जीवनं व्यर्थमेव

59 views
Skip to first unread message

H. K. Ramapriyan

unread,
May 1, 2013, 9:28:53 PM5/1/13
to padyad...@googlegroups.com
नमस्सर्वेभ्यः । एतत् श्लोकपादं भवत्सु केचन पुरा दृष्टवन्तः स्युः । एतन्मया उपयुक्तं पुरा लिखिते कस्मिंश्चित् पद्ये । ये एतत् न दृष्टवन्तः (ये दृष्टवन्तश्च) कथं पूरयेयुरिति मम कुतूहलः ।
 
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ।
 
रामप्रियः ।

विश्वासो वासुकेयः (Vishvas Vasuki)

unread,
May 5, 2013, 1:51:34 PM5/5/13
to H. K. Ramapriyan, padyad...@googlegroups.com
श्रेयोमार्गे तदननुसृते जीवनं व्यर्थमेव।


2013/5/1 H. K. Ramapriyan <ramap...@verizon.net>

नमस्सर्वेभ्यः । एतत् श्लोकपादं भवत्सु केचन पुरा दृष्टवन्तः स्युः । एतन्मया उपयुक्तं पुरा लिखिते कस्मिंश्चित् पद्ये । ये एतत् न दृष्टवन्तः (ये दृष्टवन्तश्च) कथं पूरयेयुरिति मम कुतूहलः ।
 
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ।
 
रामप्रियः ।



--
--
Vishvas /विश्वासः

विश्वासो वासुकेयः (Vishvas Vasuki)

unread,
May 5, 2013, 4:41:35 PM5/5/13
to H. K. Ramapriyan, padyad...@googlegroups.com
क्रोधं शोकं च मनसि भृते जीवनं व्यर्थमेव।
हीने मार्गे तदनपसृते जीवनं व्यर्थमेव॥
शान्ते बुद्धे ह्यननुचरिते जीवनं व्यर्थमेव।
श्रेयोमार्गे तदननुसृते जीवनं व्यर्थमेव॥

2013/5/5 विश्वासो वासुकेयः (Vishvas Vasuki) <vishvas...@gmail.com>

H. K. Ramapriyan

unread,
May 6, 2013, 5:24:30 AM5/6/13
to विश्वासो वासुकेयः (Vishvas Vasuki), padyad...@googlegroups.com
विश्वासमहोदय , नमस्ते ।
 
श्लोकः सम्यगस्ति । परन्तु मन्दक्रान्तावृत्ते अस्ति । मम श्लोकपादः स्रग्धरायाम् आसीत् । तथा च तत् श्लोकपादं सम्पूर्णतया उपयोक्तव्यम् अन्यानि त्रीणि पादानि सम्पूरित्व्यानि इत्यासीत् मम मनः ।
 
रामप्रियः ।

विश्वासो वासुकेयः (Vishvas Vasuki)

unread,
May 6, 2013, 1:09:45 PM5/6/13
to H. K. Ramapriyan, padyad...@googlegroups.com
गीर्वाणीज्ञानशून्ये नु कथमवगतं वेदमन्त्रं सभावं?
वाल्मीकिर्व्यासभासौ च कविकुलगुरुः स्वादरिक्ता भवेयुः।
नष्टस्स्यात्तेऽभिमानः परमतपतितो वञ्चितो योऽविवेकी
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव॥



2013/5/6 H. K. Ramapriyan <ramap...@verizon.net>

विश्वासो वासुकेयः (Vishvas Vasuki)

unread,
May 6, 2013, 1:36:59 PM5/6/13
to H. K. Ramapriyan, padyad...@googlegroups.com

2013/5/6 विश्वासो वासुकेयः (Vishvas Vasuki) <vishvas...@gmail.com>

नष्टस्स्यात्तेऽभिमानः परमतपतितो वञ्चितो योऽविवेकी
पद् + क्त = पन्न। पत् + क्त = पतित - एवम् नु? नो चेत् "परमतभणिते " इति कार्यम्।
"पतित पावन सीताराम" इति तु प्रसिद्धम्।

Naresh Cuntoor

unread,
May 7, 2013, 1:22:01 AM5/7/13
to padyad...@googlegroups.com
केचित् प्रयत्नाः सन्ति -

नीलाकाशोन्मुखाद्रौ शिववसनशिवे पार्वतीतप्तपूते
गङ्गाधारासुशोभे बुधगणवसतौ ब्रह्मपुत्रप्रवृद्धे ।
कावेरीधूतभूमौ हरितनगपदे भारते प्राप्य जन्म
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ॥

