प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूय इत्यत्र श्रीभाष्येप्रमाणान्तरेणाप्राप्तं स्वयमेव प्रदर्श्य स्वयमेव नेति नेति निषिध्यते इति अनुन्मत्तः को ब्रवीतीति रीत्या वर्तते।
अतः प्रकृतैतावत्वं हि प्रतिषेधति एतावन्मात्रं न इतोपि अस्तीति तात्पर्यमिति।तद्रीत्या प्रकृते द्विजेतरपक्षे प्रणवं निषिध्य तदेव विधीयते इति वचनं न सङ्गच्छत इति भवताम् तात्पर्यम्?पूर्वत्र विधेरनन्तरं निषेधः , प्रकृते निषेधानन्तरं विधिरिति ?
तस्य ह वा एतस्य पुरुषस्य
रूपं यथा माहा-रजनं(=कुङ्कुम-वर्णं) वासः (बृ.४.३.६)
इत्यादिना आकार-विशेषं चाभिधाय
नेति, नेति -
न ह्य् एतस्माद् इति नेत्य्
अन्यत् परम् अस्ति
(बृ.४.३.६)
इति सर्वं प्रकृतं
ब्रह्मणः प्रकारम् इति-शब्देन परामृश्य
तत्सर्वं प्रतिषिध्य
सर्व-विशेषाधिष्ठानं
सन्-मात्रम् एव ब्रह्म;
[IMG]http://i49.tinypic.com/14ttsu0.jpg[/IMG]
न दैवं देशिकात्परम् न परं देशिकार्चनात्।
श्रीदेशिकप्रियः
--
आपको यह मैसेज इसलिए मिला है क्योंकि आपने Google Groups के "kalpa-prayoga" ग्रुप की सदस्यता ली है.
इस समूह की सदस्यता खत्म करने और इससे ईमेल पाना बंद करने के लिए, kalpa-prayog...@googlegroups.com को ईमेल भेजें.
वेब पर यह चर्चा देखने के लिए, https://groups.google.com/d/msgid/kalpa-prayoga/CAFY6qgF2GdULrfiWZvdDsoC_zVMbfRuwAL_f25doqqF-RLHKKg%40mail.gmail.com पर जाएं.