atra hakārasya sthāne ṣakāraprayogaḥ śuklayājuṣānām iva bhaved iti manye| vayaṃ śukla-mādhyandinīyāḥ ṣakārasya khakāravaduccāraṇaṃ kurmaḥ| kha-kārasya ākāśavācakatvaṃ tu sārvatrikam|ST
--
You received this message because you are subscribed to the Google Groups "tantrollAsaH" group.
To unsubscribe from this group and stop receiving emails from it, send an email to tantrollasah...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/tantrollasah/CAFY6qgG6yCZzvujJHpEqDyOVKQnKMTYa0TuW1f%2Bx_bdRLzb9mQ%40mail.gmail.com.
(जाले पठितुम् - http://rb.gy/hj5xi । )
काचन कल्पना लेखिताधः - सा नूनम् पूर्विकैः काश्चिद् उक्ता स्यात्। कुत्रेति सूचयन्तु -
आ॒का॒शाद् वा॒युः । वा॒योर् अ॒ग्निः । अ॒ग्नेर् आपः॑ । अ॒द्भ्यः पृ॑थि॒वी ।
पृ॒थि॒व्या ओष॑धयः । ओष॑धी॒भ्यो ऽन्न᳚म् । अन्ना॒त् पुरु॑षः ।इति यद् आम्नातम् 8 अवलम्ब्य भूत-शुद्धि-कर्म-द्रुमो वृद्धः,
तस्यैवाधुनिकविज्ञानावलम्बनेन25 कल्पनान्तरम् इदं रोचेत केभ्यश्चन -आकाशे महास्फोटात्(=big bang इत्यस्मात्) परं प्रकीर्णाः परमाणवो वायु-रूपाः,
ततो गुरुत्वाकर्षणाणुसंयोगादि-क्रियाभिस् ताराणाम् अग्नि-रूपाणाम् उत्पत्तिः,
ततस् तत्परितस् तथैवाल्पतरतापेन द्रवाणां(=molten) ग्रहाणां जल-निभ-रूपाणम् उत्पत्तिः,
तत औष्ण्य-ह्रासेन स्थिरतराणां शिलानां पृथिव्य्-आत्मकानां सम्भवः,
ततः परम्परया +ओषधयो, अन्नम्, पुरुषश् च
+इति सृष्टि-क्रमः।पुनः -
ताराणां वार्धक्ये (रक्तदैत्यावस्थया(=red giant) यथा) पृथिव्य्-आत्मकानां द्रवीभावः,
द्रवी-भूतानां जल-निभानां ग्रहाणां पुनस् ताप-वृद्ध्या ऽऽग्नी-भावः,
ज्वलतां पृथिव्यादीणां ग्रहाणां वाय्व्-अवस्थया लयः,
ततस् तस्यापि विकिरणाद् आकाश-रूपोऽवशेष
इति संहार-क्रमः।