शिववसनशिवे । शिवावासः कैलासः एव शिवं मङ्गलम् । तत्र ।
हरितनगपदे । हरितनगाः (पूर्वस्यां च पश्चिमायां च पर्वतघट्टौ) एव पादौ यस्य तस्मिन् भारते ।

त्वं मेधावी महांस्त्वं बहुकृतिनिपुणस्त्वं विदेशेऽपि वेद्यः
त्वं तुष्टस्त्वं प्रशान्तो विगतचलधीः सान्त्वने त्वं समर्थः ।
त्वं त्यागी पूर्णकुम्भो रसभरितपदस्त्वं कुलोद्धारशीलः
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ॥

स्वेच्छं डीयेत पक्षी वियति यदि न वै जीवनं व्यर्थमेव
गङ्गा पापं निमग्नाद्धरति यदि न वै जीवनं व्यर्थमेव ।
रक्षाकार्यं सुराणां भवति यदि न वै जीवनं व्यर्थमेव
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ॥

डयनविहीनस्य पक्षिणः वा पापनिवारणासमर्थायाः गङ्गायाः वा रक्षणासमर्थानां सुराणां वा यथा जीवनं व्यर्थम् तथा ।

स्मृत्वा कार्याणि भूत्यै करणपरतया तानि कर्तुं प्रवृत्तः
पुत्रादीन् पालयन्वा भरणपरतया विद्यसे जालबद्धः ।
अद्य श्वो वा भवेन्मे वचनदृढमतिर्भावयन्नास्थितः सन्
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ॥

प्रख्यातिर्मे समस्ते भुवि भवति नुता पौरुषात् सिंहतुल्यान्
नाम श्रुत्वारयो मे च गडगडभिया धाविता युद्धभूम्याः ।
हस्तावृत्तेः क्षिपेयं दनुजकुलगणामुत्तरो भाषमाणः
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ॥
उत्तरकुमारस्य पौरुषं स्मृत्वा एतत् ।

अथ प्रिययोः नष्टप्रायस्य प्रेम्णः स्मरणेन नायकः आह --
मेघैर्वीते सुवाते द्यवि जलधितटे सुन्दरे रागयुक्ते
वीचीभिस्तानगम्ये तरुगतरवतो रम्यरागे च हृद्ये ।
आलिङ्ग्य श्रोत्रपेयां रहसि निगदितां मानसे प्रोज्झितान्तां
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ॥

आसन्दे बद्धपट्टं भवतु कटिगतं चण्डवायोर्यतो भीः
पीठं हृत्वा निमग्ने कुरु जलगमनं त्रायते प्लावकोऽसौ ।
वाचं वैमानिकानां श्रुणु च हितकरीमात्मरक्षाय नूनं
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ॥

विमानेन गच्छन् आसनपट्टबन्धने नियमान् श्रुत्वा एतत् स्फुरितम् । तत्र आकाशे वचनश्रवणात् आकाशवाणी गीर्वाणी इति भावः ।

(PS to Vishwas: Could you change the default reply to "reply to group" instead of reply to sender?)

2013/5/1 H. K. Ramapriyan <ramap...@verizon.net>
नमस्सर्वेभ्यः । एतत् श्लोकपादं भवत्सु केचन पुरा दृष्टवन्तः स्युः । एतन्मया उपयुक्तं पुरा लिखिते कस्मिंश्चित् पद्ये । ये एतत् न दृष्टवन्तः (ये दृष्टवन्तश्च) कथं पूरयेयुरिति मम कुतूहलः ।

विश्वासो वासुकेयः (Vishvas Vasuki)

unread,
May 7, 2013, 1:31:55 AM5/7/13
to Naresh Cuntoor, padyad...@googlegroups.com

2013/5/6 Naresh Cuntoor <nare...@gmail.com>

(PS to Vishwas: Could you change the default reply to "reply to group" instead of reply to sender?)

तथाकरवम्। पूर्वन्त्व् एवम् आसीत् -
Inline image 1

तथा भवतेऽपि नियमकशक्तिं दत्तवान्, येन भवान् स्वयं कुशलरीत्या सन्देशश्रेण्याः शोधनम् साधयेत्।
image.png

Ajit Krishnan

unread,
May 7, 2013, 1:41:30 AM5/7/13
to H. K. Ramapriyan, विश्वासो वासुकेयः (Vishvas Vasuki), padyad...@googlegroups.com
ओम्

I'd forgotten about your reply, and composed this with only the last half. 

