​एकः क्षपणक शाकाहर्ता

26 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 20, 2025, 12:44:34 AMOct 20
to Hindu-vidyA हिन्दुविद्या, C R pradeepasimha-Acharya प्रदीपसिंहाचार्यः digital-sanskrit-temp
त्रिविक्रम-पण्डिते कथयन्ति -

महात्मनोऽस्य आजन्मन एवान्यादृशी प्रतिभा आसीदिति विद्यावृद्धाः प्राहुः ।  
अत्रैकां कथां कथयन्ति सम्प्रदायविदः -  
एकदा कश्चन क्षपणकः तद्-गृहद्वारम् आगतः भिक्षां ययाचे ।  
भिक्षा च प्रदायि ।  
स तावता ऽसन्तुष्टः  
पुनः शाकमयाचत् ।  
तदा शाकं नासीति वक्तव्यमासीत् ।  
परम् अनेन बालेनाभाणि श्रीहर्षवत्,  

एकः क्षपणक शाकाहर्ता  
बहवः क्षपणक शाकादानाः ।  
यत्र क्षपणक बहुशाकादास्  
तत्र क्षपणक का शाकाशा ?

इति ।  
अत एवेमं वृत्तं मनसि निधाय नारायणपण्डिताचार्यैर् अभिहितम्-  
कलभाषण एव सूरिपोतः  
कविर् आसीद् अनवद्य-पद्यवादी

इति ।



किञ्च पद्यस्यास्यान्यत्रोल्लेखा प्रदीपसिंहार्येणालोकिताः, यथा कल्पद्रुम-वाचस्पत्ययोर् उद्भटकर्तृकतया-


एकः क्षपणक शाकाहर्ता  
तत्र क्षपणक दश शाकाशा ।  
यत्र क्षपणक दश-शाकाशास्  
तत्र क्षपणक का शाकाशा?

अयम् उद्भटस् त्रिविक्रमपण्डितात् प्राचीनः।  

एवं तर्हि त्रिविक्रमपण्डितविषयकम् ऐतिह्यम् इदं रुचिकरम् अपि वितथं गणनीयम्?


--
--
Vishvas /विश्वासः

Reply all
Reply to author
Forward
0 new messages