सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव ।
अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ १६२ ॥
एवं वेङ्कटनाथार्यो ऽप्य् आत्मोत्कर्षानुसन्धानं धिक्करोति।
तथापि तेन, तादृशैश् च तथा कृतं दृश्यते (सङ्कल्पसूर्योदये यथा)।
केषु सन्दर्भेष्व् एवं साधारणनियमस्योल्लङ्घनं धर्मशास्त्रेणानुमतम्?
नल्लासिरियर्-कृत-नन्नूल्-नाम्नि तु द्रमिड-व्याकयरणे काव्यलक्षणप्रकरणे क्वचित् स्पष्टीकृतम् -
> प्रबन्धेषु सभायां परावहेलनादौ च स्वयोग्यता-प्रतिष्ठापनार्थं प्रौढोक्तिः (खल-निन्दापि) अनुमता।
किञ्च तादृशं धर्मशास्त्रगतं वचनं काङ्क्षे।