श्रेयोमार्गः इत्यनेन यथाकालाचरणं लक्षितम् 

गाढं ध्येयं हरिहरपदे श्रावितं पूर्वयोनौ
ध्यातं दृष्टं नु नयनपथे वारितं तद्बलेन ।
नष्टे काले पुनरपि तदा लालसा देवपादे
श्रेयोमार्गे तदननुसृते जीवनं व्यर्थमेव ॥

सस्नेहम्,

    अजितः 
 


2013/5/6 H. K. Ramapriyan <ramap...@verizon.net>
विश्वासमहोदय , नमस्ते ।

विश्वासो वासुकेयः (Vishvas Vasuki)

unread,
May 7, 2013, 12:23:48 PM5/7/13
to Ajit Krishnan, H. K. Ramapriyan, padyad...@googlegroups.com

2013/5/6 Ajit Krishnan <ajit.k...@gmail.com>

श्रेयोमार्गः इत्यनेन यथाकालाचरणं लक्षितम् 
लक्षणमिदम् पृष्टभूमिकाञ्च न जानामि - कृपया गदतात्।

Ajit Krishnan

unread,
May 9, 2013, 2:23:58 PM5/9/13
to विश्वासो वासुकेयः (Vishvas Vasuki), H. K. Ramapriyan, padyad...@googlegroups.com

> लक्षणमिदम्

na kaapi pRShTabhuumikaa. shreyomArgaH = yathAkAlAcaranam iti manasi sphuritam aasiit. bhavatu nAma.


anyat padyam. 
samskAra-pAtreShu shreShTataram pAtram saMskRtam iti dhiyaa racitam.

.. aum ..
श्रेयःपात्रनिधौ सर्वविधजनमनोहारिणी लोकभाषा
कारुण्यादार्षभाषा जनपदनिगमे श्रूयते मातृभाषा ।
पात्रे नष्टे तु दुःखं सकलमुनिवराणां सुधर्मा विनष्टा
गीर्वाणीं तां तु भाषां स्मरसि यदि न तज्जीवनं व्यर्थमेव ॥ 

nigama = purI, mArgaH, ApaNaH vA. sarve.api arthAH abhipretAH.
sudharmA (deva-sabhA) vinaShTA iti matvA duHkham.

sasneham,

    ajit



 


2013/5/7 विश्वासो वासुकेयः (Vishvas Vasuki) <vishvas...@gmail.com>

H. K. Ramapriyan

unread,
May 9, 2013, 11:39:12 PM5/9/13
to padyad...@googlegroups.com
अजितमहोदय, नमस्ते । उत्तमोऽस्ति मनोभावः । पद्ये यतिनियमोल्लङ्घनं न भवति चेत् इतोऽपि उत्तमं भवेत् । किन्तु म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् इति वृत्तलक्षणम् । श्रेयःपात्रनिधौ इत्यत्र मभौ स्तः न मरौ ।
 
रामप्रियः ।

Ajit Krishnan

unread,
May 10, 2013, 9:36:45 AM5/10/13
to padyad...@googlegroups.com

श्रेयःपात्रनिधौ इत्यत्र मभौ स्तः न मरौ


हा हन्त । "श्रेयःपात्रोदधौ" इति पठ्यताम् । अन्येऽपि दोषाः सन्ति चेत्, अवश्यं तेऽपि प्रकाशनीयाः । 

सस्नेहम्,

    अजितः 
 


2013/5/9 H. K. Ramapriyan <ramap...@verizon.net>

Ajit Krishnan

unread,
May 10, 2013, 9:41:06 AM5/10/13
to padyad...@googlegroups.com
यतिनियमोल्लङ्घ


यतिविषये मया न कदापि पठितम् एतावता । करिष्यामि ।

    अजितः

 
   ajit
 
 


2013/5/9 H. K. Ramapriyan <ramap...@verizon.net>
अजितमहोदय, नमस्ते । उत्तमोऽस्ति मनोभावः । पद्ये यतिनियमोल्लङ्घनं न भवति चेत् इतोऽपि उत्तमं भवेत् । किन्तु म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् इति वृत्तलक्षणम् । श्रेयःपात्रनिधौ इत्यत्र मभौ स्तः न मरौ ।

H. K. Krishnapriyan

unread,
May 10, 2013, 10:08:32 AM5/10/13
to padyad...@googlegroups.com, Ajit Krishnan

From a practical point view, it is better to just forget gaNas and learn the meters with yatis. The gaNa classification is to meters what kaTapayAdi mELakarta classification is to rAgas.

