गोपाल-सरस्वत्योस् सम्बन्धः

6 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 2, 2021, 11:44:09 PM9/2/21
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, Hindu-vidyA हिन्दुविद्या, Ramanuja-char रामानुजः पराङ्कुशाचार्य-सूनुः P
श्रीमद्वेदान्तदेशिको गोपालविंशतिस्तोत्रे- 

वाचं निजाङ्क-रसिकां प्रसमीक्षमाणो  
वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः ।

इति ब्रूते। एवं सरस्वती-गोपालयोर् एषः सम्बन्धः क्व प्रतिपादित आगमेष्व् इति जिज्ञासे।


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 3, 2021, 11:22:13 AM9/3/21
to bhAratIya-vidvat-pariShad भारतीय-विद्वत्परिषद्, Hindu-vidyA हिन्दुविद्या, Ramanuja-char रामानुजः पराङ्कुशाचार्य-सूनुः P
मत्स्नेहितेन प्रेषितया हृदयङ्गमया टीकया समाहितो ऽस्मि।

(ए.वि.गो.व्या)

ध्रुवम् अत्र गोपालमन्त्रस्तद्यन्त्रं चाभिप्रेयेते । नामाक्षराणि लिखितान्य् अष्टदल-पद्म-मध्यस्थ-त्रिकोण-यन्त्रे ।  
रक्षार्थं तत्र निवेशितोऽयं डिम्भः। 'तेनैव रक्षा परमार्थवेदी' इति तेनैव तस्य रक्षा कार्यते, पित्रा मात्रा च । तम् ऋते न कस्यापि पालन-सामर्थ्यम् । तद्-रक्षणे तं विना कोऽन्यः शरणी-क्रियेत? गोपालमन्त्रस् तद्-यन्त्रं च गोपालस्य रक्षा भवति ।  
कोणत्रये लिखिता वर्णा गोपाल-पद-घटकानि त्रीण्य् अक्षराणि ।

'निजाङ्करसिकाम्' इत्यनेन गोपाल-नाम-लेखनं व्यज्यत इव । गोपाल-नाम गोपालाङ्को भवेत् । 'नामान्य् अनन्तस्य यशो ऽङ्कितानि' इति श्रीशुकः । निजाङ्को लिखित-गोपाल-नाम । तत्र रसिका तदङ्कस्था वाग् देवी। गोपाल-पद-सरस्वत्यां गोपालाङ्कस्था सरस्वती रसिका। यथा तदङ्क-रसिका तथा यन्त्र-लिखिताक्षर-त्रये गोपालाङ्के ऽपि रसिका। गोपालाङ्कासिका-रसिकां तत्र स्थित्वा गोपालासन-भूते ऽष्टदले पद्माकारे यन्त्रे विद्यमान-त्रिकोण-त्रय-लिखित-गोपाल-नाम्नि चक्षुषी प्रसार्य तत् सादरं प्रसमीक्षमाणां देवीं वाचं गोपालः प्रसमीक्षते । स्वनाम्नि रसिकां तत् समीक्षमाणां कृतज्ञो गोपालः प्रसमीक्षमाण आस्ते । तन् निजनाम सा सादरं वीक्षते । तस्यां तत्कटाक्षाः सानुग्रहं पतन्ति । गोपालः सरस्वतीपालकः । तन् नाम्नि तस्या रसः सहजः । स्वपालक-गोपालाङ्कस्थत्वं न्याय्यं सरस्वत्याः।

सरस्वत्या अपि गोपालः पिता। 'पिताहमस्य जगतः' इत्य् उक्त-जगत्-पितुः सरस्वत्य् एका नाऽकन्या भवेत् । पितुरङ्के रसिका स्यात्कन्या। प्रौढा पुत्री न पितुरङ्के निविशेत । 'येनैवालिङ्गिता कान्ता, तेनैवालिङ्गिता सा' इति भाव-शुद्ध्या न दोष इति चेद् - अयं पिता श्वशुरोऽपि भवति! कथं तद्-अङ्के आसनम्? इदानीम् अवसरो लभ्यते - श्वशुरः पिता गोपाल-शिशुर् अभवत् । तद्-अङ्कस्पर्शे तत्रासने च नानौचित्यम् । लब्धोऽवसरो न त्यज्यते । अत एव शिशोः स्वाङ्के निवेशनस्योचितत्वेऽपि शिशोरङ्केऽस्या निवेशनम् । अत्रानसूया-दत्तात्रेय-वृत्तान्तः स्मर्तव्यः। 
Reply all
Reply to author
Forward
0 new messages