श्रीमद्भिः कल्याण-कृद्भिः कल्याण-गुण-शालिभिः कल्याणमय्यंगार्यैः प्रेषितं
सर्व-तन्त्र-स्वतन्त्रैः श्रीमन्-निगमान्त-महादेशिकैर् इव तत्त्व-विद्भिः
बहु-बिरुद-भूषितैः श्रीमद्-अभिनवदेशिकैर् अप्य् अनुगृहीतम्
एतं विजयं सानन्दम् अन्वविन्दम्।
सो ऽयं श्री-विजयः
श्री-पार्थसारथि-बलाद् विजय+++(=अर्जुनय्)+++ इव
विजयं समाकलयति तदीयानाम्
इति महान् विश्वासः।
अत्र सैद्धान्तिक-फल-पर्व-विभेदस् तु
संप्रदाय-विभेद-निबन्धनः।
पर-विभेदः पराधीनः,
स च नान्तरीयकः।+++(=??)+++ आस्ताम्।
तम् एतम् अपि संप्रदायं सम्मानयति
श्रीमन्-निगमान्त-महादेशिक-श्री-सूक्तिर् इव श्रीमद्-अभिनवदेशिक-श्री-सूक्तिर् अपीति
न पुनर्-उक्तिः।
महान् सन्तोषः।
परोक्तिर् हि न परोक्तिर् इति
पारिशेषिको वादः।+++(=??)+++
मधुरतरोक्तिर् हि
परान् अप्य् आनन्दयतीति
इयं न वाचो-युक्तिः।
अतो ह्य्
अभूवन्न् अधमर्णास् सर्वधा विजयिन
इति परं तत्त्वम्।
समीकुर्यात् सर्वम् अपीदं
सर्वज्ञः स भगवान् श्रीनिवास
इति निवेदयति।
इति विधेयः पण्डितः वेदान्तं जगन्नाथाचार्यः
तिरुमल तिरुपति देवस्थान आस्थान-विद्वान्, तिरुपति
२०-७-१९६४