bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/11/12)

7 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 10, 2012, 9:42:16 PM10/10/12
to gita-anva...@googlegroups.com


अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् .
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् .. १८.१४..

अधिष्ठानम् तथा कर्ता करणम् च पृथक्-विधम् .
विविधाः च पृथक् चेष्टाः दैवम् च एव अत्र पञ्चमम् .. १८.१४..

अधिष्ठानम्, तथा कर्ता च, पृथक्-विधम् करणम् च,
विविधाः पृथक् चेष्टाः, अत्र दैवम् पञ्चमम् एव (भवति).



--------------------------------------------------------------
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः .
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः .. १८.१५..

शरीर-वाक्-मनोभिः यत् कर्म प्रारभते नरः .
न्याय्यम् वा विपरीतं वा पञ्च एते तस्य हेतवः .. १८.१५..

नरः शरीर-वाक्-मनोभिः न्याय्यम् वा विपरीतं वा यत्
कर्म प्रारभते, तस्य एते पञ्च हेतवः (सन्ति) .



--------------------------------------------------------------
तत्रैवं सति कर्तारमात्मानं केवलं तु यः .
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः .. १८.१६..

तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः .
पश्यति अकृत-बुद्धित्वात् न सः पश्यति दुर्मतिः .. १८.१६..

तत्र एवम् सति यः तु केवलम् आत्मानम् कर्तारम् पश्यति,
सः दुर्मतिः अकृत-बुद्धित्वात् न पश्यति .



--------------------------------------------------------------
यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते .
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते .. १८.१७..

यस्य न अहंकृतः भावः बुद्धिः यस्य न लिप्यते .
हत्वा अपि सः इमान् लोकान् न हन्ति न निबध्यते .. १८.१७..

यस्य अहंकृतः भावः न, यस्य बुद्धिः न लिप्यते, सः इमान्
लोकान् हत्वा अपि न हन्ति, न निबध्यते .



--------------------------------------------------------------
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना .
करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः .. १८.१८..

ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म-चोदना .
करणम् कर्म कर्ता इति त्रिविधः कर्म-संग्रहः .. १८.१८..

ज्ञानम्, ज्ञेयम्, परिज्ञाता इति त्रिविधा कर्म-चोदना (अस्ति) .
करणम्, कर्म, कर्ता (इति) त्रिविधः कर्म-संग्रहः (अस्ति) .



--------------------------------------------------------------
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः .
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि .. १८.१९..

ज्ञानम् कर्म च कर्ता च त्रिधा एव गुण-भेदतः .
प्रोच्यते गुण-सङ्ख्याने यथावत् शृणु तानि अपि .. १८.१९..

ज्ञानम्, कर्म च कर्ता च त्रिधा एव गुण-भेदतः
गुण-सङ्ख्याने प्रोच्यते, तानि अपि यथावत् शृणु .



--------------------------------------------------------------

618
Reply all
Reply to author
Forward
0 new messages