bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/08/12)

20 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 7, 2012, 9:42:16 PM10/7/12
to gita-anva...@googlegroups.com


तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः .
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् .. १७.२४..

तस्मात् ॐ इति उदाहृत्य यज्ञ-दान-तपः-क्रियाः .
प्रवर्तन्ते विधान-उक्ताः सततम् ब्रह्म-वादिनाम् .. १७.२४..

तस्मात् ब्रह्म-वादिनाम् विधान-उक्ताः यज्ञ-दान-तपः-क्रियाः
ॐ इति उदाहृत्य सततम् प्रवर्तन्ते .



--------------------------------------------------------------
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः .
दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः .. १७.२५..

तत् इति अनभिसन्धाय फलम् यज्ञ-तपः-क्रियाः .
दान-क्रियाः च विविधाः क्रियन्ते मोक्ष-काङ्क्षिभिः .. १७.२५..

मोक्ष-काङ्क्षिभिः तत् इति (उदाहृत्य) फलम् अनभिसन्धाय
विविधाः यज्ञ-तपः-क्रियाः दान-क्रियाः च क्रियन्ते .



--------------------------------------------------------------
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते .
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते .. १७.२६..

सत्-भावे साधु-भावे च सत् इति एतत् प्रयुज्यते .
प्रशस्ते कर्मणि तथा सत् शब्दः पार्थ युज्यते .. १७.२६..

(ज्ञानिभिः) सत् इति एतत् सत्-भावे च साधु-भावे च प्रयुज्यते,
तथा हे पार्थ! प्रशस्ते कर्मणि सत् शब्दः युज्यते .



--------------------------------------------------------------
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते .
कर्म चैव तदर्थीयं सदित्येवाभिधीयते .. १७.२७..

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते .
कर्म च एव तत्-अर्थीयम् सत् इति एव अभिधीयते .. १७.२७..

यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते . तत्-अर्थीयम्
च एव कर्म सत् इति एव अभिधीयते .



--------------------------------------------------------------
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् .
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह .. १७.२८..

अश्रद्धया हुतम् दत्तम् तपः तप्तम् कृतम् च यत् .
असत् इति उच्यते पार्थ न च तत् प्रेत्य नो इह .. १७.२८..

हे पार्थ! अश्रद्धया हुतम् दत्तम्, तपः तप्तम्, यत्
च कृतम्, तत् असत् इति उच्यते\; (तत्) प्रेत्य,
इह (अपि) च न (फलप्रदं) नो (भवति) .
--
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः .. १७..
--
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे
श्रद्धा-त्रय-विभाग-योगः नाम सप्तदशः अध्यायः .. १७..



--------------------------------------------------------------
अथाष्टादशोऽध्यायः . मोक्षसंन्यासयोगः .
अथ अष्टादशः अध्यायः . मोक्ष-संन्यास-योगः .
अर्जुन उवाच .
अर्जुनः उवाच .
संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् .
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन .. १८.१..

संन्यासस्य महा-बाहो तत्त्वम् इच्छामि वेदितुम् .
त्यागस्य च हृषीकेश पृथक् केशि-निषूदन .. १८.१..

हे महा-बाहो! हे केशि-निषूदन हृषीकेश ! (अहं)
संन्यासस्य त्यागस्य च तत्त्वम् पृथक् वेदितुम् इच्छामि .



--------------------------------------------------------------

600
Reply all
Reply to author
Forward
0 new messages