कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् .
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् .. १४.१६..
कर्मणः सुकृतस्य आहुः सात्त्विकम् निर्मलम् फलम् .
रजसः तु फलम् दुःखम् अज्ञानम् तमसः फलम् .. १४.१६..
सुकृतस्य कर्मणः सात्त्विकम् निर्मलम् फलम्, रजसः फलम्
तु दुःखम्, तमसः (च) फलम् अज्ञानम् (इति) आहुः .
--------------------------------------------------------------
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च .
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च .. १४.१७..
सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च .
प्रमाद-मोहौ तमसः भवतः अज्ञानम् एव च .. १४.१७..
सत्त्वात् ज्ञानम् सञ्जायते, रजसः लोभः एव च
(सञ्जायते), तमसः प्रमाद-मोहौ भवतः, अज्ञानम् च एव
(भवति) .
--------------------------------------------------------------
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः .
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः .. १४.१८..
ऊर्ध्वम् गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः .
जघन्य-गुण-वृत्तिस्थाः अधः गच्छन्ति तामसाः .. १४.१८..
सत्त्वस्थाः ऊर्ध्वम् गच्छन्ति, राजसाः मध्ये तिष्ठन्ति,
जघन्य-गुण-वृत्तिस्थाः तामसाः अधः गच्छन्ति .
--------------------------------------------------------------
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति .
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति .. १४.१९..
न अन्यम् गुणेभ्यः कर्तारम् यदा द्रष्टा अनुपश्यति .
गुणेभ्यः च परम् वेत्ति मद्भावम् सः अधिगच्छति .. १४.१९..
यदा द्रष्टा गुणेभ्यः अन्यम् कर्तारम् न अनुपश्यति, गुणेभ्यः
च परम् (आत्मानं) वेत्ति, (तदा) सः मद्भावम् अधिगच्छति .
--------------------------------------------------------------
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् .
जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते .. १४.२०..
गुणान् एतान् अतीत्य त्रीन् देही देह-समुद्भवान् .
जन्म-मृत्यु-जरा-दुःखैः विमुक्तः अमृतम् अश्नुते .. १४.२०..
देही एतान् देह-समुद्भवान् त्रीन् गुणान् अतीत्य,
जन्म-मृत्यु-जरा-दुःखैः विमुक्तः (सन्) अमृतम् अश्नुते .
--------------------------------------------------------------
अर्जुन उवाच .
अर्जुनः उवाच .
कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो .
किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते .. १४.२१..
कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो .
किम् आचारः कथम् च एतान् त्रीन् गुणान् अतिवर्तते .. १४.२१..
हे प्रभो! एतान् त्रीन् गुणान् अतीतः (जीवः) कैः लिङ्गैः
(ज्ञातः) भवति (सः) च किम् आचारः (सः)
च एतान् त्रीन् गुणान् कथम् अतिवर्तते
--------------------------------------------------------------
522