नमो नमः।
पर्वतो वह्निमान् धूमादीत्यनुमाने पर्वतः पक्षः, पक्षतावच्छेदकं पर्वतत्वं। तदवच्छेदेन अनुमिति: नाम निखिलपर्वतः वह्निमान् इति सिध्यति।
सामानाधिकरण्येन अनुमिति: नाम पर्वतत्वाधिकरण यत्किञ्चित्पर्वतः वह्निमान् इति।
अत्र साध्यसिद्धि:- साध्पयनिर्णयः -
पर्वतो वह्निमानिति ज्ञानं, तत्सत्वे पर्वतो वह्निमानित्यनुमिति: न जायते। सिद्धे: अनुमितिम् प्रति प्रतिबन्धकत्वात्।
अयं नियमः- पक्षतावच्छेदकावच्छेदेन अनुमितिम् प्रति पक्षतावच्छेदकावच्छेदेन साध्यसिद्धि: प्रतिबन्धिका,
पक्षतावच्छेदकसामानाधिकरण्येन अनूमितिम् प्रति सिद्धिमात्रं विरोधि।अर्थात् पक्षतावच्छेदकावच्छेदेन, पक्षतावच्छेदकसामानाधिकरण्येन वा सिद्धि: प्रतिबन्धिका इति।
तथाच यत्र पक्षतावच्छेदसामानाधिकरण्येन अनुमिति: तत्र कस्याश्चित् सिद्धे: - अवच्छेदकावच्छेदेन, सामानाधीकरण्येन वा सिद्धे: प्रतिबन्धकत्वं सम्भवतीति।