चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः .
कामोपभोगपरमा एतावदिति निश्चिताः .. १६.११..
चिन्ताम् अपरिमेयाम् च प्रलयान्ताम् उपाश्रिताः .
काम-उपभोग-परमाः एतावत् इति निश्चिताः .. १६.११..
(ते) अपरिमेयाम् प्रलयान्ताम् चिन्ताम् उपाश्रिताः
काम-उपभोग-परमाः च , एतावत् इति निश्चिताः .
--------------------------------------------------------------
आशापाशशतैर्बद्धाः कामक्रोधपरायणाः .
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् .. १६.१२..
आशा-पाश-शतैः बद्धाः काम-क्रोध-परायणाः .
ईहन्ते काम-भोगार्थम् अन्यायेन अर्थ-सञ्चयान् .. १६.१२..
आशा-पाश-शतैः बद्धाः, काम-क्रोध-परायणाः,
काम-भोगार्थम् अन्यायेन अर्थ-सञ्चयान् ईहन्ते .
--------------------------------------------------------------
इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् .
इदमस्तीदमपि मे भविष्यति पुनर्धनम् .. १६.१३..
इदम् अद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् .
इदम् अस्ति इदम् अपि मे भविष्यति पुनः धनम् .. १६.१३..
अद्य इदम् मया लब्धम्, इमम् मनोरथम् (श्वः) प्राप्स्ये,
इदम् धनम् (अधुना) अस्ति, इदम् अपि ( धनम् च) मे पुनः
भविष्यति .
--------------------------------------------------------------
असौ मया हतः शत्रुर्हनिष्ये चापरानपि .
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी .. १६.१४..
असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि .
ईश्वरः अहम् अहं भोगी सिद्धः अहम् बलवान् सुखी .. १६.१४..
असौ शत्रुः मया हतः, अपरान् च अपि हनिष्ये, अहम् ईश्वरः,
अहं भोगी, अहम् सिद्धः, बलवान् सुखी (च अहं अस्मि) .
--------------------------------------------------------------
आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया .
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः .. १६.१५..
आढ्यः अभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया .
यक्ष्ये दास्यामि मोदिष्ये इति अज्ञान-विमोहिताः .. १६.१५..
आढ्यः अभिजनवान् अस्मि, मया सदृशः कः अन्यः अस्ति
(अहं) यक्ष्ये, दास्यामि, मोदिष्ये इति अज्ञान-विमोहिताः
(ते सन्ति) .
--------------------------------------------------------------
अनेकचित्तविभ्रान्ता मोहजालसमावृताः .
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ .. १६.१६..
अनेक-चित्त-विभ्रान्ताः मोह-जाल-समावृताः .
प्रसक्ताः काम-भोगेषु पतन्ति नरके अशुचौ .. १६.१६..
अनेक-चित्त-विभ्रान्ताः मोह-जाल-समावृताः काम-भोगेषु
प्रसक्ताः, अशुचौ नरके पतन्ति .
--------------------------------------------------------------
564