Ajit Krishnan

unread,
May 10, 2013, 6:06:33 PM5/10/13
to padyad...@googlegroups.com
namaste,

> it is better to just forget gaNas and learn the meters with yatis


What I'm taking this to mean is simply that a gaNa is not a discrete unit, and what matters is the laghutvam / gurutvam of each akshara between yatis. Did you mean something else?

One more question -- sragdharaa has four pAdAs. Is sandhi obligatory / optional / prohibited between pAdas 1-2 and 3-4?

sasneham,
 
   ajit
 
 


2013/5/10 H. K. Krishnapriyan <kris...@comcast.net>

Naresh Cuntoor

unread,
May 10, 2013, 6:25:53 PM5/10/13
to padyad...@googlegroups.com
I find it easier to work with the laghu-guru pattern within each yati-fied unit. gaNas are useful for remembering the pattern though. Or remembering a shloka works too. For example, in the case of sragdharA, I found myself repeating yA sRuShTiH over and over again when replying to the pUrti in question. To sort of internalize the pattern in a new Chandas, sometimes I do a bit of nAnAna kind of humming too.

Yes, sandhi is done between 1-2 and 3-4. This matters more if the 2nd or 4th pAda starts with a svara. Consider this example:
if instead of धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
we have धर्मक्षेत्रे कुरुक्षेत्रे अधिगता युयुत्सवः, then the त्रे अ present a sandhi situation,
making it धर्मक्षेत्रे कुरुक्षेत्रेऽधिगता युयुत्सवः and thus a Chandobhanga.



2013/5/10 Ajit Krishnan <ajit.k...@gmail.com>

Ajit Krishnan

unread,
May 10, 2013, 6:37:21 PM5/10/13
to padyad...@googlegroups.com

> Consider this example


There's a difference between short meters like anushtup and longer meters like sragdhara. The later is long enough that it is no longer pleasant to recite each half in a single breath. It wouldn't be unnatural to relax the sandhi rules between 1-2 and 3-4 .... practically speaking, that's how we say it.
 
   ajit
 
 


2013/5/10 Naresh Cuntoor <nare...@gmail.com>

विश्वासो वासुकेयः (Vishvas Vasuki)

unread,
May 10, 2013, 6:45:53 PM5/10/13
to padyad...@googlegroups.com
2013/5/10 Ajit Krishnan <ajit.k...@gmail.com>

> Consider this example


There's a difference between short meters like anushtup and longer meters like sragdhara. The later is long enough that it is no longer pleasant to recite each half in a single breath. It wouldn't be unnatural to relax the sandhi rules between 1-2 and 3-4 .... practically speaking, that's how we say it.

पक्षोऽयं मे सम्यगिव भाति।

Naresh Cuntoor

unread,
May 10, 2013, 6:46:14 PM5/10/13
to padyad...@googlegroups.com
Still .. I have not come across examples of such relaxation.

H. K. Krishnapriyan

unread,
May 10, 2013, 6:56:05 PM5/10/13
to padyad...@googlegroups.com, Ajit Krishnan

Yes. That is a part of it. A useful thing to also keep in mind is the laghu-guru structure of each part of a pAda as divided up by the yatis. If you do that, you will notice similarities between meters such as sragdharA, mandAkrAntA and mAlinI. The last unit of seven has the same structure of laghus and gurus in all the meters; the first group is generally made up of gurus (assume mAlini's first group is null :-) ); the second group is generally made up of laghus. You can see that this property of starting with gurus, having the middle set of syllables dominated by laghus and a (different) 7 syllable last group is shared by shArdUlavikrIDita also.

You can also see the similarities between indravajrA, upendravajrA, vaMshasta, indravaMsha and vasantatilakA if you do this.

Thinking in terms of gaNas also obscures some "natural" groupings if the number of syllables in a line is not 0 mod 3. Example:  narkuTaka has a pattern  - - -  - = -  = - -  - = -  - = -  - = ( - is laghu, = is guru). Here the last three groups of 3 syllables each have the same laghu-guru pattern.  A shlOka from vedAnta dEshika's dayAshataka that exploits this nicely with notable sound play in the last nine syllables is

मृदुहृदये दये मृदितकामहिते महिते
धृतविबुधे बुधेषु विततात्मधुरे मधुरे |
वृषगिरिसार्वभौमदयिते मयि ते महतीं
भवुकनिधे निधेहि भवमूलहरां लहरीम् ||

Not sure about your second question. As far as I can recall, there is never sandhi between the second and third lines.  I have seen shlOkas where the first two lines (or last two lines) are a single word, though ends of first or third lines seem to have a natural yati with "word-ending".

