bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/04/12)

20 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 3, 2012, 9:42:16 PM10/3/12
to gita-anva...@googlegroups.com


यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः .
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् .. १६.२३..

यः शास्त्र-विधिम् उत्सृज्य वर्तते काम-कारतः .
न सः सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् .. १६.२३..

यः शास्त्र-विधिम् उत्सृज्य, काम-कारतः वर्तते, सः न सिद्धिम्,
न सुखम्, न (च) पराम् गतिम् अवाप्नोति .



--------------------------------------------------------------
तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ .
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि .. १६.२४..

तस्मात् शास्त्रम् प्रमाणम् ते कार्य-अकार्य-व्यवस्थितौ .
ज्ञात्वा शास्त्र-विधान-उक्तम् कर्म कर्तुम् इह अर्हसि .. १६.२४..

तस्मात् कार्य-अकार्य-व्यवस्थितौ ते शास्त्रम् प्रमाणम् (अस्ति),
शास्त्र-विधान-उक्तम् कर्म ज्ञात्वा (तत् त्वं) इह कर्तुम् अर्हसि .
--
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः .. १६..
--
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे
दैव-आसुर-सम्पत्-विभाग-योगः नाम षोडशः अध्यायः ..



--------------------------------------------------------------
अथ सप्तदशोऽध्यायः . श्रद्धात्रयविभागयोगः
अथ सप्तदशः अध्यायः . श्रद्धा-त्रय-विभाग-योगः
अर्जुन उवाच .
अर्जुनः उवाच .
ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः .
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः .. १७.१..

ये शास्त्र-विधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः .
तेषाम् निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः .. १७.१..

हे कृष्ण! ये शास्त्र-विधिम् उत्सृज्य, श्रद्धया अन्विताः
(सन्तः) यजन्ते, तेषां तु का निष्ठा सत्त्वम् रजः आहो तमः



--------------------------------------------------------------
श्रीभगवानुवाच
श्रीभगवान् उवाच .
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा .
सात्त्विकी राजसी चैव तामसी चेति तां शृणु .. १७.२..

त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावजा .
सात्त्विकी राजसी च एव तामसी च इति ताम् शृणु .. १७.२..

देहिनाम् (या) स्वभावजा श्रद्धा, सा सात्त्विकी च राजसी (च)
तामसी च एव इति त्रिविधा भवति, ताम् शृणु .



--------------------------------------------------------------
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत .
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः .. १७.३..

सत्त्व-अनुरूपा सर्वस्य श्रद्धा भवति भारत .
श्रद्धामयः अयम् पुरुषः यः यत् श्रद्धः सः एव सः .. १७.३..

हे भारत! सर्वस्य सत्त्व-अनुरूपा श्रद्धा भवति, अयम्
पुरुषः श्रद्धामयः (अस्ति), यः यत् श्रद्धः (भवति), सः एव सः .



--------------------------------------------------------------
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः .
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः .. १७.४..

यजन्ते सात्त्विकाः देवान् यक्ष-रक्षांसि राजसाः .
प्रेतान् भूतगणान् च अन्ये यजन्ते तामसाः जनाः .. १७.४..

सात्त्विकाः देवान् यजन्ते, राजसाः यक्ष-रक्षांसि (यजन्ते),
अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते .



--------------------------------------------------------------

576
Reply all
Reply to author
Forward
0 new messages