vedantin physics errors - shankara, madhva, venkaTanAtha (not avatAra-s, they endorsed stationary earth model) vs AryabhaTa, bhaTTatiri
गौरव-प्रकर्ष-काष्ठा-भूताद् भू-मण्डलाद्
अतिलघीयसां रजः-प्रभृतीनाम् अधिक-पतन-कल्पनं चोपहास्यम् ;
इत्य्-आदिना गुरु-लघ्वोः सम-गत्या पतनम् अपि साधारण-प्रत्यक्ष-सिद्धं न वेद,
यद् गलिलियः सरल-प्रयोगेण ज्ञातवान् - TW ।
> भूगोल-घन-मध्य-देश एव सर्वेषाम् अधोधोदेशः,
तद्-अभिमुख-दत्त-चरण एव स्थल-जल-चरः सर्वो जन्तुवर्गः ।
भूमिस्तु तद्-आश्रिता नानाकेसर-परिवृत-कदम्ब-कुसुम-ग्रन्थिवन्
मक्षिकावृत-मधु-गोलवच् च तिष्ठति ।
अमरा नराश् च परस्परम् अधःस्थितान् मन्यन्ते ।
पतनं च सर्वेषां भूगोल-मध्य-देशाभिमुखम् एव ।
पृथिव्यंशास् त्व् अवकाशालाभान् न तत्र प्रविशन्ति ।
अतो महा-पृथिव्या न कदाचित् पतनम्,
ताम् अपेक्ष्य कस्यचिद् अधोदेशस्याभावात्
इति ।
तद् एतद्-भुवो ऽधस्ताद् उपरि च लोकान् उपदिशद्भिश् शास्त्रैर् उपरुध्येत ।