सुभाषितानि - देव-भक्ति-सूत्रम्

26 views
Skip to first unread message

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 17, 2024, 10:42:51 AM1/17/24
to Hindu-vidyA हिन्दुविद्या
सुभाषितेषूत्कट-भक्ति-भाव-वाचकान्य् अस्मिन् सूत्रे प्रेष्यन्ताम् । 

यथा -

अ-कृत्रिम-प्रेम-रस-
मधुरैः स्व-कराम्बुजैः॥ 329
शुद्धैः स्व-भाव–मधुरैः
सुख-स्पर्शैः सु-गन्धिभिः।
संवाह्यमानम् अ-निशं
शेष-शेषाशनादिभिः॥ 330

अ-सत्यस्यातिनीचस्य
भक्ति-हीनस्य दुर्-मतेः।
ममापि करयोर् अद्य
स्वयैव कृपया हरे॥ 331
निधेहि चरणद्वन्द्वं
त्वाम् अस्मि शरणं गतः।(5)


--
--
Vishvas /विश्वासः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 28, 2024, 11:14:16 PM1/28/24
to Hindu-vidyA हिन्दुविद्या
कथागाम्भीर्याद् हृद्यम् -

या वाण्या यति-राज--राज-वश-गा **चक्रे**, **ऽर्चिता** या चिरात्  
प्राचार्यैर् निगमान्त-देशिक-मणि--श्री-ब्रह्म-तन्त्रादिमैः ।
**याध्यास्ते** परकाल-संयमि-वरास्थानीम् इदानीम् अपि
श्रेयः **संविदधातु** सैन्धव-मुखी सैषा परा देवता ॥

विशुद्ध-विज्ञान-घन स्वरूपं
विज्ञान-विश्राणन-बद्ध-दीक्षम् ।
दयानिधिं देह-भृतां शरण्यं
देवं हय-ग्रीवम् अहं **प्रपद्ये**

On Thu, 18 Jan 2024 at 11:29, G S S Murthy <murt...@gmail.com> wrote:

यामुनाचार्याणां स्तोत्ररत्नादुधृतम्

 अमर्यादः क्षुद्रः चलमतिरसूयाप्रसवभूः

कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।

नृशंसः पापिष्ठः कथमहमितो दुःखजलधेः

अपारादुत्तीर्णस्तव परिचरेयं चरणयोः ॥ ६२ ॥

मूर्तिः

--
You received this message because you are subscribed to the Google Groups "Hindu-vidyA हिन्दुविद्या" group.
To unsubscribe from this group and stop receiving emails from it, send an email to hindu-vidya...@googlegroups.com.
To view this discussion on the web visit https://groups.google.com/d/msgid/hindu-vidya/CAFY6qgFJskwnfgYymaH_nPMfc8hx%3D70J-nmgRf97CLw%3DvFUUvQ%40mail.gmail.com.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 29, 2024, 10:13:57 AM1/29/24
to Hindu-vidyA हिन्दुविद्या
शङ्ख-चक्र-गदा-पद्मैर्  
**अङ्कितं** पाद-पङ्कजम् ।  
शरच्-चन्द्र-शताक्रान्त-  
नख-राजि-विराजितम् ॥२५॥

सुरासुरैर् **वन्द्यमानम्**  
ऋषिभिर् **वन्दितं** सदा ।  
कदा वा देव मूर्धानं  
मामकं **मण्डयिष्यति**

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Jan 30, 2024, 3:11:32 AM1/30/24
to Hindu-vidyA हिन्दुविद्या
भूमौ स्खलित-पादानां  
भूमिरेवाऽवलंबनम्‌।
त्वयि विप्रतिपन्नानां
त्वमेव शरणं विभो॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 30, 2024, 4:48:45 AM3/30/24
to Hindu-vidyA हिन्दुविद्या
उन्निद्रपत्रशतपत्रसगोत्रम् अन्तर्लेखारविन्दम् अभिनन्दनमिन्द्रियाणाम् ।
मन्मूर्ध्नि हन्त! करपल्लवतल्लजं ते कुर्वन् कदा कृतमनोरथयिष्यसे माम् ॥ ७२ ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 30, 2024, 4:56:50 AM3/30/24
to Hindu-vidyA हिन्दुविद्या
ऐन्दीवरी क्वचिद् अपि क्वचनारविन्दी
चान्द्रातपी क्वचन च, क्वचनाऽथ हैमी ।
कान्तिस् तवोढ--पर-भाग--परस्-पर-श्रीः
**पार्येत पारणयितुं** किमु चक्षुषोर् मे ॥ ७५ ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 30, 2024, 8:20:16 AM3/30/24
to Hindu-vidyA हिन्दुविद्या
> एकस्मिन्न् अप्य् अतिक्रान्ते
> मुहूर्ते ध्यान-वर्जिते ।
> दस्युभिर् मुषितेनेव
> युक्तम् आक्रन्दितुं नमः

