नव्या॒ ब्रह्म॑ कृणोतन

14 views
Skip to first unread message

उज्ज्वल राजपूत

unread,
Feb 12, 2026, 7:06:17 AMFeb 12
to Hindu-vidyA हिन्दुविद्या
बोध॑ता मे अ॒स्य मन्म॑नः सखायः 🙏

पूर्वे॑ ब्र॒ह्माणो॒ नव्या॑नव्या उ॒क्थान्य॑कृण्वन्। ता हि दे॒वा जु॒षन्ते॑। 

य उ॒क्थेभि॒र्न वि॒न्धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः।
इन्द्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से॥ ८.५१.३॥

अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्य॑म्।
अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभ॑न्तामन्य॒के स॑मे 😮॥ ८.३९.६॥

ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑।
यद्वां॑ वृषण्वसू हु॒वे॥ ८.५.२४॥

अस॑मं॒ तन्नव्यं॒ ब्रह्म॑ स्यात्।

स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्य॑म्
वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे॥ १०.८९.३॥

वस्त्रे॑व॒ ब्रह्म॒ नव्या॑न्यकृण्वन्।

इन्द्र॒ ब्रह्म॑ क्रि॒यमा॑णा जुषस्व॒ या ते॑ शविष्ठ॒ नव्या॒ अक॑र्म।
वस्त्रे॑व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा॑ अतक्षम्॥ ५.२९.१५॥

नकि॑र॒द्य दे॒वेभ्यो॒ नव्या॒ ब्रह्म॑ कृणोति। त्री स॒हस्रा॑णि श॒रदः॑ समा॒नानि॑ वावसिरे 😥। वस्त्रे॑👕व पु॒रा कृ॒तानि॑।

नवे॑न॒ ब्रह्म॑णा दे॒वान॑र्च॒तेति॑ अ॒न्यान्विप्रा॑नशासत।

अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः।
यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न्॥ १.६१.१३॥

अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः।
गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ताः॑॥ १.१९०.१॥

तद॑स्मै॒ नव्य॑मङ्गिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते।
विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी॑वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत्॥ २.१७.१॥

अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे॑न।
श्रव॒दिद्धव॒मुप॑ च॒ स्तवा॑नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः॥ ६.५०.६॥

प्र स॒म्राजं॑ चर्षणी॒नामिन्द्रं॑ स्तोता॒ नव्यं॑ गी॒र्भिः।
नरं॑ नृ॒षाहं॒ मंहि॑ष्ठम्॥ ८.१६.१॥

यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्णः॑ पाव॒काँ अ॒भि सो॑भरे गि॒रा।
गाय॒ गा इ॑व॒ चर्कृ॑षत्॥ ८.२०.१९॥

नव्य॑सीं॒ धियं॑ कृणवा॒मेति॑ आहुः।

एता॒ धियं॑ कृ॒णवा॑मा सखा॒यो🤝ऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः।
यया॒ मनु॑र्विशिशि॒प्रं जि॒गाय॒ यया॑ व॒णिग्व॒ङ्कुरापा॒ पुरी॑षम्॥ ५.४५.६॥

या अ॒न्या ऋ॒चो “नव्य॑स्य॒” इति॒ प्रावो॑च॒न्ता इ॒दं मे॒ मन्म॑ सचन्ते 📎।

इ॒दं नु वि॒द्वांसो॒ नव्या॒ ब्रह्म॑ कृणोतन। ये नु दे॒वाः परा॑च॒स्तान्मे॒धयाव॑र्तयथो॒तये॑।
nav.txt

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 12, 2026, 11:05:42 AMFeb 12
to उज्ज्वल राजपूत, Hindu-vidyA हिन्दुविद्या
नवानि चक्रुः स्तुति-पद्य-गद्य-  
चम्पूश् च विप्राः शतलक्षसङ्ख्याः।  
स्वरेषु भिन्नेष्व् अपि रागहृद्या  
वेदावतारान् इव कारयन्तः॥


--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion visit https://groups.google.com/d/msgid/hindu-vidya/CAJaaQk-hkRhi7Re%3D73NzreWrAoBRtrn5g%2BV%2BHVn0P9RcsNGDmQ%40mail.gmail.com.


--
--
Vishvas /विश्वासः

उज्ज्वल राजपूत

unread,
Feb 12, 2026, 11:41:46 PMFeb 12
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या
किं न तानि॒ नवेद्य॒ज्ञेषु॑ गायन्ति?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 12, 2026, 11:57:40 PMFeb 12
to उज्ज्वल राजपूत, Hindu-vidyA हिन्दुविद्या
On Fri, 13 Feb 2026 at 10:11, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
किं न तानि॒ नवेद्य॒ज्ञेषु॑ गायन्ति?

