bhagavadgItA sandhi-vichCheda-anvaya-sahitA (09/26/12)

19 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Sep 25, 2012, 9:42:16 PM9/25/12
to gita-anva...@googlegroups.com


श्रीभगवानुवाच .
श्रीभगवान् उवाच .
प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव .
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति .. १४.२२..

प्रकाशम् च प्रवृत्तिम् च मोहम् एव च पाण्डव .
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति .. १४.२२..

हे पाण्डव! प्रकाशम् च प्रवृत्तिम् च मोहम् एव च
सम्प्रवृत्तानि न द्वेष्टि, निवृत्तानि (च) न काङ्क्षति .



--------------------------------------------------------------
उदासीनवदासीनो गुणैर्यो न विचाल्यते .
गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते .. १४.२३..

उदासीनवत् आसीनः गुणैः यः न विचाल्यते .
गुणाः वर्तन्ते इति एवम् यः अवतिष्ठति न इङ्गते .. १४.२३..

यः उदासीनवत् आसीनः गुणैः न विचाल्यते, यः (च) गुणाः
वर्तन्ते इति (मत्वा) एवम् अवतिष्ठति, (च) न इङ्गते .



--------------------------------------------------------------
समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः .
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः .. १४.२४..

सम-दुःख-सुखः स्वस्थः सम-लोष्ट-अश्म-काञ्चनः .
तुल्य-प्रिय-अप्रियः धीरः तुल्य-निन्दा-आत्म-संस्तुतिः .. १४.२४..

(यः) सम-दुःख-सुखः, स्वस्थः, सम-लोष्ट-अश्म-काञ्चनः,
तुल्य-प्रिय-अप्रियः, धीरः, तुल्य-निन्दा-आत्म-संस्तुतिः,



--------------------------------------------------------------
मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः .
सर्वारम्भपरित्यागी गुणातीतः स उच्यते .. १४.२५..

मान-अपमानयोः तुल्यः तुल्यः मित्र-अरि-पक्षयोः .
सर्व-आरम्भ-परित्यागी गुणातीतः सः उच्यते .. १४.२५..

(यः) मान-अपमानयोः तुल्यः, मित्र-अरि-पक्षयोः तुल्यः,
सर्व-आरम्भ-परित्यागी (च अस्ति) सः गुणातीतः उच्यते .



--------------------------------------------------------------
मां च योऽव्यभिचारेण भक्तियोगेन सेवते .
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते .. १४.२६..

माम् च यः अव्यभिचारेण भक्ति-योगेन सेवते .
सः गुणान् समतीत्य एतान् ब्रह्म-भूयाय कल्पते .. १४.२६..

यः माम् च अव्यभिचारेण भक्ति-योगेन सेवते, सः एतान्
गुणान् समतीत्य, ब्रह्म-भूयाय कल्पते .



--------------------------------------------------------------
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च .
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च .. १४.२७..

ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य अव्ययस्य च .
शाश्वतस्य च धर्मस्य सुखस्य एकान्तिकस्य च .. १४.२७..

अमृतस्य अव्ययस्य च ब्रह्मणः, शाश्वतस्य च धर्मस्य,
एकान्तिकस्य सुखस्य च हि अहम् प्रतिष्ठा (अस्मि) .
--
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः .. १४..
--
ॐ तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु
ब्रह्म-विद्यायाम् योग-शास्त्रे श्रीकृष्ण-अर्जुन-संवादे
गुण-त्रय-विभाग-योगः नाम चतुर्दशः अध्यायः .. १४..



--------------------------------------------------------------

528
Reply all
Reply to author
Forward
0 new messages