न ब्रूयुस् तज्ज्ञा आगामिषु दिनेषु "दक्षिणायनम्" इति सङ्कल्पेषु।
विष्णुपुराणे २.८.७५ इत्यत्र विष्णुचित्तीये प्रत्यक्षोत्तरायणारम्भस्योल्लेखः -
यत् तु ज्योतिस्-सिद्धान्त-सिद्धम् उज्जयिन्याम् उदक्-काष्ठा
लङ्कायां विषुवद्-वीथिस्
तद्-दक्षिणे तावद्-दक्षिण-काष्ठेति वीथि-त्रयम्,
तत् तु मेष-तुला-विषुवद्-अयन-- कर्कटायन-द्वय-संवादि-प्राक्-काल-विषयम् ।
यथा षट्-त्रिंशच्-छते कलि-गताब्दे तथाऽऽसीत् ।
संप्रति तु चतुश्चत्वारिंशच्-छते ऽब्दे
नक्र-कर्कि-तुला-मेष-प्रदेशात् प्राग् एव द्वादशे दिने अयन-विषुवे प्रत्यक्षे दृश्येते ।
अतः तद्-गणितानुरोधाद्
इतः पूर्वम् अपि अयनादि-परिवृत्तिः कदाचिद् भवेद् इत्य् अनुमीयते,
येन त्रि-शृङ्ग-वीथी-संवादः स्यात् ।
तस्मात् मार्गशीर्षे यदा ऽयन-वर्षारम्भस्
तत्-काल-वर्ष-विषय-त्रि-शृङ्ग-वीथी-त्रय-सञ्चरो ऽर्कस्येति कल्प्यम् ।
मार्गशीर्षस्य हि वर्षादित्वं केचिद् ब्रूयुः।