भागवत-याजिभिर् आम् - 
"भगवन्-मन्त्र-सहित-- तद्-आराधनत्वेन कृतस्य  
अग्नि-होत्रादि-क्रतोर् महा-क्रतुत्वम् ।  " इति प्राह श्रीनिवास-तातार्यः । 

तद्-अन्तराऽपि - 

वेदावतराः स्तोत्राणि  
यज्ञास् तर्ह्य् अर्चनादिकम्।  
स्वतः पिष्टं पशुः क्षीरं,
सत्त्राण्य् आलयसम्भ्रमाः॥

उज्ज्वल राजपूत

unread,
Feb 13, 2026, 12:19:58 AMFeb 13
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या
अपि प्रत्नमन्त्रान् विनाऽपि यज्ञः सम्पादयितुं शक्यत इति प्रश्नः। यदि शक्यते तर्हि किम् प्रत्नमन्त्रसहितान् यज्ञान् विनाऽप्यार्यजीवनं शक्यम्?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 13, 2026, 12:50:07 AMFeb 13
to उज्ज्वल राजपूत, Hindu-vidyA हिन्दुविद्या, kalpa-prayoga

On Fri, 13 Feb 2026 at 10:49, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
अपि प्रत्नमन्त्रान् विनाऽपि यज्ञः सम्पादयितुं शक्यत इति प्रश्नः।

यदि यज्ञशब्देन +आगमोक्तेज्या ऽपि गृह्येत, तर्हि शक्यत इति वाच्यम्। 
यदि शक्यते तर्हि किम् प्रत्नमन्त्रसहितान् यज्ञान् विनाऽप्यार्यजीवनं शक्यम्?

शक्यम्, किञ्च दरिद्रतरम् भवेत् (आरम्भे विशिष्य)। 

उज्ज्वल राजपूत

unread,
Feb 13, 2026, 1:02:29 AMFeb 13
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, kalpa-prayoga
कस्माद् दरिद्रतरम्? प्रत्नानां मन्त्राणाम् अर्थस्य नूतन-सरल-भाषयाऽनुवादः कार्यः। तान् अनुवादान् ब्राह्मणा यज्ञेषु वदन्तु। अर्थं जानन्तो वक्ष्यन्तीति देवास्तेषां त्वरितं शृणुयुः। कोऽत्र दोषः?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 13, 2026, 1:06:26 AMFeb 13
to उज्ज्वल राजपूत, Hindu-vidyA हिन्दुविद्या, kalpa-prayoga
On Fri, 13 Feb 2026 at 11:32, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
कस्माद् दरिद्रतरम्? प्रत्नानां मन्त्राणाम् अर्थस्य नूतन-सरल-भाषयाऽनुवादः कार्यः। तान् अनुवादान् ब्राह्मणा यज्ञेषु वदन्तु। अर्थं जानन्तो वक्ष्यन्तीति देवास्तेषां त्वरितं शृणुयुः। कोऽत्र दोषः?

सिद्धसम्पत्तिं त्यक्त्वा नूतनसम्पत्तिं सम्पाद्य रमस्वेत्युक्तौ यथा, तथा ऽत्रापि दारिद्र्यं किञ्चन। 
वरम् एवम् - सिद्धसम्पत्तिं नूतनतयाऽर्जितैर् वर्धयन् रमस्व। 

उज्ज्वल राजपूत

unread,
Feb 13, 2026, 1:20:15 AMFeb 13
to विश्वासो वासुकिजः (Vishvas Vasuki), Hindu-vidyA हिन्दुविद्या, kalpa-prayoga
एके वैदिकमन्त्रैरेकं यज्ञं सम्पादयन्ति। अन्ये तानेव मन्त्रान् हिन्दीभाषया कृतैरनुवादैर् वदन्ति, येऽनुवादा जालक्षेत्रेषु सुलभाः। मूलं चानुवादं च वक्तुं कस्याप्यवकाशो नास्ति। केषां यज्ञः सफलतरो भवेत्?

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Feb 13, 2026, 11:27:11 PMFeb 13
to उज्ज्वल राजपूत, Hindu-vidyA हिन्दुविद्या, kalpa-prayoga
On Fri, 13 Feb 2026 at 11:50, उज्ज्वल राजपूत <ujjwal....@gmail.com> wrote:
एके वैदिकमन्त्रैरेकं यज्ञं सम्पादयन्ति। अन्ये तानेव मन्त्रान् हिन्दीभाषया कृतैरनुवादैर् वदन्ति, येऽनुवादा जालक्षेत्रेषु सुलभाः। मूलं चानुवादं च वक्तुं कस्याप्यवकाशो नास्ति। केषां यज्ञः सफलतरो भवेत्?

साफल्यस्य सम्भावनैव वक्तुं शक्या, तस्य चानुमानं प्राक्तनानुभवम् अवलम्बते, शास्त्रं वा।  
हिन्दीयज्ञस्यानुभवाभावात् (शास्त्रस्याप्यभावात्) न शक्यते मातुम्।  
किञ्च शाबरमन्त्रा वर्तन्ते, येषां जपादिभिस् शिद्धिं गदन्ति तज्ज्ञाः।
Reply all
Reply to author
Forward
0 new messages