H. K. Krishnapriyan

unread,
May 10, 2013, 11:13:22 PM5/10/13
to padyad...@googlegroups.com, Naresh Cuntoor
I think the question was not whether there is chandobhanga if the sandhi is done; there certainly is. Rather, it was whether you can avoid chandobhanga by not doing sandhi in this situation.  That is, is there an explicit ban somewhere? And are there instances that ignore this ban somewhere?

Naresh Cuntoor

unread,
May 10, 2013, 11:42:07 PM5/10/13
to H. K. Krishnapriyan, padyad...@googlegroups.com
Right. I don't recall any examples of such a sandhi not being done. For example, if we consider Mandakranta to be a longish Chandas, we see sandhi being done in these cases in Meghaduta.



H. K. Krishnapriyan

unread,
May 11, 2013, 12:27:25 AM5/11/13
to Naresh Cuntoor, padyad...@googlegroups.com
An example from amarakoSha (dvitIyakANDa, brahmavarga)

क्रमादातिथ्यातिथेये अतिथ्यर्थे‍‌ऽत्र साधुनि

sandhi is applied in the middle of the pAda, but not between padas.

H. K. Ramapriyan

unread,
May 11, 2013, 5:31:38 AM5/11/13
to padyad...@googlegroups.com
An example from Ramayana where Sandhi is possible but not applied:
 
विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् । वत्स राम धनुः पश्य इति राघवमब्रवीत् ।।
 
I had heard in a lecture from my आचार्य that the सन्धिनियमभङ्ग was intentionally done by वाल्मीकि  to indicate the upcoming शिवधनुर्भङ्ग ।
 
Ramapriyan.

Naresh Cuntoor

unread,
May 11, 2013, 7:51:58 AM5/11/13
to padyad...@googlegroups.com
Another intentional breaking, though within a pada, is bhartrhari's dhik taam cha tam cha imaam cha maam cha.

In Amara, there are sandhi breaks within a pAda as well. ... paripATI anukramaH comes to mind.



2013/5/11 H. K. Ramapriyan <ramap...@verizon.net>

H. K. Ramapriyan

unread,
May 11, 2013, 8:42:19 AM5/11/13
to padyad...@googlegroups.com
On the other hand there are examples of using sandhi across paadas to comply with the meter:
 
धन्यैः श्रुतम् तदिह तावकरासकाले गीतेन येन हि शिलास्सलिलां बभूवुः ।
पञ्चापि किञ्च परिवृत्तगुणानि भूतन्युर्वीकृशानुमरुदम्बरशम्बराणि ॥
 
This one is from कूरेश in his अतिमानुषस्तव ।
 
Ramapriyan.

H. K. Krishnapriyan

unread,
May 11, 2013, 9:38:41 AM5/11/13
to padyad...@googlegroups.com, H. K. Ramapriyan


On 5/11/2013 2:31 AM, H. K. Ramapriyan wrote:
An example from Ramayana where Sandhi is possible but not applied:
 
विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम् । वत्स राम धनुः पश्य इति राघवमब्रवीत् ।।
 
I had heard in a lecture from my आचार्य that the सन्धिनियमभङ्ग was intentionally done by वाल्मीकि  to indicate the upcoming शिवधनुर्भङ्ग ।
Perhaps. But commentators can be very clever and see things that the poet did not see (though poets may not consciously see all the aspects of what they compose). Valmiki does have

निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः | सौमित्रिं संपरिष्वज्य इदं वचनमब्रवीत् ||

in YuddhakAnDa just after setubandha. Of course, it is possible to see further breakages such as rAvana's pride after this. :-)

sharada varadarajan

unread,
May 14, 2013, 7:58:13 PM5/14/13
to Naresh Cuntoor, padyad...@googlegroups.com
              नमांसि ।

                 विलम्बाय क्षम्यताम्। प्रथम एव प्रेषितः ।

                  गायं गायं सुपुण्यां सुकरपदयुतां माधवप्रोक्तगीताम् 
                  स्मारं स्मारं सुबोधं वरकविकृतविख्यातसाहित्यगुच्छम्।
                  वारं वारं वचोभिस्सुमधुरसुरवाण्यां(याः) मिथस्सल्लपन् त्वम्
                  गीर्वाणीं तां तु भाषां स्मरसि न यदि तज्जीवनं व्यर्थमेव ॥

                        शारदा व ।
                         


From: Naresh Cuntoor <nare...@gmail.com>
To: "padyad...@googlegroups.com" <padyad...@googlegroups.com>
Sent: Tuesday, May 7, 2013 12:22 AM
Subject: Re: जीवनं व्यर्थमेव

