डॆङ्कनिकॊट्टैश्रीनिवासस् तु -
दर्व्याम् उपस्तीर्य द्विर् अवदाय,
दर्वीम् अन्-उत्सृजन् उपवीती, स्विष्टकृदर्थं हविः-प्रत्यभिघार्य,
प्राचीनावीती,
इति वदति, येन सकृदभिघारणम् प्रत्यभिघारात् परम् इव भाति। तत्र युक्तिः - अवदानात् परम् एव दैवीम् आहुतिं भविष्यतीम् मनसि कृत्वा तत्-क्षणम् प्रत्यभिघार इष्टस् स्यात्।
किञ्च माडभूष-वीरराघवो वक्ति -
पुनः अवदाय, अभिघार्य,
**उपवीती**,
पात्रस्थं हविः अभिघार्य,
**प्राचीनावीती**,
"ये चेह पितरो, ये च नेह" इति हुत्वा,
एवं शठकोपतातार्यवर्यस्याप्य् आचारः। अतः क्रमे व्यत्यासो दृश्यते, किञ्चाभिघारसङ्ख्यायाम् पूर्वोक्तग्रन्थय् आधिक्यं निश्चितम्।