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Mar 30, 2024, 8:32:03 AM3/30/24
to Hindu-vidyA हिन्दुविद्या
ऐश्वर्य-वीर्य-करुणा-गरिम-क्षमाद्याः
स्वामिन्! अ-कारण-सुहृत्त्वम् अथो विशेषात् ।
सर्वे गुणाः स-विषयास् तव, माम् अ-पार-
घोराघ-पूर्णम् **अ-गतिं निहतं समेत्य** ॥ ९८ ॥
त्वत्-पाद-संश्रयण-हेतुषु साधिकारान्
उद्युञ्जतश् चरित-कृत्स्न-विधींश् च तांस् तान् ।
त्वं रक्षसीति महिमा न तवालम् एषः
मां चेद् अन्-ईदृशम् अन्-अन्य-गतिं न रक्षेः ॥ ९९ ॥ (इदं कवेश् शङ्करस्य भारावतारस्तवम् अपि स्मारयति)

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 17, 2024, 9:09:31 PM8/17/24
to Hindu-vidyA हिन्दुविद्या

रुद्रो वृक्ष उमा वल्ली तस्मै तस्यै नमो नमः
रुद्रो गन्ध उमा पुष्पं तस्मै तस्यै नमो नमः ✨

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 12, 2024, 9:05:07 PM9/12/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
> ‘‘ज्ञानी तु परमैकान्ती  
> परायत्तात्म-जीवनः ।
> तत्-संश्लेष-वियोगैक-
> सुख-दुःखस् तद्-एकधीः ॥
> भगवद्-ध्यान-योगोक्ति-
> वन्दन-स्तुति-कीर्तनैः ।
> लब्धात्मा तद्-गत-प्राण-
> मनो-बुद्धीन्द्रिय-क्रियः ॥’’

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 23, 2024, 1:02:16 PM9/23/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
तत्त्वेन यस्य महिमार्णव-शीकराणुश्  
**शक्यो न मातुम्** अपि शर्व-पितामहाद्यैः ।  
**कर्तुं** तदीय-महिम-स्तुतिम् **उद्यताय**  
मह्यं नमोऽस्तु कवये निरपत्रपाय ॥ ७॥

इति श्रीयामुनः। 


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Sep 23, 2024, 1:04:40 PM9/23/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
यद् वा श्रमावधि, यथा-मति वा ऽप्य् अशक्तस्  
**स्तौम्य्**, एवम् एव खलु ते ऽपि सदा स्तुवन्तः ।  
वेदाश् चतुर्-मुख-मुखाश् च, महार्णवान्तः  
को मज्जतोर् अणु-कुलाचलयोर् विशेषः ॥ ८॥


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 3, 2024, 10:50:09 AM10/3/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
जगज्-जन्म-स्थिति-ध्वंस-  
महानन्दैक-**हेतवे** ।  
करामलकवद् विश्वं  
**पश्यते** विष्ण्वे नमः ॥

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 9, 2024, 6:08:01 AM10/9/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
तव दास्य-सुखैक-सङ्गिनां  
भवनेष्व् अस्त्व् अपि कीट-**जन्म** मे ।  
इतरावसथेपु **मा** स्म भूद्  
अपि मे **जन्म** चतुर्मुखात्मना ॥ ५५ ॥

May I be born even as a worm in the houses of those who are solely devoted to the joy of serving You. But, let me not be born even as the four faced Brahma in the houses of those who are not Your devotees.

विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Oct 10, 2024, 5:51:11 AM10/10/24
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
> “मेघ-श्यामं महा-बाहुं  
> स्थिर-सत्त्वं दृढ-व्रतम् ।  
> कदा **द्रक्ष्यामहे** रामं  
> जगतश् शोक-नाशनम् ॥  
> **दृष्ट** एव हि नश् शोकम्  
> **अपनेष्यति** राघवः ।  
> तमस् सर्वस्य लोकस्य  
> **समुद्यन्न्** इव भास्करः" +++(5)+++  
> (रामा.अयो. ८३.८,९)


> “यश्च रामं **न पश्येत्** तु  
> यं च रामो **न पश्यति** ।  
> **निन्दितस्** स भवेल् लोके  
> स्वात्माऽप्य् एनं **विगर्हति** ॥”  
> (रामा.अयो. १७.१४) 


> ‘मा जनिष्ट स नो वंशे,  
> जातो वा द्राग् **विपद्यताम्** ।  
> आ-जन्म-मरणं यस्य  
> वासुदेवो न दैवतम् ॥’  
> (वराहपुराणे) 

> “किं प्रजया करिष्यामो येषां नायमात्मा” (बृहदारण्यके ६.४.२२)

> “पत्युः प्रजानाम् ऐश्वर्यं  
> पशूनां वा **न कामये** ।  
> अहं कदम्बो **भूयासं**  
> कुन्दो वा यमुनातटे ॥”


विश्वासो वासुकिजः (Vishvas Vasuki)

unread,
Aug 17, 2025, 10:25:41 AMAug 17
to Hindu-vidyA हिन्दुविद्या, चेतो-देव-जीवादि-तत्त्व-विचारः
1 ईशाना सर्वस्या वाचो-देवी यद्-अङ्कम् अध्यास्ते ।
2 कर्णाट-देश-भाग्यं वागीश्वर एष मम मनो विशतात् ॥ १ ॥

Reply all
Reply to author
Forward
0 new messages