गामाविश्य च भूतानि धारयाम्यहमोजसा .
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः .. १५.१३..
गाम् आविश्य च भूतानि धारयामि अहम् ओजसा .
पुष्णामि च ओषधीः सर्वाः सोमः भूत्वा रसात्मकः .. १५.१३..
अहम् च गाम् आविश्य भूतानि ओजसा धारयामि . रसात्मकः
सोमः भूत्वा च सर्वाः ओषधीः पुष्णामि .
--------------------------------------------------------------
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः .
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् .. १५.१४..
अहम् वैश्वानरः भूत्वा प्राणिनाम् देहम् आश्रितः .
प्राण-अपान-सम-आयुक्तः पचामि अन्नम् चतुर्विधम् .. १५.१४..
अहम् प्राणिनाम् देहम् आश्रितः प्राण-अपान-सम-आयुक्तः
वैश्वानरः भूत्वा चतुर्विधम् अन्नम् पचामि .
--------------------------------------------------------------
सर्वस्य चाहं हृदि सन्निविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनञ्च .
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् .. १५.१५..
सर्वस्य च अहम् हृदि सन्निविष्टः
मत्तः स्मृतिः ज्ञानम् अपोहनम् च .
वेदैः च सर्वैः अहम् एव वेद्यः
वेदान्त-कृत् वेद-वित् एव च अहम् .. १५.१५..
अहम् सर्वस्य हृदि सन्निविष्टः (अस्मि), मत्तः (सर्वस्य)
स्मृतिः ज्ञानम् अपोहनम् च (भवति) अहम् च एव
सर्वैः वेदैः वेद्यः (अस्मि), अहम् एव च वेदान्त-कृत्
वेद-वित् च (अस्मि) .
--------------------------------------------------------------
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च .
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते .. १५.१६..
द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च .
क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते .. १५.१६..
(अस्मिन्) लोके क्षरः अक्षरः च एव इमौ द्वौ पुरुषौ (स्तः),
सर्वाणि भूतानि क्षरः, कूटस्थः च अक्षरः उच्यते .
--------------------------------------------------------------
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः .
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः .. १५.१७..
उत्तमः पुरुषः तु अन्यः परम्-आत्मा इति उदाहृतः .
यः लोक-त्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः .. १५.१७..
उत्तमः पुरुषः तु अन्यः (अस्ति), (सः) परम्-आत्मा इति
उदाहृतः यः अव्ययः ईश्वरः लोक-त्रयम् आविश्य (तत्) बिभर्ति .
--------------------------------------------------------------
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः .
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः .. १५.१८..
यस्मात् क्षरम् अतीतः अहम् अक्षरात् अपि च उत्तमः .
अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः .. १५.१८..
यस्मात् अहम् क्षरम् अतीतः, अक्षरात् अपि च उत्तमः
(अस्मि), अतः (अहं) लोके वेदे च पुरुषोत्तमः इति प्रथितः अस्मि .
--------------------------------------------------------------
546