bhagavadgItA sandhi-vichCheda-anvaya-sahitA (09/27/12)

28 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Sep 26, 2012, 9:42:17 PM9/26/12
to gita-anva...@googlegroups.com


अथ पञ्चदशोऽध्यायः . पुरुषोत्तमयोगः .
अथ पञ्चदशः अध्यायः . पुरुषोत्तम-योगः .
श्रीभगवानुवाच .
श्रीभगवान् उवाच .
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् .
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् .. १५.१..

ऊर्ध्व-मूलम् अधः-शाखम् अश्वत्थम् प्राहुः अव्ययम् .
छन्दांसि यस्य पर्णानि यः तम् वेद सः वेदवित् .. १५.१..

छन्दांसि यस्य पर्णानि (सन्ति तं) अश्वत्थम् ऊर्ध्व-मूलम्
अधः-शाखम् अव्ययम् प्राहुः . यः तम् वेद, सः वेदवित् (इति उच्यते).



--------------------------------------------------------------
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवालाः .
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके .. १५.२..

अधः च ऊर्ध्वम् प्रसृताः तस्य शाखाः
गुण-प्रवृद्धाः विषय-प्रवालाः .
अधः च मूलानि अनुसन्ततानि
कर्म-अनुबन्धीनि मनुष्य-लोके .. १५.२..

तस्य गुण-प्रवृद्धाः विषय-प्रवालाः शाखाः अधः
ऊर्ध्वम् च प्रसृताः (सन्ति) अधः च मनुष्य-लोके
कर्म-अनुबन्धीनि मूलानि अनुसन्ततानि (सन्ति).



--------------------------------------------------------------
न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा .
अश्वत्थमेनं सुविरूढमूलं
असङ्गशस्त्रेण दृढेन छित्त्वा .. १५.३..

न रूपम् अस्य इह तथा उपलभ्यते
न अन्तः न च आदिः न च सम्प्रतिष्ठा .
अश्वत्थम् एनम् सुविरूढ-मूलम्
असङ्ग-शस्त्रेण दृढेन छित्त्वा .. १५.३..

(यथा अयं वर्णितः) तथा अस्य रूपम् इह न उपलभ्यते .
(अस्य) अन्तः न, आदिः च न, सम्प्रतिष्ठा च न (उपलभ्यते),
सुविरूढ-मूलम् एनम् अश्वत्थम् दृढेन असङ्ग-शस्त्रेण छित्त्वा,



--------------------------------------------------------------
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः .
तमेव चाद्यं पुरुषं प्रपद्ये .
यतः प्रवृत्तिः प्रसृता पुराणी .. १५.४..

ततः पदम् तत् परिमार्गितव्यं
यस्मिन् गताः न निवर्तन्ति भूयः .
तम् एव च आद्यम् पुरुषम् प्रपद्ये .
यतः प्रवृत्तिः प्रसृता पुराणी .. १५.४..

ततः यतः पुराणी प्रवृत्तिः प्रसृता तम् एव च आद्यम्
पुरुषम् प्रपद्ये, (इति) तत् पदम् परिमार्गितव्यं, यस्मिन्
गताः भूयः न निवर्तन्ति .



--------------------------------------------------------------
निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः .
द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-
गच्छन्त्यमूढाः पदमव्ययं तत् .. १५.५..

निर्मान-मोहाः जितसङ्गदोषाः
अध्यात्म-नित्याः विनिवृत्त-कामाः .
द्वन्द्वैः विमुक्ताः सुख-दुःख-संज्ञैः
गच्छन्ति अमूढाः पदम् अव्ययं तत् .. १५.५..

निर्मान-मोहाः, जितसङ्गदोषाः, अध्यात्म-नित्याः,
विनिवृत्त-कामाः, सुख-दुःख-संज्ञैः द्वन्द्वैः विमुक्ताः,
अमूढाः, तत् अव्ययं पदम् गच्छन्ति .



--------------------------------------------------------------
न तद्भासयते सूर्यो न शशाङ्को न पावकः .
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम .. १५.६..

न तत् भासयते सूर्यः न शशाङ्कः न पावकः .
यत् गत्वा न निवर्तन्ते तत् धाम परमम् मम .. १५.६..

न सूर्यः, न शशाङ्कः, न पावकः (च) तत् (पदं) भासयते .
यत् गत्वा न निवर्तन्ते तत् मम परमम् धाम .



--------------------------------------------------------------

534
Reply all
Reply to author
Forward
0 new messages