H. K. Ramapriyan

unread,
May 14, 2013, 8:16:40 PM5/14/13
to padyad...@googlegroups.com
नमस्सर्वेभ्यः । सर्वेषां पूरणानि सम्यक् सन्ति । भववैविध्यम् अन्विषन्नेव एतत् प्रेषितवान् अहम् । इदानीं मया अक्टोबर् २००३ समये लिखितानि पद्यानि प्रेषयामि । एतानि सप्तभाषासु स्रग्धरावृत्तेन रचितानि । अस्मिन् गणे नानाभाषीयाः सन्ति येषु केचन एतानि सर्वाणि अवगच्छेयुः । एतासु भाषासु परिणतिः नास्ति यद्यपि पद्यरचने प्रयत्नं कृतवान् । प्रतिपद्यं मामेव उद्दिश्य लिखितम् इति अवगन्तव्यम् ।
 
ಸಪ್ತ(ಸುಪ್ತ?)ಭಾಷಾಪ್ರೇಮ
 
ಹಂ. ಕ. ರಾಮಪ್ರಿಯನ್
 
ಮೊದಲನೆಯ ಬಾರಿ ಬರೆದದ್ದು - ಅಕ್ಟೋಬರ್ ೩೧, ೨೦೦೩. ಇದು ಬರಹ ೬.೦ ತಂತ್ರಾಂಶದ ತಮಿೞ್ ಮತ್ತು ತೆಲುಗು ಲಿಪಿಗಳನ್ನು ಬಳಸಿರುವ ಕಡತ. 
 
ಬೆಂಗಳೂರಿನಲ್ಲಿ ಬೆಳೆಯುವಾಗ ನಾನಾಭಾಷೆಗಳು ಕಿವಿಗೆ ಬೀಳುತ್ತವೆ.  ಇಂತಹ ವೈವಿಧ್ಯವೇ ಬೆಂಗಳೂರಿನ ವೈಶಿಷ್ಟ್ಯ. ಈ ಕಾರಣದಿಂದ ನನಗೂ ನಾನಾಕಾರಣಗಳಿಂದ ಕೆಲವು ಭಾಷೆಗಳು ಬರುತ್ತವೆ.  ಇವೆಲ್ಲದರಲ್ಲೂ ಪಾಂಡಿತ್ಯವಿಲ್ಲದಿದ್ದರೂ (ಮತ್ತು ಇತ್ತೀಚೆಗೆ ಮಾತನಾಡುವ ಬಳಕೆಯಿಲ್ಲದಿದ್ದರೂ) ಕೆಲವು ಪದ್ಯಗಳನ್ನು ಬರೆಯುವಷ್ಟು ಮಾತ್ರ ಗೊತ್ತು.  ಗೊತ್ತಿರುವದಕ್ಕಿಂತಲೂ ಬರೆಯುವ ಹಂಬಲ ಹೆಚ್ಚು.  ಅವುಗಳನ್ನು ಮರೆಯಬಾರದೆಂಬ ಅಭಿಪ್ರಾಯ.  ಆದ್ದರಿಂದಲೇ ಏಳು ಭಾಷೆಗಳಲ್ಲಿ ಈ ಕೆಳಗೆ ಪದ್ಯಗಳನ್ನು ಬರೆದಿದ್ದೇನೆ.  ಇವೆಲ್ಲಕ್ಕೂ ಸಂಸ್ಕೃತದಲ್ಲಿ ಹೆಚ್ಚಾಗಿ ಬಳಕೆಯಲ್ಲಿರುವ ಸ್ರಗ್ಧರಾ ಎಂಬ ವೃತ್ತವೇ ಆಧಾರ. ("ಮ್ರಭ್ನೈರ್ಯಾನಾಂ ತ್ರಯೇಣ ತ್ರಿಮುನಿಯತಿಯುತಾ ಸ್ರಗ್ಧರಾ ಕೀರ್ತಿತೇಯಂ" ಎಂದು ವೃತ್ತಲಕ್ಷಣವನ್ನು ಹೇಳುತ್ತಾರೆ.  ಎಂದರೆ, ಮ ರ ಭ ನ ಯ ಯ ಯ ಗಣಗಳಿದ್ದು ಏಳು ಅಕ್ಷರಗಳ ಮೂರು ಗುಂಪುಗಳು ಪ್ರತಿಯೊಂದು ಪಾದದಲ್ಲೂ ಇದ್ದರೆ ಅದಕ್ಕೆ ಸ್ರಗ್ಧರಾ ಎಂದು ಹೆಸರು). ಈ ಕವನದ ಓದುಗರಿಗೂ ಇವುಗಳಲ್ಲಿ ಕೆಲವು ಭಾಷೆಗಳಾದರೂ ಗೊತ್ತಿದ್ದು ಇಲ್ಲಿಲ್ಲದ ಕೆಲವು ಭಾಷೆಗಳ ಪರಿಚಯವೂ ಇರಬಹುದೆಂದುಕೊಂಡಿದ್ದೇನೆ. ಅಂತಹವರು ಆ ಭಾಷೆಗಳಲ್ಲಿ ಇದೇ ಶೈಲಿಯಲ್ಲಿ ಬರೆದರೆ ತಮಾಷಿಯಾಗಿ ಈ ಕವನದೊಡನೆ ಸೇರಿಸಿಕೊಳ್ಳಬಹುದು.
 
