दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् .
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् .. १८.८..
दुःखम् इति एव यत् कर्म काय-क्लेश-भयात् त्यजेत् .
सः कृत्वा राजसम् त्यागम् न एव त्याग-फलम् लभेत् .. १८.८..
(यः) दुःखम् इति (मत्वा) एव यत् कर्म काय-क्लेश-भयात्
त्यजेत्, सः राजसम् त्यागम् कृत्वा त्याग-फलम् न एव लभेत् .
--------------------------------------------------------------
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन .
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः .. १८.९..
कार्यम् इति एव यत् कर्म नियतम् क्रियते अर्जुन .
सङ्गम् त्यक्त्वा फलम् च एव सः त्यागः सात्त्विकः मतः .. १८.९..
हे अर्जुन! कार्यम् इति (मत्वा) एव यत् नियतम् कर्म, सङ्गम्
फलम् च एव त्यक्त्वा क्रियते, सः त्यागः सात्त्विकः मतः .
--------------------------------------------------------------
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते .
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः .. १८.१०..
न द्वेष्टि अकुशलम् कर्म कुशले न अनुषज्जते .
त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः .. १८.१०..
(सः) त्यागी सत्त्व-समाविष्टः मेधावी छिन्न-संशयः
(च भवति सः) अकुशलम् कर्म न द्वेष्टि, कुशले (च) न अनुषज्जते .
--------------------------------------------------------------
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः .
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते .. १८.११..
न हि देह-भृता शक्यम् त्यक्तुम् कर्माणि अशेषतः .
यः तु कर्म-फल-त्यागी सः त्यागी इति अभिधीयते .. १८.११..
देह-भृता अशेषतः कर्माणि त्यक्तुम् न शक्यम्,
यः तु हि कर्म-फल-त्यागी सः त्यागी इति अभिधीयते .
--------------------------------------------------------------
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् .
भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् .. १८.१२..
अनिष्टम् इष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् .
भवति अत्यागिनाम् प्रेत्य न तु संन्यासिनाम् क्वचित् .. १८.१२..
अनिष्टम्, इष्टम्, मिश्रम् च (इति) त्रिविधम् कर्मणः फलम्
प्रेत्य अत्यागिनाम् भवति, संन्यासिनाम् तु क्वचित् न (भवति).
--------------------------------------------------------------
पञ्चैतानि महाबाहो कारणानि निबोध मे .
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् .. १८.१३..
पञ्च एतानि महा-बाहो कारणानि निबोध मे .
साङ्ख्ये कृत-अन्ते प्रोक्तानि सिद्धये सर्व-कर्मणाम् .. १८.१३..
हे महा-बाहो! सर्व-कर्मणाम् सिद्धये कृत-अन्ते साङ्ख्ये
प्रोक्तानि एतानि पञ्च कारणानि मे निबोध .
--------------------------------------------------------------
612