सारस्वत-क्रम-कथा

5 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 17, 2025, 1:29:37 AMMar 17
to Hindu-vidyA हिन्दुविद्या, kalpa-prayoga, Ramanuja-char रामानुजः पराङ्कुशाचार्य-सूनुः P, karuNAchAryaH naDAtUr-vaMshyaH करुणाकराचार्यः
एषा कथा किंमूलेति जिज्ञासे - 

पुरा तैत्तिरीय-शाखेयम् आर्षेय क्रमेणापाठ्यत।  
महति क्षामे सत्य् अयं क्रमो विस्मृतः सर्वैः।  
पुनः सुवृष्टौ सारस्वताख्यात् तेन स्मृतेन क्रमान्तरेण शाखा ऽध्यापिता लोकाः।  
तत्-कृत-ज्ञतया ऽद्यापि सारस्वत-क्रमेणाध्ययनं कुर्वते।   


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 18, 2025, 4:36:44 AMMar 18
to V S Karunakaran, Hindu-vidyA हिन्दुविद्या, kalpa-prayoga
धन्योऽस्मि भगवन्। दिष्ट्या मत्प्रेरितैः कैश्चित् संस्काररत्नमाला पूर्वमेवोट्टङ्कितेति सुखेन लब्धा ऽऽख्यायिका - 

 कोऽयं सारस्वतो नाम?
कश्च सारस्वतः पाठ?

इत्य्-आकाङ्क्षायाम् इतिहासः प्रदर्श्यते ।
ब्रह्मसभायां दुर्वासाः साम गायन्न् आस ।
तं खलु तेजसा क्रूरं दृष्ट्वा
सभा-मध्ये सरस्वत्य् अस्मयत ।
ततः क्रुद्धो मुनिः
सरस्वतीं शशाप - मर्त्य-योनौ प्रजायस्वेति ।
ततस् तं देवी प्रसादयाम् आस

> भगवन्, विप्र-गृहे प्रजायेयम् इति ।

ततः स मुनिस् “तथे"त्य् उक्त्वा जगाम ।
ततो देव्य् आत्रेय-गृहे ऽजायत ।
ततो वेद-विदं भर्तारं प्राप्य
विद्या-निधिं पुत्रं सरस्वती प्रासूत ।
ततो विद्या-निधिं कृतोपनयनं पुत्रं
पिता सारस्वतं वेदम् अध्यापयाम् आस - यथा-वृद्ध-क्रमेण ।
ततस् तं बालत्वाद् अल्प-मेधसं
पिता ताडयाम् आस - पृष्ठे वेणु-दलेन ।
ततः सोऽरोदीत् ।
साऽपि तं दृष्ट्वा
पुत्रम् आलिङ्ग्यातिदुःखिता बभूव ।

अश्रुपूर्णं तं वागीशा
निवार्य च पुनः पुनः ।
ततः सा चिन्तयाम् आस
यस्याः कस्याः सुतो नहि ॥
प्राप्य मां ताड्यते बालो
मम प्राण-प्रियः सुतः ।

ततश् चतुः-षष्टि-कलाः सर्वान् वेदान् साङ्गान् ब्रह्म-विद्या-पर्यन्तान्
सारस्वताय सरस्वत्य् उपादिशत् ।
क्षुत्-पिपासे निवर्त्य वायु-धारणां चोपादिशत् ।

ततः सम्पूर्ण-विद्योऽसौ
कुरुक्षेत्रे ऽवसन् मुनिः ।
तपस् तेपे महाभागो
देवैर् अपि सुदुष्करम् ॥
ततः कालेन महता
ह्य् अनावृष्टिर् अभूत् किल ।

कुरुक्षेत्रे सारस्वतं हृष्टं पुष्टम्
अन्तर्-वायुं धार्यमाणं तमृषिं ददृशुः ।

तमूचुर् मुनयः सर्वे
शाकं देहीति नः प्रभो ।
अलं शाकेन भो विप्रा
यदि शाको भवेद् भुवि ॥
सारस्वतो मुनिः प्राह
तेभ्यो देहीति चण्डिकाम् ।
सुत शाकं प्रदास्यामि
यदि शाकेन ते ह्यलम् ॥
शाकम्भरीति मुनिना
प्रसन्ना ऽकारि वै तदा ।
शाकाहारास् ततः सर्वे
मुनयः कृत-जीविताः ।
दुर्भिक्षे विनिवृत्ते
ऽप्य् अध्ययनं नास्मरंस् तदा ॥
अन्योन्यम् अभिजग्मुस् त
उच्चरंश् च  कञ्चन ।
ततो विस्मृत-वेदास्
तु बभूवुर् मुनयो भृशम् ॥

ततोऽतिदुःखितेषु मुनिषु
नारदेनोक्तं सारस्वतं कृत-सर्व-वेदाध्ययनं गत्वा
ऽध्ययनं कुरुध्वम् इति ।
ततस् ते सारस्वतं प्रार्थयाम् आसुः ।
“अध्यापनं कुरुष्व भगवन्न्” इति ।
ततः सारस्वतः प्रार्थितश्
चतुः-षष्टि-मुनि-गण-सहस्रेभ्यश्
चतुःषष्टि-सहस्रवेदान् अध्यापयाम् आस ।
ततस् तान् वेदांस्
तच्-छाखिनः साकल्येनाधीतवन्तः ।
तैत्तिरीय-शाखिनस् तु साकल्येनाध्ययनं कृत्वा
सर्व-वेद-विलक्षणां तैत्तिरीय-शाखां दृष्ट्वा ऽन्योऽन्यम् ऊचुः -
अहो, अतीव विस्मयोऽस्माकं सर्व-विलक्षणां शाखाम् अध्यापयति स्मास्मान् मूढान् कृत्वा निर्मिताम् ।
ततः सर्वे तैत्तिरीयशाखिनः सम्भूय सारस्वतम् ऊचुः–
“नायं वेदस् त्वयाऽध्यापितः
सर्ववेद-विलक्षणत्वाद्” इति ।