ಹಿಂದಿಯ ಪದಗಳಲ್ಲಿ ಕೊನೆಯಲ್ಲಿ ಬರುವ ಅನುಸ್ವಾರವನ್ನು ಮೂಗಿನಲ್ಲಿ ಉಚ್ಚರಿಸಬೇಕು (ಅಂದರೆ ಮೇಂ ಎಂಬುದನ್ನು ಮೇಮ್ ಎಂದು ಉಚ್ಚರಿಸಬಾರದು). ಅಲ್ಲದೆ, ">" ಎಂಬ ಅಂಕಿತವು ಸ್ವಲ್ಪ ಎಳೆದ (extended) ಅರ್ಧಾಕ್ಷರವನ್ನು ನಮೂದಿಸುತ್ತದೆ.  ಮತ್ತು "-" ಎಂಬ ಚಿಹ್ನೆಯು ಪುಟ್ಟ ನಿಲುಗಡೆಯನ್ನು (pauseಅನ್ನು) ಸೂಚಿಸುತ್ತದೆ.
 
ತೆಲುಗು ಪದ್ಯವನ್ನು ಶುದ್ಧೀಕರಿಸಲು ಸಹಾಯಮಾಡಿದ ನನ್ನ ಮಿತ್ರ ಡಾ|| ಮನೋಹರ್ ಮಾರೆಬೋಯನರಿಗೂ ಮತ್ತು ಹಿಂದಿಯ ಪದ್ಯವನ್ನು ಓದಿ ಸಲಹೆ ಕೊಟ್ಟ ಶ್ರೀಮತಿ ಅನುರಾಧಾ ಶ್ರೀರಂಗರಾಜನ್ ಅವರಿಗೂ ನನ್ನ ಕೃತಜ್ಞತೆಗಳನ್ನು ವ್ಯಕ್ತಪಡಿಸುತ್ತೇನೆ.
 
ಮುದ್ಮುದ್ವಾಚೊನ್ನ ಭಾಷೆ- ತೊದಲಿ ತೊದಲಿನಾಲಮ್ಮ ತಿದ್ದಿಂದ ಭಾಷೆ
ವ್ಯಾಕರ್ಣೋನ್ನಾಕ ಎನ್ನಾನ್ ತೆರಿಯರ ಮೊದಲೇ ಅಪ್ಡಿಯೇ ವಂದ ಭಾಷೆ |
ಹೆಬ್ಬಾರೈಂಗಾರ್ ಜನಂಗೆ ಪ್ರತಿಯೊರ್> ದಿನಮೂ ಹಾತ್ಲೆ ವಾಚೊಲ್ರ ಭಾಷೆ
ಪಶ್ಲಾಯ್ ಕಲ್ತಿಂದ ಭಾಷೆ- ಮರಕೃದ್> ಸರಿಯಾ? ಚೊಲ್ಲ್>ಡಾ! ಮಾತೃಭಾಷೆ ||(ಹೆಬ್ಬಾರ್)||
 
ಮುದ್ಮಾತಾಡಿದ್ದ ಭಾಷೆ- ತೊದಲಿ ನುಡಿದುದಂ ತಾಯಿ ತಿದ್ದಿದ್ದ ಭಾಷೆ
ಪಂಪನ್ ರನ್ನನ್ ಮೊದಲ್ಗೊಂಡಿಹ ಕವಿವರರಿಂ ವೃದ್ಧಿಪೊಂದಿದ್ದ ಭಾಷೆ |
ನಮ್ಮೂರೊಳ್ ಸುತ್ತಮುತ್ತಲ್ ಜನನುಡಿಯುತಿರಲ್ ಕೇಳಲಿಂಪಾದ ಭಾಷೆ
ನಮ್ಮೀ ಚೆಂದೊಳ್ಳೆ ಭಾಷೆ- ಮರೆಯದಿರದ ನೀ ನಮ್ಮ ತಾಯ್ನಾಡ ಭಾಷೆ ||(ಕನ್ನಡ)||
 
