यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् .
स सर्वविद्भजति मां सर्वभावेन भारत.. १५.१९..
यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् .
सः सर्व-वित् भजति माम् सर्व-भावेन भारत .. १५.१९..
हे भारत! यः असम्मूढः माम् पुरुषोत्तमम् एवम् जानाति,
सः सर्व-वित् (भूत्वा) माम् सर्व-भावेन भजति .
--------------------------------------------------------------
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ .
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत .. १५.२०..
इति गुह्यतमम् शास्त्रम् इदम् उक्तम् मया अनघ .
एतत् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत .. १५.२०..
हे अनघ! इति गुह्यतमम् इदम् शास्त्रम् मया उक्तम्,
हे भारत! एतत् बुद्ध्वा (जीवः) बुद्धिमान् कृतकृत्यः च स्यात् .
--
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः .. १५..
--
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादेपुरुषोत्तम-योगो
नाम पञ्चदशः अध्यायः .. १५..
--------------------------------------------------------------
अथ षोडशोऽध्यायः . दैवासुरसम्पद्विभागयोगः .
अथ षोडशः अध्यायः . दैव-आसुर-सम्पत्-विभाग-योगः .
श्रीभगवानुवाच .
श्रीभगवान् उवाच .
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः .
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् .. १६.१..
अभयम् सत्त्व-संशुद्धिः ज्ञान-योग-व्यवस्थितिः .
दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् .. १६.१..
अभयम्, सत्त्व-संशुद्धिः, ज्ञान-योग-व्यवस्थितिः, दानम्,
दमः च यज्ञः च, स्वाध्यायः, तपः, आर्जवम्,
--------------------------------------------------------------
अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् .
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् .. १६.२..
अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् .
दया भूतेषु अलोलुप्त्वम् मार्दवम् ह्रीः अचापलम् .. १६.२..
अहिंसा, सत्यम्, अक्रोधः, त्यागः, शान्तिः, अपैशुनम्,
भूतेषु दया, अलोलुप्त्वम्, मार्दवम्, ह्रीः, अचापलम्,
--------------------------------------------------------------
तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता .
भवन्ति सम्पदं दैवीमभिजातस्य भारत .. १६.३..
तेजः क्षमा धृतिः शौचम् अद्रोहः न अति-मानिता .
भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत .. १६.३..
हे भारत! तेजः, क्षमा, धृतिः, शौचम्, अद्रोहः,
न अति-मानिता (इति एतानि लक्षणानि) दैवीम् सम्पदम्
अभिजातस्य (पुरुषस्य) भवन्ति .
--------------------------------------------------------------
दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च .
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् .. १६.४..
दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च .
अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरीम् .. १६.४..
हे पार्थ! दम्भः, दर्पः, अभिमानः च, क्रोधः, पारुष्यम्,
एव च अज्ञानम् च (एतानि लक्ष्णानि) आसुरीम् सम्पदम्
अभिजातस्य (पुरुषस्य भवन्ति) .
--------------------------------------------------------------
552