> तदर्थं मया भगवद्-अनुग्रहेण गुर्व्-अनुग्रहेण च
कृष्ण-यजुर्वेद-वैजयन्ती-लेखनम् आरब्धम् ।
अस्यां सर्वो विचारः प्रदर्शयिष्यते ।
ब्राह्मणादि-भागस्य पदानि निर्धार्य पृथक् लिख्यन्ते,
येन पदानां परिज्ञानं निस्सन्दिग्धं निर्भ्रान्तं च भवेत् ।
> मन्दधियाम् अध्येतृणां भ्रम-सन्देह-निरसनाय
श्रीश-शृङ्खलाश् च निर्मीयन्ते ।
यावत्-पर्यन्तम् एतत्कार्यं पूर्णं न भविष्यति
तावत्-पर्यन्तं नक्तव्रत-सङ्कल्पो गृहीतः ।
…
> पाठ-भेदानां युक्तायुक्तत्व-विचारः
कृष्णयजुर्वेदवैजयन्त्यां यथासम्भवं करिष्यते ।
इति प्रतिजानाति
गणेश्वरशास्त्री द्राविडः।