कश्चित्कान्ताविरहगुरुणा पीडितो दुस्सहेन
श्रोतुं तस्या मधुरवचनं मातृगेहं गतायाः ।
हस्तौ व्यग्रौ पचनसमये, तां ग्रहीतुं न शक्तः
श्रोत्रस्कन्धी धरति स वदन् जङ्गमां दूरवाणीम् ॥
parantu, shrotraskandhaH uta shrotraskandhiH iti bahuvrIhiH karaNeeyaH kila?
guNin iva kartum icChati chet,iNi pratyayaat purvam kim?
भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने।
सम्बन्धेऽस्तिविवक्षायां भवन्ति मतुबादयः॥
– भा.पा.सू. ५२९४
अत्र संशयो मे वर्तते ।ऊर्णनाभःइतिपदंमन्यताम्। ऊर्णेवनाभौअस्यअस्तीतिविग्रहवाक्यम्भवति। अच्प्रत्ययःमत्वर्थे।
ऊर्णनाभिः इत्यपि पदं वर्तते । तत्र बहुव्रीहिणा समर्थनं शक्यम् । विना मत्वर्थीयेन प्रत्ययेन ।
तर्हि बहुव्रीहिणा यत्र सिद्धं भवेत् तत्र सापेक्षं विग्रहवाक्यं भवितुम् अर्हति इति किम् ? (शिष्टप्रयोगं दृष्ट्वा कथंचित् समर्थनं क्रियेत इति तदन्यत् ) ।
कः मत्वर्थीयः प्रत्ययः च भवति इति द्वितीयः संशयः ।
अत्र श्रोत्रस्कन्धः श्रोत्रं स्कन्धे यस्य सः इत्येव पर्याप्तं ननु ?
तत्र भङ्गिर् बलेन विवक्षितं चेत् पूर्वोक्तरीत्या श्रोत्रस्कन्धीति साधुरेव भाति।
2014-06-22 15:22 GMT-07:00 Naresh Cuntoor <nare...@gmail.com>:
अत्र संशयो मे वर्तते ।ऊर्णनाभःइतिपदंमन्यताम्। ऊर्णेवनाभौअस्यअस्तीतिविग्रहवाक्यम्भवति। अच्प्रत्ययःमत्वर्थे।नाभेरुपसङ्ख्यानमित्यच्। इति वदति शब्दकल्पद्रुमः। (तथाऽपि वार्त्तिकमिदमन्यत्र न प्राप्तम्।) परमत्र "ऊर्णेव" इति किम्? ततर् सन्धिः कथम्?
विवक्षामवलम्ब्यैव वृत्तिः प्रवर्तते ननु। अतः " शोर्त्रं स्कन्धे यस्य सः " इत्येवमेव विवक्षिते श्रोत्रस्कन्धः इत्येव स्यात्। तत्र भङ्गिर् बलेन विवक्षितं चेत् पूर्वोक्तरीत्या श्रोत्रस्कन्धीति साधुरेव भाति।कः मत्वर्थीयः प्रत्ययः च भवति इति द्वितीयः संशयः ।अत्र तावत् नास्ति काठिन्यम्। तदस्यास्त्यस्मिन्निति मतुप्॥ इत्यारभ्य अहंशुभमोर्युस् ॥ इति यावदेव मत्वादिविधानम्।
मदीयं लेखनम् अस्पष्टमासीत् इति भाति । शिष्टप्रयोगं दृष्ट्वा कस्मिंश्चित् पदे कः मत्वर्थीयः प्रत्ययः इति ज्ञायते । तत्र न तावत् काठिन्यम् । परन्तु नूतनपदप्रयोगे कः मत्वर्थीयः प्रयोगः भवितुम् अर्हति इत्यत्र न सर्वदा स्पष्टता वर्तते । अच् वा अपरो वा इत्यादि ।
मया तथैवावगतमपि। स्वीये मत्वर्थीये प्रयोगे मत्वादिप्रकरणस्य परिशीलनेनालङ्खलु? यथाऽधुना तत्पुरुषसमासे दोषनिवारणेच्छया सूत्राणि मूहुर्मूहुः दृश्यन्ते।
वर्तमानाः नियमाः के इतिज्ञात्वा यथेच्छम् उल्लङ्घ्यतां नाम ।
अपवादभूतसूत्रेषु प्रयोगायपादार्पणंभयावहंभवति।यतःबहुत्रप्रत्ययाऊह्याभवन्ति।
श्रोत्रे स्थितः स्कन्धः श्रोत्रस्कन्धः (मध्यमपदलोपी कर्मधारयः) ।