सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न् यद् आस्ते॑ । १६
…
**धीरः** धिया रममाणः परमविद्वान्
**अभिवदन्** तैस् तैर् नामभिर् आभिमुख्येन वदन्
**यदा आस्ते**, तदा तं पुरुषं वेत्ति । इतश् चाहं वेद्मि ॥ १६ ॥
कृतकृत्यो यदा अभिवदन् आभिमुख्येन वदन् विश्वमनुगृह्णन् आस्ते तदा सर्वदा एवमेव सृष्टिर्वेदितव्येति ॥
'यत्' यः पुरुषः, 'सर्वाणि रूपाणि' देवमनुष्यशरीराणि, 'विचित्य' विशेषेण निष्पाद्य, 'नामानि' च देवोऽयं पशुः अयमित्यादीनि, 'कृत्वा', अभिवदन् तैर्नामभिरभितो व्यवहरन्, 'आस्ते',