नमोनमःचार्वाकाः धूर्ताः नास्तिकाः असुराः राक्षसाः मायाविनः इत्यादिना उपाधिना सर्वदा तिरस्कृताः प्रायः संपूर्णे एव आर्यवर्तवाङ्मये ।
प्रायः तेषाम् एतावत् विद्वेषः आसीद् अन्यैः सह यत् तेषां मतस्य एकोऽपि ग्रन्थो न प्राप्तः अद्य ।
अत अत्र चार्वकानां यत् किमपि शेषं वाङ्मयम् उपलभ्यते इतस्ततः तस्य संग्रहणं संशोधनं च करोमि । भवन्तः अपि सहायतां कुर्वन्तु ।
धन्योऽस्मि-----------तदेतत् सर्व्वं बृहस्पतिनाप्युक्तम् ।“न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः ।नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ।अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविका धातृनिर्म्मिता ।पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति ।स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते ।मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् ।गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम् ।स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः । प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते? ।यावज्जीवेत् मुखं जीवेदृणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ।यदि गच्छेत् परं लोकं देहादेष विनिर्गतः ।कस्माद्भूयो न चायाति? बन्धुस्नेहसमाकुलः ।ततश्च जीवनोपायो ब्राह्मणैर्निहितस्त्विह ।मृतानां प्रेतकार्य्याणि न त्वन्यद्विद्यते क्वचित् ।त्रयो वेदस्य कर्त्तारो भण्डधूर्त्तनिशाचराः । जर्फरीतुर्फरीत्यादि पण्डितानां वचः स्मृतम् ।अश्वस्यात्र हि शिश्नन्तु पत्नीग्राह्यं प्रकीर्त्तितम् । भण्डैस्तद्वत् परञ्चैव ग्राह्य जातं प्रकीर्त्तितम् ।मांसानां खादनं तद्वन्निशाचरसमीरितमिति” ।--------------------इदं सर्वदर्शनसंग्रहतः ।
--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CA%2BksRZcfdSnckmBPuzBJx3PCs1UMQHsnrOvV1CiPb4MzYxy5gA%40mail.gmail.com.
अत्र चार्वाकाणां मतं महामोहस्य वचनमिति उक्तम् । तेषामनुयायिनः च दैत्या इति उक्तम् ।
अहं न मन्ये ते बलहीना इति । तेषां मतम् अर्वाचीनविज्ञाने तुल्यम् ।
पुनः तेषां संपूर्णमतं नोपलब्धम् अतः न वक्तुं शक्नुमः यत् ते संपूर्णतया पापपुण्यानां तिरस्कारं कृतवन्तः । मम मतेन ते केवलं व्यर्थक्रियाकलापानां तिरस्कारं कृतवन्तः यथा अग्रिहोत्रादि ।
प्रावोन्मज्जनवत् 'ग्रावाणः प्लवन्ते' इति प्रतिपादितपाषाणतरणवज् ज्योतिष्टोमादियज्ञानां साध्ये स्वर्गादौ फलेपि 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिश्रुतीनां सत्यता यथार्थता । ग्रावोन्मज्जनवाक्यस्य प्रत्यक्षबाधितत्वात्, यागानन्तरमेव स्वर्गादेरदृष्टत्वाज्ज्योतिष्टोमादियागप्रतिपादिका श्रुतिरपि प्रत्यक्षबाधिता । तथाच 'यागश्रुतिरप्रमाणम्, प्रत्यक्षविरुद्धत्वाद्ग्रावोन्मज्जनश्रुतिवत्' इति प्रयोगाद्यागश्रुतेरपि स्वर्गादावसत्यतेति च व्याख्येयम् । अत्र विरुद्धलक्षणया सत्यतेत्यस्याऽसत्यतेत्यर्थः । एवमन्येषामपि वेदवाक्यानां श्रुतित्वाविशेषादप्रमाणत्वे हे धीवृद्धाः बुद्धिमन्तो देवास्तत्र फले श्रुतौ वा युष्माकं का श्रद्धा कथमास्तिक्यम्। अपि त्वप्रामाणिकेर्थे श्रद्धा न कार्या । यद्येन कारणेन यद्वशाद्वेदोक्तविद्यातिक्रमभिया कामाध्वा यदृच्छाचारमार्गः खिलीकृतो बद्धः । त्यक्त इत्यर्थः । श्रुतिमात्रस्याप्रमाणत्वाद्यज्ञे यजमानर्त्विजां कतिचिदहानि यद्ब्रह्मचर्यं तदप्यप्रामाणिकत्वात्त्यजतेति भावः । 'धीवृद्धाः' इत्युपहासे । अतिमूर्खा भवन्त इत्यर्थः ॥
- नैषधीयचरितात्
-----------
> How can any evil result? Could political institutions and laws ever be as good [i.e., efficacious] as this?
