् वा अपरो वा इत्यादि ।

मया तथैवावगतमपि। स्वीये मत्वर्थीये प्रयोगे मत्वादिप्रकरणस्य परिशीलनेनालङ्खलु?​ यथाऽधुना तत्पुरुषसमासे दोषनिवारणेच्छया सूत्राणि मूहुर्मूहुः दृश्यन्ते।

Raghu Rao

unread,
Jun 22, 2014, 9:06:23 PM6/22/14
to padyad...@googlegroups.com
 evam PraayaH saadhayitum shakyate -
shrotram skandhe yasyaaH saa - shrotraskandhaa (patnI)
shrotraskandhaa asya asti iti - shrotRaskandhin (paaNigrAhi, patiH)

angahaaraH iva drushyeta param asamdigdhaH asti |
(Contortions iva)

Raghu

Sent from my iPhone

Naresh Cuntoor

unread,
Jun 22, 2014, 9:13:56 PM6/22/14
to padyad...@googlegroups.com

मया तथैवावगतमपि। स्वीये मत्वर्थीये प्रयोगे मत्वादिप्रकरणस्य परिशीलनेनालङ्खलु?​ यथाऽधुना तत्पुरुषसमासे दोषनिवारणेच्छया सूत्राणि मूहुर्मूहुः दृश्यन्ते।

अपवादभूतसूत्रेषु प्रयोगाय पादार्पणं भयावहं भवति । यतः बहुत्र प्रत्यया  ऊह्या  भवन्ति । आस्तां तावत् इति धार्ष्ट्येन प्रयोगो भवेत् कदाचित् । यत्र' स भवेत् कश्चित् वैयाकरणः समर्थनशीलः' इति  मत्या कृतः प्रयोगः । तत्र न मे कश्चित् आक्षेपः । वर्तमानाः नियमाः के इति ज्ञात्वा यथेच्छम् उल्लङ्घ्यतां नाम ।

सति राजमार्गे (बहुव्रीहिरूपे) आश्रयः निरामयः ।

Naresh Cuntoor

unread,
Jun 22, 2014, 9:15:54 PM6/22/14
to padyad...@googlegroups.com
अत एव सन्दिग्धत्वं मास्तु इति कृत्वा पदान्तरं भवितुमर्हति इति मे मतिः ।

Naresh

Raghu Rao

unread,
Jun 22, 2014, 10:03:10 PM6/22/14
to padyad...@googlegroups.com
spashTataa prapte kaa haaniH ? etat eva bhavatu | nUtana bhaavaH chet spashTIkrutvaa likhyataam |

raghu

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 22, 2014, 10:38:03 PM6/22/14
to padyadhaaraa पद्यधारा

2014-06-22 18:13 GMT-07:00 Naresh Cuntoor <nare...@gmail.com>:
​​

​​​
वर्तमानाः नियमाः के इति
​​
ज्ञात्वा यथेच्छम् उल्लङ्घ्यतां नाम ।
​नूनमङ्गीक्रियते सहसास्य औचित्यम्।​ खलु सावधानतया प्रकरणान्तर्गतमुख्यसूत्रदर्शनं नियमज्ञातौ पर्याप्तप्रयत्नः। परम् …
अपवादभू
​​
तसूत्रेषु प्रयोगाय
​​
 पादार्पणं
​​
भयावहं 
​​
भवति
​​
 । 
​​
यतः
​​
 
​​
बहुत्र
​​
 
​​
प्रत्यया
​​
  
​​
ऊह्या
​​
  
​​
भवन्ति
​​
 । 
​​
 
 ​अपवादभूतसूत्रेषु पादार्पणेनैव तेषाम् अवगतिर् वर्धते। दोषे कृते स्यात् तत्प्रदर्शनं केनचिद् यथाऽत्र कृतं रघुना।
तथा हि कति वा सन्त्यपवादरहितानि सूत्राणि :-)।

H. K. Ramapriyan

unread,
Jun 23, 2014, 6:39:47 AM6/23/14
to padyad...@googlegroups.com
मम सूत्रज्ञानम् अत्यल्पमेव । परन्तु एवं भवितुमर्हति वा इति प्रश्नः --
 
श्रोत्रे स्थितः स्कन्धः श्रोत्रस्कन्धः (मध्यमपदलोपी कर्मधारयः) । श्रोत्रस्कन्धः अस्य अस्ति इति श्रोत्रस्कन्धी ।
 
रामप्रियः ।
 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jun 23, 2014, 10:16:00 AM6/23/14
to padyadhaaraa पद्यधारा

2014-06-23 3:39 GMT-07:00 H. K. Ramapriyan <ramap...@verizon.net>:
श्रोत्रे स्थितः स्कन्धः श्रोत्रस्कन्धः (मध्यमपदलोपी कर्मधारयः) ।
​​
​सोपानेऽस्मिन् ​शाकपार्थिवादिगणे अन्तरुभूतत्वस्य शिष्ठप्रयोगैः प्रमाणम् इष्यते।
Reply all
Reply to author
Forward
0 new messages