अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः .
दम्भाहंकारसंयुक्ताः कामरागबलान्विताः .. १७.५..
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः .
मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् .. १७.६..
अशास्त्र-विहितम् घोरम् तप्यन्ते ये तपः जनाः .
दम्भ-अहंकार-संयुक्ताः काम-राग-बल-अन्विताः .. १७.५..
कर्षयन्तः शरीरस्थम् भूत-ग्रामम् अचेतसः .
माम् च एव अन्तः-शरीरस्थम् तान् विद्धि आसुर-निश्चयान् .. १७.६..
दम्भ-अहंकार-संयुक्ताः काम-राग-बल-अन्विताः ये जनाः
अशास्त्र-विहितम् घोरम् तपः तप्यन्ते, अचेतसः च (ये)
शरीरस्थम् भूत-ग्रामम् अन्तः-शरीरस्थम् माम् एव
कर्षयन्तः तान् आसुर-निश्चयान् विद्धि .
--------------------------------------------------------------
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः .
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु .. १७.७..
आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः .
यज्ञः तपः तथा दानम् तेषाम् भेदम् इमम् शृणु .. १७.७..
सर्वस्य प्रियः आहारः अपि तु त्रिविधः भवति, तथा यज्ञः, तपः,
दानम् (च सर्वस्य त्रिविधं भवति, त्वं) तेषाम् इमम् भेदम् शृणु .
--------------------------------------------------------------
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः .
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः .. १७.८..
आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः .
रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक-प्रियाः .. १७.८..
आयुः-सत्त्व-बल-आरोग्य-सुख-प्रीति-विवर्धनाः, रस्याः स्निग्धाः
स्थिराः हृद्याः आहाराः सात्त्विक-प्रियाः (सन्ति).
--------------------------------------------------------------
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः .
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः .. १७.९..
कट्वम्ल-लवण-अति-उष्ण-तीक्ष्ण-रूक्ष-विदाहिनः .
आहाराः राजसस्य इह्टाः दुःख-शोक-आमय-प्रदाः .. १७.९..
कट्वम्ल-लवण-अति-उष्ण-तीक्ष्ण-रूक्ष-विदाहिनः
दुःख-शोक-आमय-प्रदाः आहाराः राजसस्य इह्टाः (भवति) .
--------------------------------------------------------------
यातयामं गतरसं पूति पर्युषितं च यत् .
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् .. १७.१०..
यातयामम् गत-रसम् पूति पर्युषितम् च यत् .
उच्छिष्टम् अपि च अमेध्यम् भोजनम् तामस-प्रियम् .. १७.१०..
यत् यातयामम्, गत-रसम्, पूति, पर्युषितम् च उच्छिष्टम्
अपि च अमेध्यम् भोजनम् (तत्) तामस-प्रियम् (अस्ति) .
--------------------------------------------------------------
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते .
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः .. १७.११..
अफल-आकाङ्क्षिभिः यज्ञः विधि-दृष्टः यः इज्यते .
यष्टव्यम् एव इति मनः समाधाय सः सात्त्विकः .. १७.११..
अफल-आकाङ्क्षिभिः (पुरुषैः) यष्टव्यम् एव इति मनः समाधाय
विधि-दृष्टः यः यज्ञः इज्यते, सः सात्त्विकः (यज्ञः मतः) .
--------------------------------------------------------------
582