bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/09/12)

15 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 8, 2012, 9:42:16 PM10/8/12
to gita-anva...@googlegroups.com


श्रीभगवानुवाच .
श्रीभगवान् उवाच .
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः .
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः .. १८.२..

काम्यानाम् कर्मणाम् न्यासम् संन्यासम् कवयः विदुः .
सर्व-कर्म-फल-त्यागम् प्राहुः त्यागम् विचक्षणाः .. १८.२..

कवयः काम्यानाम् कर्मणाम् न्यासम् संन्यासम् विदुः,
विचक्षणाः (च) सर्व-कर्म-फल-त्यागम् त्यागम् प्राहुः .



--------------------------------------------------------------
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः .
यज्ञदानतपःकर्म न त्याज्यमिति चापरे .. १८.३..

त्याज्यम् दोषवत् इति एके कर्म प्राहुः मनीषिणः .
यज्ञ-दान-तपः-कर्म न त्याज्यम् इति च अपरे .. १८.३..

एके मनीषिणः कर्म दोषवत् (अस्ति तस्मात्) त्याज्यम् इति प्राहुः,
अपरे च यज्ञ-दान-तपः-कर्म न त्याज्यम् इति (आहुः).



--------------------------------------------------------------
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम .
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः .. १८.४..

निश्चयम् शृणु मे तत्र त्यागे भरतसत्तम .
त्यागः हि पुरुष-व्याघ्र त्रिविधः सम्प्रकीर्तितः .. १८.४..

हे भरतसत्तम! तत्र त्यागे मे निश्चयम् शृणु .
हे पुरुष-व्याघ्र! त्यागः हि त्रिविधः सम्प्रकीर्तितः (अस्ति).



--------------------------------------------------------------
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् .
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् .. १८.५..

यज्ञ-दान-तपः-कर्म न त्याज्यम् कार्यम् एव तत् .
यज्ञः दानम् तपः च एव पावनानि मनीषिणाम् .. १८.५..

यज्ञ-दान-तपः-कर्म न त्याज्यम् तत् कार्यम् एव .
यज्ञः दानम् तपः च (एतानि) मनीषिणाम् पावनानि एव
(सन्ति) .



--------------------------------------------------------------
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च .
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् .. १८.६..

एतानि अपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च .
कर्तव्यानि इति मे पार्थ निश्चितम् मतम् उत्तमम् .. १८.६..

अपि तु एतानि कर्माणि सङ्गम् फलानि च त्यक्त्वा कर्तव्यानि
इति, हे पार्थ! मे निश्चितम् उत्तमम् मतम् (अस्ति) .



--------------------------------------------------------------
नियतस्य तु संन्यासः कर्मणो नोपपद्यते .
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः .. १८.७..

नियतस्य तु संन्यासः कर्मणः न उपपद्यते .
मोहात् तस्य परित्यागः तामसः परिकीर्तितः .. १८.७..

नियतस्य कर्मणः तु संन्यासः न उपपद्यते .
मोहात् तस्य परित्यागः तामसः परिकीर्तितः .



--------------------------------------------------------------

606
Reply all
Reply to author
Forward
0 new messages