--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgGbqONyJ1ecuL1G2uvMgjWa0Tiu-YkU_bLFtMPQ2OBoTg%40mail.gmail.com.
Sant Rajinder Singh Ji Maharaj Chair Professor, IIT-Madras.
Former Director, Karnataka Samskrit
University, Bangalore.
Former Head, Dept. of Sanskrit, The
National Colleges, Bangalore.
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgF3xgCwLDVFmX_JGOy45HZZEuUsdJKgNEgnjEd6pvjw5A%40mail.gmail.com.
गुरुभिः श्रीभारतीतीर्थस्वामिभिः कृतायाः श्री-आदिशङ्करस्तुत्याः एकः श्लोकः –
सनातनस्य वर्त्मनस्सदैव पालनाय य-
श्चतुर्दिशासु सन्मठाञ्चकार लोकविश्रुतान् ।
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान्
तमेव लोकशङ्करं नमामि शङ्करं गुरुम् ॥
सिद्धान्त-स्तोम(=गुल्म)-तूल(=वर्त्तिका)-स्तबक-विगमन-व्यक्त–सद्-वर्तनीका(=मार्गा) ॥ ३ ॥
एतद् अपि तस्यैवेति मन्ये -श्रीमुनित्रयसिद्धान्त-पद्मिन्य्-उल्लास-भास्करः।
गोपालदेशिकः श्रीमान् जीयात् सन्ततं भुवि॥
रामानुज-पदाम्भोज-युगली यस्य धीमतः।
प्राप्यं च प्रापकं वन्दे प्रणतार्थिहरं गुरुम्॥
On Thu, 28 Sept 2023 at 16:18, विश्वासो वासुकिजः (Vishvas Vasuki) <vishvas...@gmail.com> wrote:रामानुज-पदाम्भोज-युगली यस्य धीमतः।
प्राप्यं च प्रापकं वन्दे प्रणतार्थिहरं गुरुम्॥प्रणतार्तिर्हरं
(श्रीमदनुरुद्धेन सदयं शोधितम् )
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgFp9aSB9M%3DWAQ4PjC5J8VwO_GaPpTMF%3D1T%2BOTbaePJrQQ%40mail.gmail.com.
गौड-वैदर्भ-पाञ्चाल-
मालाकारां सरस्वतीम् ।
यस्य नित्यं प्रशंसन्ति
सन्तः सौरभ-वेदिनः ॥ १२ ॥
(वेङ्कटनाथार्ये)
अत्रैवमैतिह्यम्-
" वेदान्ताचार्यजननी
वरपुत्राभिलाषिणी ।
स्वप्ने श्रीवेंकटेशेन
दत्ता घण्टा निगीर्य सा ॥
दधार गर्भमतुलं
द्वादशाब्दं पतिव्रता ।
ततो जज्ञे गुरुरयं
वेदान्ताचार्यशेखरः ॥ ”
स जयति यतिराजमुनिः करुणाजलधिः क्षमापरिष्कारः।
करिशैलकृष्णमेघः काङ्क्षितवर्षी यदर्पितैस्तोयैः॥
Which is the source for the above shlokas 1 to 3?Regards,Murthy
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgGtsELcEZs5%3DWoyzR%2BG%2BCnEEzoy-A_YD1NoVkBo8YKjVQ%40mail.gmail.com.
अर्वाञ्चो यत्-पद-सरसि-ज-द्वन्द्वम् आश्रित्य, पूर्वे
मूर्ध्ना यस्यान्वयम् उपगता देशिका मुक्तिम् आपुः ।
सोऽयं रामानुज-मुनिर् अपि स्वीय-मुक्तिं कर-स्थां
यत्-सम्बन्धाद् अमनुत कथं वर्ण्यते कूर-नाथः ॥ ८॥(5)
पुरा सूत्रैर् व्यासः श्रुति-शत-शिरोर्थं ग्रथितवान्
विवव्रे तं श्राव्यं वकुल-धरताम् एत्य स पुनः ।
उभावेतौ ग्रन्थौ घटयितुम् अलं युक्तिभिर् असौ
पुनर् जज्ञे रामावर-ज इति स ब्रह्म-मुकुरः ॥ ७॥
काषाय-शोभि कमनीय-शिखा-निवेशं
दण्ड-त्रयोज्ज्वल-करं विमलोपवीतम्।
उद्यद्-दिनेश-निभम् उल्लसद्-ऊर्ध्वपुण्ड्रं
रूपं तवास्तु यति-राज! दृशोर् ममाग्रे ॥११ ॥
एतानि तानि भुवन-त्रय-पावनानि
