पर्वण्य् अनध्ययनम्

2 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
May 10, 2025, 12:02:12 AMMay 10
to kalpa-prayoga, C R pradeepasimha-Acharya प्रदीपसिंहाचार्यः digital-sanskrit-temp

यद्य् अपि श्रम-दिन-युक्त्या

> स्थालीपाक-दिनम् 
उपवासादिनियतं तत्-पूर्वेद्युश्  च प्रथमान्त-पर्व-दिनय् इत्य् अनध्याय-संज्ञकय्

इत्य् अभिप्रायः शक्यः,  
लोके श्रौतसूत्रोक्तपर्व-निर्वचनम् उपेक्ष्य सूर्योदयतिथिम् एवानध्याय तिथिम् मन्यन्त इति दृश्यते। अस्या लोकरूढेः शास्त्रे काचन कण्ठोक्तिर् अस्ति मूले? तथा चेत् क्वचिद् अर्वाचीनस्मृताव् एवोत सूत्रेष्व् अपि?

--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 11, 2025, 5:08:22 AMAug 11
to kalpa-prayoga, C R pradeepasimha-Acharya प्रदीपसिंहाचार्यः digital-sanskrit-temp
अपरं चेदम् - 

मनुः—

> इमान् नित्यम् +++(उत्सर्गापेक्षयापि)+++ अनध्यायान्
अधीयानो विवर्जयेत् ।
अध्यापनं च कुर्वाणः
शिष्याणां विधिपूर्वकम् ॥ ४.१०१ ॥
>
> अमावास्या गुरुं हन्ति
शिष्यं हन्ति चतुर्दशी।
ब्रह्माष्टकापौर्णमास्यस्
तस्मात् ताः परिवर्जयेद्॥

इति। किञ्च, स्वयम् अन्ते स्पष्टीकरोति -

> द्वाव् एव वर्जयेन् नित्यम्
अनध्यायौ प्रयत्नतः ।
स्वाध्याय-भूमिं चाऽशुद्धम्
आत्मानं चाऽशुचिं द्विजः ॥ ४.१२७ ॥

तत्र मेधातिथिः -

> **नित्य**ग्रहणात् पूर्वत्रानध्यायानां विकल्पः ।

गङ्गानाथानुवादः -
The mention of ‘*always*’ here shows that the aforesaid occasions are to be regarded as ‘unfit for study,’ only optionally

Reply all
Reply to author
Forward
0 new messages