अहमनेन सहमतो नास्मि महोदय । अन्यान् वञ्चयित्वा या शान्तिः वा सुखं प्राप्यते तद् अस्थायि एव कमलपत्रे जलबिन्दुरिव । ज्ञानमात्रेणैव उद्धारं वर्तते न तु वञ्चनेन । वञ्चनम् अज्ञानं प्रसारयति । अज्ञानं च दुःखम् स्वस्मै परस्मै च ।
केनापि बोधिसत्वेन जातं सत्त्वेन हेतुना । |
केनाप्यज्ञातनाम्ना बोधिसत्त्वेनातिप्राज्ञेन जिनभट्टारकेण वेदस्य मर्मभेदाय रहस्यभङ्गाय जातमुत्पन्नम् । वेदमर्मभेदः कर्तुमारब्ध इति यावत् । कथमत आह-यद्यस्मात्सत्त्वेन हेतुना सत्त्वरूपेण लिङ्गेन यत्सत्तत्क्षणिकम् , यथा घट इत्यादिरूपेण जगदस्थिरं क्षणिकं जगदे प्रत्यपादि । सत्त्वलिङ्गेन विश्वस्य क्षणिकत्वसिद्धावुभयलोकगतं स्थिरमेकं कर्तारमधिकारिणमाश्रित्य वेदैर्विहितानां विधिनिषेधानां निराश्रयतया वेदस्याप्रामाण्यापादनाद्वेदमर्मभेदः कृत इत्यर्थः । बौद्धसिद्धान्तस्तु ग्रन्थान्तराद्बोद्धव्यः । विस्तरभयादत्र नोक्तः। अयं वक्ता पूर्वस्माद्भिन्नः। चार्वाक एव वा स्वमतं वेदाप्रामाण्यं बौद्धसंवादेन द्रढयति - केनेति । सत्त्वेन हेतुना यस्माज्जगदस्थिरं जगदे । तस्मात्केनापि लोकोत्तरप्रज्ञेन तेनैव चार्वाकेण वेदमर्मभेदाय बौद्धेन जातम् । तदीयमताङ्गीकरणात्तद्रपेणैव जातमित्यर्थः । 'जगाद' इति पाठे यद्बोधिसत्त्वं जगदस्थिरं जगादेति व्याख्येयम् ।
प्रकरणे अस्य सादृश्यं कथम्? classical mechanics इति न परोक्षं फलं प्रतिपादयति । अस्माकं कारयानं प्रत्यक्षफलमस्य विज्ञानस्य । पुत्रपौत्राय आरोग्याय धनलाभाय इदं स्तोत्रं वेदमन्त्रं यज्ञं वा करोतु एवं रूपेण न अस्य विज्ञानस्य फलम् अप्रमाणिकम् ।
न च अध्यापकः बालकान् वञ्चयति एवमुक्त्वा यदेतद् classical mechanics अपौरुषेयमतः निर्वावादम् ।
अपि तु अध्यापकः भयेन विना साक्षाद् वदति यत् अग्रे गत्वा भवन्तः general relativity पठिष्यन्ति यत्र अस्य विज्ञानस्य बाधः भविष्यति ।
अकारुणिकस्य वचनमिदम् । मूढानां जडबुद्धौ अस्माकं गूढसिद्धान्तः न प्रविशति अतः वयं मिथ्यावदं प्रसारयामः येन अस्माकं विरोधो न भवेत् इति कोपि सद्बुद्धिः न वदिष्यति ।
> परोक्षप्रियत्वं वेदपुराणादेर् गुणायैवेत्य्वेदपुराणादेः मिथ्यात्वं रक्षणाय जनाः भिन्नभिन्नाः कल्पनाः कुर्वन्ति ।
इदमपि निराधारं यतः पशूनां बलिना अश्वमेधादिना क्रूरकर्मभिः कीदृशः चित्तशुद्धिः ? एवं चित्तशुद्धिः भवेच्चेत् जलेन अग्निर् वर्धेत ।
अग्निहोत्रं त्रयीतन्त्रं त्रिदण्डं भस्मपुण्ड्र्कम् ।
प्रज्ञापौरुषनिःस्वानां जीवो जल्पति जीविका ॥ ३९ ॥