தாத்தா கையைப்பிடித்தாய் கடவுள கதையைக்கேள்க னீ சென்று வம்தாய்
ஆசார்யர் சொன்ன பேச்சை அழகிய மொழியில் கேட்டு னீ கற்றுகொண்டாய் |
ஆழ்வார்கள் பாசுரங்கள் எழுதிய சிலவை வாயினால் பாடிருன்தாய்
பேரன்யாயம் இதன்றோ தமிழிஶை அமுதம் கற்றதை னீ மரன்தால் ||(தமிழ்)||
 
बाल्यॆ तॆ शिक्षिता या जनयितृगुरुभिः सुष्ठु शुद्धीकृता या
वाल्मीकिव्यासमुख्यप्रथितकृतिवरैः दीपिता शॊभिता या ।
बाणाद्यैः कालिदासप्रमुखकविवरैः लॊकसंस्थापिता या
गीर्वाणीं तां तु भाषां स्मरसि यदि न चॆत् जीवनं व्यर्थमॆव ॥(संस्कृत)॥
 
విన్నావీ భాష నిత్యం ప్రియసుహృదులతో బాలకావస్థలోనే
శ్రీమాన్వేమన్నగారు ప్రముఖకవితలీ భాషలో రాశినారు |
భక్తత్యాగయ్యగారు- వివిధకృతులనీ భాషలో పాడినారు
చాలా సుశ్రావ్య భాష- తెలిసి మరచితే న్యాయమేమయ్య చెప్పు ||(తెలుగు)||
 
You learned this as a young child - with a little bitta help - startin' with A B C D's;
Chaucer, Shakespeare 'n' Milton - many many such others - led the growth of the language;
Almost all over this world, you can really get along, if you know how to use this;
If you do forget this one, you will be pitiable, for it's then hard to manage! (English)
 
शाला मॆं तॊ गुरू नॆ पठन> लिखन> भी बाल्य मॆं ही सिखायॆं
तुलसीदास्‍जी तॊ जिस मॆं ललित>पद>भरी राम कहानी लिखॆ हैं  ।
मीराबायी तॊ जिस मॆं प्रिय>गिरिधर> कॊ प्रॆम्‍भजन सॆ पुकारी
इस भाषा कॊ तॊ भूल्‍ना उचित> नहि तुझॆ बॊल सकॆ या नही भी ॥(हिंदि)॥

विश्वासो वासुकेयः (Vishvas Vasuki)

unread,
May 15, 2013, 2:09:17 AM5/15/13
to padyad...@googlegroups.com
ಹೆಬ್ಬಾರಭಾಷೆಲೆ ಸ್ರಗ್ಧರಛನ್ದಸ್ಯೆ ವಾಶ್ಚಿ ರೊಂಬಾ ಆನನ್ದು ಆಚಿಪ ಎಂಕ.
ನೀನ್ಗೆ ಎನ್ನ ಚೊಲ್ರಿಂಗ್ಳೋ ತೆರಿಯಾದ, ಆನಾಕ ಎನ್ಗಳ್ಡೆ ಭಾಷೆಲೆ ಆದಿಕಾವ್ಯು ಇಲ್ಲೆ ಅನ್ನಿ ರೊಂಬಾ ಸಂಕಟು ಆರ್ನ. 
ಬಾಲರಾಮಾಯಣತ್ತಾರ ಎದಾನು ಸುಲಭಮಾನ್ ಉಚಿತಮಾಯಿಕ್ರ ಛನ್ದಸ್ಲೆ ಆದಿಕಾವ್ಯತ್ಯೆ ಆಳ್_ದ್ನು. ನೀನ್ಗೆ ಅಳ್ನಾಕ ಎಲ್ಲರ್ಕು ರೊಂಬ ಸನ್ತೋಷು ಆರ್ನ - ಉನ್ಗಳ್ಡೆ ಸಹೋದರನೂ‌ ನಾನೂ ಅನ್ಗೆ ಇನ್ಗೆ ಸಹಾಯ್ಯು ಪಣ್ಲಾ.
ವಿ. ಸೂ. - ಹಂಪಾಪುರು ಎನ್ಗಿಕ್ಕರ್ನಾ?


2013/5/14 H. K. Ramapriyan <ramap...@verizon.net>
Reply all
Reply to author
Forward
0 new messages