संसार-रोग शकली-करणौषधानि ।
जिह्वातले मम लिखानि यथा शिलायां
रामानुजेति चतुराण्य् अमृताक्षराणि ॥१२ ॥
नमः प्रणव-शोभितं नव-कषाय-खण्डाम्बरं
त्रि-दण्ड-परिमण्डितं त्रिविध-तत्त्व-निर्वाहकम्।
दयाञ्चित-दृग्-अञ्चलं दलित-वादि-वाग्-वैभवं
शमादि-गुण-सागरं शरणम् एमि रामानुजम् ॥ १३ ॥
न चेद् रामानुजेत्येषा
चतुरा चतुर्-अक्षरी।
काम् अवस्थां प्रपद्यन्ते
जन्तवो हन्त! मादृशः॥
पुण्याम्भो-ज-विकासाय
पाप-ध्वान्त-क्षयाय च
श्रीमान् आविर्-अभूद् भूमौ
रामानुज-दिवाकरः॥१४ ॥
तृणी-कृत-विरिञ्चादि-
निरङ्कुश-विभूतयः।
रामानुज-पदाम्भोज-
समाश्रयण-शालिनः॥
मूलम्सत्यं सत्यं पुनस् सत्यं
यतिराजो जगद्-गुरुः।
स एव सर्वलोकानाम्
उद्धर्ता, नास्ति संशयः॥१५ ॥
कृष्ण-तातदेशिकपद्ये
श्रीनिवासदेशिके (aka तीवट्टि-स्वामि, वॆत्तल्-स्वामि, आण्डवन्)श्री--श्री-वास-यतीन्दुर्
विलसतु सर्वज्ञ-शेखरो हृदये।
यत्-पाद-सङ्ग-लेशाद्
अपसरति तमः, प्रकाशते सर्वम्॥
अ-सत्ताम् **उच्छेत्तुं**, **प्रजनयितुम्** ईश-प्रसदनं,
तमः **क्षेप्तुं**, तच् च प्रमिति-सुखम् **उच्छृङ्खलयितुम्** ।
अ-मार्गाद् **आहर्तुं**, पथि च पदम् **आधातुम्** - इह नस्
त्वद्-आदिष्टं शास्त्रं **प्रभवति** सकृद् **भावितम्** अपि ॥ २४ ॥
ऎङ्गळ्-आऴ्वान्-महाशये -
श्री-विष्णु-चित्त--पद-पङ्कज-समाश्रयाय
चेतो मम स्पृहयती किम् अतः परेण।
नो चेन् ममापि यति-शेखर-भारतीनाम्
भावः कथं भवेतुम् अर्हति वाग्-विधेया?
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgEFkW0ncJB%3DF9yQZX74M7piWFC3rxjp1Fbwo49P_FCAew%40mail.gmail.com.
भृङ्गायमाण-वरदार्य-दयैक-पात्रम्।
तत्-सूक्ति-लेश-विभवात्त-समस्त-तत्वं
भक्त्या **भजामि पर-वादि-भयङ्करार्यम्**॥
वेदान्त-देशिक-कटाक्ष-विवृद्ध-बोधं
कान्तोपयन्तृ-यमिनः करुणैक-पात्रम्।
वत्सान्ववायम् अनवद्य-गुणैर् उपेतं
भक्त्या **भजामि पर-वादि-भयङ्करार्यम्**॥
अङ्के कवेर-कन्यायास्
तुङ्गे भुवन-मङ्गले ।
रङ्गे धाम्नि **सुखासीनम्**
वन्दे वर-वरम् मुनिम् ॥
(श्रीवत्सचिह्नमिश्रेभ्यो
नम उक्तिम् **अधीमहे** ।
यदुक्तयस्त्रयीकण्ठे
**यान्ति** मङ्गलसूत्रताम् ॥)
**जयति** सकल-विद्या-वाहिनी--जन्म-शैलो
जन-पथ--परिवृत्ति-श्रान्त--विश्रान्तिशाखी ।
निखिल-कुमति-माया--शर्वरी--बाल-सूर्यो
निगम-जल-धि--वेला-पूर्ण-चन्द्रो यतीन्द्रः ॥ ४१ ॥
जनिपथ
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgGxBBFsR10LMazQmqOAxwp4i178G9jx4j%2B%3DEE04WqptQQ%40mail.gmail.com.
--Dr. P. Ramanujan
Parankushachar Institute of Vedic Studies (Regd.)Bengaluru
विख्यातो यतिसार्वभौम-जलधेश् चन्द्रोपममत्वेन यःश्रीभाष्येण यद्-अन्वयाः सुविहिताः श्रीविष्णुचित्तादयः।व्याख्याम् भाष्य-कृद्-आज्ञयोपनिषदां यो द्राविडीनां व्यधात्पूर्वं तं कुरुगेश्वरं गुरुवरं कारुण्यपूर्णम् भजे।
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgFnWTDi6ECz6yjUKez90BRG-Rs64O_ca7TQzC%3D3WTjf_w%40mail.gmail.com.
