वैष्णवैर् भागवतैर् अभागवत-नमस्कारः

22 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 29, 2025, 5:32:40 AMMay 29
to kalpa-prayoga
श्रीवैष्णवानां शिष्टानाम् आचारे  
सामान्य-शास्त्र-गुरूणाम् अवैष्णवानां नमस्कार-वर्जनं श्रूयते -  
यथा "शास्त्रेण भवन्नमस्कारो निषिद्धः, अथापि भवान् पाठयतु माम् इदं शास्त्रम्" इति प्रार्थनया।  

शिखोपवीत-हीन-यति-पक्षे तु प्रतिषेधः प्रसिद्धः (तद्-दर्शने स्नानम् अपि विहितम्)। किञ्चान्येषु कथं निषेधो निश्चितः? क्व केन च?

‘‘आप्तो विष्णोरनाप्तश्च द्विधा परिकरस्स्मृतः ।  
नित्यो वन्द्यो न चानित्यः कर्मवश्यो मुमुक्षुभिः’’  
(पौष्कर-संहिता) 

इति तु काम्यनमस्कारादौ भवितुम् अर्हति। 

किञ्च प्रपन्न-पारिजाते पाञ्चरात्रस्यापि शास्त्रस्यानुपादेयत्वम् उच्यते क्वचित् -

वर्णाश्रम-विरुद्धं यन्  
मन्वाद्य्-उक्तं विशेषतः ।  
स्वाधिकार-विरुद्धं च  
शास्त्रोक्तं *न समाचरेत्* ॥ २ ॥


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 9, 2025, 11:38:56 AMJul 9
to kalpa-prayoga
> अवैष्णव-नमस्काराद्  
अवमानाच् च केशवे।  
वैष्णवे परिवादाच् च  
पतत्य् एव न संशयः॥

इति नारदीयम्।

किम् इदं नारदीयं नाम?

कैश्चिद् बहवो वैष्णव-शूद्रा वैष्णव-विप्रान् नमस्कुर्वाणास्  
तद्-इतरान् अनमस्यन्तो  
द्रविडेषु दृष्टाः। 

तर्हि स्मृति-बलवान् (न केवलम् आगमबलवान्) विधिः कश्चन स्याद् इत्य् अनुमामि। किन्तु नैतावल् लब्धः। 



विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 18, 2025, 9:36:22 PMJul 18
to kalpa-prayoga
*विसृज्य स्मयमानान्* स्वान्  
दृशं व्रीडां च दैहिकीम्।  
*प्रणमेद्* दण्डवद् भूमाव्  
आश्व-चाण्डाल-गो-खरम्॥

इति भागवते ११.२९.१६।

तत्र वीरराघवव्याख्यायाम् अन्ते  -
ईश्वर इति +++(←मूले कः पाठ-भेदः??)+++। कलावयवः शरीरम् इति यावत् ।  
शरीरेण जीव-रूपतया-अन्तरात्मतया भगवान् आविष्टः  
ततः सर्वम् ईश्वर-शरीरम् एवेति भावयन् प्रणमेद् इत्य्-अर्थः ॥ १६ ॥

तस्य कः पाठो मूलस्येति जिज्ञासे।

एवं च शास्त्रान्तरोक्तानां प्रणाम-निषेधानां का गतिः?

On Wed, 9 Jul 2025 at 21:08, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
> अवैष्णव-नमस्काराद्  
अवमानाच् च केशवे।  
वैष्णवे परिवादाच् च  
पतत्य् एव न संशयः॥

इति नारदीयम्।


अत्र नारदपुराणम् उक्तम्, तत्र च सद्यस् तादृशाश् श्लोका न लभ्यन्तय् इति श्रुतम्। 

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jul 19, 2025, 1:48:30 AMJul 19
to kalpa-prayoga
On Sat, 19 Jul 2025 at 07:05, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:
 
एवं च शास्त्रान्तरोक्तानां प्रणाम-निषेधानां का गतिः?


अथवा मा भूद् वर्णाश्रमधर्मव्यभिचार इति  
सर्वान् सम्भूयोद्दिश्य तत्-परोक्षे (किञ्च कामं हसद्-स्वक-प्रत्यक्षे) दण्डवत् प्रणामो विहितः?



Reply all
Reply to author
Forward
0 new messages