अग्नीति ॥ नित्यं काम्यं च सायंप्रातर्होमरूपमग्निहोत्राख्यं कर्म, त्रयी च तन्त्रं मीमांसा, वेदत्रयसंबन्धि वा यत्तन्त्रं वेदविहितोऽन्योऽपि कर्मकलापः, तथा-त्रयो दण्डा यत्र तत्पाशुपतव्रतम् , तथा-भस्मनः पुण्ड्रकः तिलको यत्रैवंविधं शैवादिव्रतं एतत्सर्वं प्रज्ञाया बुद्धेः पौरुषेण सामर्थेन तीक्ष्णया प्रज्ञया निःस्वानां हीनानां, प्रज्ञया पौरुषेण च वा हीनानां, वञ्चनेन चौर्येण च बलाद्वाग्रहीतुमसमर्थानां, पुरुषाणां जीविका जीवनोपायः। तद्वेषधारणा धर्मेण द्रव्यमर्जयितुमेव। न तु तात्त्विको धर्मः परलोकसाधनम् । एवं वेदप्राण्यवादिनां भवति । जीवो बृहस्पतिर्जल्पति वदति । वाक्यार्थः कर्म । तदुक्तं तेनैव -
'अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मपुण्ड्रकम् ।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ इति ।
तस्मादग्निहोत्राद्यप्रमाणमेवेति भावः । 'जीविका' इति धात्वर्थनिर्देशे ण्वुल् ॥
इदानी ब्राह्मण्यादिजातिधर्मानसहमानो जातिं दूषयति-
शुद्धिर्वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः।
तदनन्तकुलादोषाददोषा जातिरस्ति का ॥ ४० ॥
शुद्धिरिति ॥ विशुद्धमातापितृजन्यत्वं ब्राह्मण्यादेर्लक्षणम् । सा शुद्धिर्दुर्निरूपा । यद्यस्मात्पित्रोर्मातापित्रोर्यौ पितरौ मातामहपितामहौ, मातामहीपितामह्यौ च, तयोरेकशः प्रत्येकं वंशद्वयी शुद्धौ सत्याम् , एवं तयोरपि पितृपितामहीमातृपितामह्यादिमातामहमातुः, पितामहादिमातामहीमातुः, पितामह्यादिशुद्धौ सत्याम् । एवं ब्रह्माणं यावत्प्रत्येकं शुद्धौ सत्यां शुद्धिः परीक्षणीया। तत्तस्मादनन्तकुला एवमपरिमितवंशभेदा अत एव दोषाद्दुर्विज्ञेयशुद्धिसंतानस्त्रीपुंसपारम्पर्यतया शुद्धेः संदेहात् , इन्द्रचन्द्रादीनां च पुराणप्रामाण्येन व्यभिचारदर्शनादशुद्धेनिश्चयाच, जातिसंकररूपाद्दोषात्का जातिनिर्दोषास्ति । अपि तु न कापि । यदाहुः–
'अप्येकपङ्क्यां नाश्नीयात्संयतैः स्वजनैरपि ।
को हि जानाति किं कस्य प्रच्छन्नं पातकं भवेत्॥
'इति। तथा-
'अनादाविह संसारे दुर्वारे मकरध्वजे ।
कुले च कामिनीमूले का जातिपरिकल्पना॥'
इति । तस्मात्संकीर्णयोनित्वात्सर्वा अपि जातयो दुष्टा एवेति जातिधर्मान्विहाय स्वेच्छाचारं कुरुतेति भावः। यद्वा तस्मादा ब्रह्माणमनन्तानां कुलानामदोषाद् दोषाभावाद् व्यभिचारादिदोषरहिता जातिः स्यात् , सा काप्यस्ति, अपि तु न कापि । पूर्वपूर्वपित्रादिव्यभिचारादिदोषात्सर्वापि जातिर्दुष्टेति व्याख्या । 'यदा तदा' इति पाठः सम्यक् । तयोः पित्रोरनन्तकुलानां दोषाभावेन कृत्वाऽदोषा जातिरस्ति । अपितु महति कुले कस्यचिद्दोषसंभवात्सर्वापि जातिर्दुष्टवेत्यर्थ इति वा व्याख्या । यच्छब्दसामर्थ्यात्तच्छब्दाध्याहारः । एकशः, 'संख्यैकवचनात्' इति शस् ॥
