सञ्जय उवाच .
सञ्जयः उवाच .
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः .
संवादमिममश्रौषमद्भुतं रोमहर्षणम् .. १८.७४..
इति अहम् वासुदेवस्य पार्थस्य च महात्मनः .
संवादम् इमम् अश्रौषम् अद्भुतम् रोम-हर्षणम् .. १८.७४..
इति अहम् वासुदेवस्य महात्मनः पार्थस्य च इमम् अद्भुतम्
रोम-हर्षणम् संवादम् अश्रौषम् .
--------------------------------------------------------------
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् .
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् .. १८.७५..
व्यास-प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् .
योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् .. १८.७५..
व्यास-प्रसादात् स्वयम् योगम् कथयतः योगेश्वरात् कृष्णात्
एतत् परम् गुह्यम् अहम् साक्षात् श्रुतवान् .
--------------------------------------------------------------
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् .
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः .. १८.७६..
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् .
केशव-अर्जुनयोः पुण्यम् हृष्यामि च मुहुः मुहुः .. १८.७६..
हे राजन्! (अहं) केशव-अर्जुनयोः इमम् पुण्यम् अद्भुतम्
च संवादम् संस्मृत्य संस्मृत्य मुहुः मुहुः हृष्यामि .
--------------------------------------------------------------
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः .
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः .. १८.७७..
तत् च संस्मृत्य संस्मृत्य रूपम् अति-अद्भुतम् हरेः .
विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः .. १८.७७..
हे राजन्! हरेः तत् च अति-अद्भुतम् रूपम् संस्मृत्य
संस्मृत्य मे महान् विस्मयः (भवति), (अहं) पुनः पुनः हृष्यामि च .
--------------------------------------------------------------
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः .
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम .. १८.७८..
यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः .
तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम .. १८.७८..
यत्र योगेश्वरः कृष्णः यत्र धनुर्धरः पार्थः,
तत्र श्रीः, विजयः, भूतिः, ध्रुवा नीतिः (च इति)
मम मतिः (अस्ति) .
--
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः .. १८..
--
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे
मोक्ष-संन्यास-योगः नाम अष्टादशः अध्यायः .. १८..
--------------------------------------------------------------
--------------------------------------------------------------
678