ततः सारस्वतः सर्वाञ् छ्रेष्ठान् मुनीन् प्राह वचः–

यद्य् अयं न भवेद् वेदः
प्रतिज्ञां तु करोम्य् अहम् ।
अग्नि-प्रवेशनं कुर्यां,
भवन्तो वाचम् ईरिताम् ॥
तम् ऊचुर् मुनयः सर्वे
वचनं यत् त्वयोदितम् ।
यदि वेद-क्रमं विप्र
प्रतिज्ञां कुर्महे वयम् ॥

ततः सारस्वतेन सहिताः सर्वे मुनयस्
तत्र तत्र मुनीन् गत्वा निर्णेतुं न शक्नुमः,
इति तैर् उक्ता ब्रह्माणं जग्मुर्,
यथा-यथं प्रतिज्ञा निवेदिताः ।
ब्रह्माऽपि मुनिं सारस्वतम् आह ।

सत्यं प्रतिज्ञातं तत्रभवता सारस्वतेन ।
सारस्वतो वेद-पाठः सारस्वतोक्त-क्रमेणैवाध्येतव्यो
ऽन्यथा ऽध्ययन-फलं नास्ति

इति।
तत इतरान् मुनीन् प्राह -

“सत्यं न पाठ-क्रमेणार्थानुष्ठान-क्रमो भवती"ति ।
तस्मात् सर्वैर् जितं - नाग्नि-प्रवेशनं कर्तव्यम्।

इतीतिहासः ।

अग्रे त्व् एवम् उच्यते - 

काण्डानुक्रमण-रीत्या सारस्वत-पाठेन वा वेदाध्ययनम् अवश्यं कर्तव्यम् ।


तत् केन बलेन ब्रह्मणो वचनं ("अन्यथा ऽध्ययन-फलं नास्ति") उपेक्ष्यते?


On Tue, 18 Mar 2025 at 08:09, V S Karunakaran <v.s.karun...@gmail.com> wrote:
आयुष्मन् वासुकिज विश्वास
सारस्वतपाठैतिह्म्यं संस्कार रत्नमाला इति ग्रन्थे उक्तं इति पारडी स्वाध्यायमण्डलेन प्रकाशित कृष्णयजुर्वेदीय तैत्तिरीय संहिता ग्रन्थस्य भूमिकायां सातवलेकर् महाशयेन लिखितमस्ति।

Regards,
V. S. Karunakaran,
"Srinidhi Karuna", #6, Bharathiyar Street,
Sivakami Nagar, Gowrivakkam
Chennai- 600073,
Tel: 044-22781454
Telefax: 044-22780854
email: villur_ka...@yahoo.com;v.s.karun...@gmail.com
website: www.nadadoor.org

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 18, 2025, 7:21:26 AMMar 18
to V S Karunakaran, Hindu-vidyA हिन्दुविद्या, kalpa-prayoga
हृदयं-गमः परिहारो भगवतो भवतः।  
भाषा-शैल्य् अपि स्व-कुलोचिता 🙏
सन्देह-निवृत्तिर् अनेन जायते, सफलश् च प्रश्नः।  
इत्थम् अग्रेऽपि मत्-प्रश्ना भवतैव परिहारैर् "अलं"-कार्याः -  
अन्यथा मध्य-मतेर् मम जातास् संशया ऽनुवर्तेरन्। 

On Tue, 18 Mar 2025 at 16:33, V S Karunakaran <v.s.karun...@gmail.com> wrote:
आयुष्मन्
अलं प्रश्नैरीदृशैः। अन्यथा इत्यस्य सामि  काण्डानुक्रमणरीत्या सामि सारस्वतरीत्या अध्ययनं न कार्यं इति अर्थः ऊह्यः।अथवा  स्वेचछया रीत्यन्तरेण वा अध्ययनं न कार्यम् ब्रह्मयज्ञे (पूर्ण-अध्ययनान्तरं ) एकस्मिन्  दिने सारस्वतपाठे एव संहितायां प्रथमः प्रश्नः समनन्तरदिने आरण्यस्य प्रथमः प्रश्नः इति रीतिश्च न  कार्या  इति वा अर्थ ऊह्यः। कलियुगे वेदानां अध्येतारो विरलाः। तत्र महतां अङ्गानां नियमानां परिपालनं दुश्शकं इति येन केनापि प्रकारेण वा अङ्गिनः सस्वरं अध्ययनस्य वा केचन कर्तारस्सन्तीति परितुष्टैः तान् प्रोत्साहयितुं अन्यथा अध्ययन -फलं नास्तिति इदमपि शक्तविषयकं मन्यमानैः महद्भिः अन्यथापि कृतं अध्ययनं अध्येतारं कालेन सुपथं आनयेदिति उदारधिया अध्यापनं कार्यते। शिखाजिनदण्डमेखलारहिता अपि रूढ्या वटवः अध्याप्यन्ते । तेन तद्विधायकशास्त्राणि  उपेक्षितानि इति वदेः किम्।।

Regards,
V. S. Karunakaran,
"Srinidhi Karuna", #6, Bharathiyar Street,
Sivakami Nagar, Gowrivakkam
Chennai- 600073,
Tel: 044-22781454
Telefax: 044-22780854
email: villur_ka...@yahoo.com;v.s.karun...@gmail.com
website: www.nadadoor.org

Reply all
Reply to author
Forward
0 new messages