किं मेऽपराधस्त्वयि कुक्कुराधम ब्रवीहि किं तेऽपकृतं मया कदा ।
उक्त्वेति दुद्राव ततो भयार्तः श्वा त्वन्वगच्छत्सहसाऽभिहिंसया ॥
तिष्ठाऽधम प्राकृत षण्ढ दीन त्वरा निवर्तस्व न ते हि निर्गतिः । इति प्रभष्याऽभिजगाम तं श्वा ददंश च श्रोणिमुभौ च पादौ ॥ हा हेति विक्रुश्य नरस्ततस्तं संकोपितं क्रूरतरं च कुक्कुरम् । पुनः पुनर्भीतमना अताडयद्धिक्त्वामिति श्वानमुवाच तं शपन् ॥