श्रीमल्-लक्ष्मण-योगीन्द्र-
सिद्धान्त-विजय-ध्वजम् ।
विश्वामित्र-कुलोद्भूतं
वरदार्यम् अहं भजे ॥
अनभ्यस्त-समस्तार्था
अभ्यस्ता इव भूरिशः।
स्ववशा इव संसिद्धाः
सद्-आचार्य-परिग्रहात्॥ इति कुमारवरदार्ये प्रतिवादिभयङ्कराण्णङ्गराचार्यः
यद्य् एतं यति-सार्व-भौम-कथितं **विद्याद्** अविद्यातमः-
प्रत्यूषं प्रतितन्त्रम् अन्तिम-युगे कश्चिद् विपश्चित्तमः ।
तत्रैकत्र झटित्य् **उपैति विलयं** तत्-तन्-मत-स्थापना-
हेवाक-प्रथमान-हैतुक-कथा-कल्लोल-कोलाहलः ॥ ११
If, in the Kali yuga, there is any one supremely wise who can understand this unique and distinctive doctrine of the relationship between Iśvara and the world being that between the soul and the body, which was taught by that sovereign sannyāsin (Śrī Rāmānuja) and which is like the dawn that dispels the darkness of ignorance , then in that place where he is, the tumultuous waves of logical disputation arising from the eagerness to establish the truths of other systems will subside at once.
Si, en el Kali Yuga, hay alguien supremamente sabio
que puede entender esta doctrina única y distintiva
de la relación entre Iśvara y el mundo
que entre el alma y el cuerpo,
que fue enseñada por ese sannyāsin (śrī rāmānuja)
y que es como el amanecer
que disipa la oscuridad de la ignorancia,
luego en ese lugar donde está,
las ondas tumultuosas de la disputa lógica
derivadas del afán de establecer las verdades de otros sistemas
disminuirán de inmediato.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/7a331446-0c64-479f-a48e-aae17779b7afn%40googlegroups.com.
तत्त्वेन यश् चिद्-अचिद्-ईश्वर--तत्-स्वभाव-
भोगापवर्ग--तद्-उपाय-गतीर् उदारः ।
सन्दर्शयन् **निरममीत** पुराणरत्नं
तस्मै नमो मुनिवराय **पराशराय** ॥ ४॥ माता पिता युवतयस् तनया विभूतिस्
सर्वं यद् एव नियमेन मद्-अन्वयानाम् ।
आद्यस्य नः कुल-पतेर् वकुलाभिरामं
श्रीमत्-तद्-अङ्घ्रि-युगलं +++(शठकोपरूपं)+++ **प्रणमामि** मूर्ध्ना ॥
श्री-चैतन्य-मतानुगा बहुविधैस् तत्त्वैः समुद्भासिता
सद्भक्ति-प्रतिपालनी सुवचसा प्रेमार्थ-संस्थापिका ।
जीवातुर् हरिभक्त-जीव-निचये चित्त-श्रुति-प्रीतिदा
श्रीजीव-प्रतिभा जगद्-विजयिनी सर्वैर् धिया धार्थताम् ॥
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgE%2B0VdPv8Zyyip5J3UYtjhawU1nXQ4SDZoLe0bBVu9ZiQ%40mail.gmail.com.
सद्-धी-भव्यान् सु-वाचः सु-चरित--सु-भगान् कृष्ण-सारूप्य-सौम्यान्
स्व्-आहारोदार-शीलान् तनु-धृत--भगवल्-लक्ष्मणो बाल्य-गुप्तान् ।
छात्र-च्छन्द-स्व-वृत्तीन् अभिगत-शिशिरान् अन्तरङ्गोक्ति-योग्यान्
आचार्यान् कृष्ण-लब्धाव् **अवृणुत** शठजित् प्रेयसी-दूत-नीत्या ॥
कर्माद्य्-उपाया इह केचन स्युः
केचिच् च लक्ष्मी-रमणाङ्घ्र्य्-उपायाः ।
श्रीमद्-यतीन्द्र-प्रिय-वेङ्कटेश -
गुर्वङ्घ्र्युपाया वयम् एव धन्याः॥
अर्वाञ्चो यत्-पद--सरसि-ज--द्वन्द्वम् **आश्रित्य** पूर्वे
मूर्ध्ना यस्यान्वयम् **उपगता** देशिका मुक्तिम् **आपुः** ।
सोऽयं रामानुजमुनिर् अपि स्वीय-**मुक्तिं** कर-**स्थां**
यत्-सम्बन्धाद् **अमनुत** कथं **वर्ण्यते** कूर-नाथः ॥