--------------- नैषधियचरितात्
अन्यत्रापि उक्तं -
किं कुलेन विशालेन विद्याहीनेन देहिनाम् ।
दुष्कुलं चापि विदुषो देवैरपि सुपूज्यते ।।
रूपयौवनसंपन्ना विशालकुलसंभवाः ।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः ।।
न जातिकारणं तात गुणाः कल्याणकारणम् ।
व्रतस्थमपि चाण्डालं तं देवा ब्राह्मणं विदुः ।।
न जातिर्न कुलं राजन् न स्वाध्यायः न श्रुतं न च ।
कारणानि द्विजत्वस्य व्रतमेव हि कारणम् ।।
किं कुलं व्रतहीनस्य करिष्यति दुरात्मनः ।
कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ।।
चतुर्वेदोपि दुर्वृत्तः शूद्रादल्पतरः स्मृतः ।
तस्माद्विद्धि महाराज व्रतं ब्राह्मणस्य लक्षणम् ।।
न यस्य जन्मकर्माभ्यां न वर्णाश्रमजातिभिः ।
सज्जते स्मिन्नहंभावो देहे वै स हरेः प्रियः ।।
वर्णाश्रमवयोवस्थाभिमानो यस्य विद्यते ।
तस्यैव च निषेधाश्च विधयः सकला अपि ।
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरता पार्थ नान्यदस्तीति वादिनः ।।
कामात्मनः स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ।।
भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ।।
विद्याविनयसंपन्ने बाह्मणे गवि हस्तिनि ।
श्वनि चैव श्वपाके च पण्डिताः समदर्शिनः ।।
न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः ।
असङ्गोसि निरोाको विश्वसाक्षी सुखी भव ।।
शास्त्रयत्नविचारेभ्यो मूर्खाणां प्रपलायताम् ।
कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ ।।
अभ्यासयत्नौ प्रथमं मुख्यो विधिरुदाहृतः ।
तदभावे तु गौणास् स्यात् पूज्यपूजामयः क्रमः ।।
विचारोपशमाभ्यां हि विना नासाद्यते हरिः ।
विचारोपशमाभ्यां च युक्तस्याब्जकरेण किम् ।।
विचारोपशमोपेतं चित्तम् आराधयात्मनः ।
तस्मिन् सिद्धे भवान् सिद्धो नो चेत् त्वं वनगर्दभः ।।
क्रियते माधवादीनां प्रणयः प्रार्थनाय यत् ।
स चैव कस्मात् क्रियते न स्वकस्यैव चेतसः ।।
सर्वस्यैव जनस्यास्य विष्णुर् अभ्यन्तरे स्थितः ।
तं परित्यज्य ये यान्ति बहिर् विष्णुं न ते बुधाः ।।
ब्रह्मविष्ण्विन्द्ररुद्राद्याश् चिरं सम्पूजिता अपि ।
उपप्लुतमनोव्याधिं न त्रायन्ते पि वत्सलाः ।।
इति शम् ।