bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/13/12)

20 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 12, 2012, 9:42:16 PM10/12/12
to gita-anva...@googlegroups.com


मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः .
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते .. १८.२६..

मुक्त-सङ्गः अनहं-वादी धृति-उत्साह-समन्वितः .
सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते .. १८.२६..

मुक्त-सङ्गः, अनहं-वादी, धृति-उत्साह-समन्वितः,
सिद्धि-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते .



--------------------------------------------------------------
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः .
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः .. १८.२७..

रागी कर्म-फल-प्रेप्सुः लुब्धः हिंसात्मकः अशुचिः .
हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः .. १८.२७..

रागी, कर्म-फल-प्रेप्सुः, लुब्धः, हिंसात्मकः, अशुचिः,
हर्ष-शोक-अन्वितः कर्ता राजसः परिकीर्तितः .



--------------------------------------------------------------
अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः .
विषादी दीर्घसूत्री च कर्ता तामस उच्यते .. १८.२८..

अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः .
विषादी दीर्घ-सूत्री च कर्ता तामसः उच्यते .. १८.२८..

अयुक्तः, प्राकृतः, स्तब्धः, शठः, नैष्कृतिकः, अलसः,
विषादी, दीर्घ-सूत्री च कर्ता तामसः उच्यते .



--------------------------------------------------------------
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु .
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय .. १८.२९..

बुद्धेः भेदम् धृतेः च एव गुणतः त्रिविधम् शृणु .
प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय .. १८.२९..

हे धनञ्जय! बुद्धेः धृतेः च एव गुणतः त्रिविधम्
भेदम् अशेषेण पृथक्त्वेन प्रोच्यमानम् शृणु .



--------------------------------------------------------------
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये .
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी .. १८.३०..

प्रवृत्तिम् च निवृत्तिम् च कार्य-अकार्ये भय-अभये .
बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी .. १८.३०..

हे पार्थ! या बुद्धिः प्रवृत्तिम् च निवृत्तिम् कार्य-अकार्ये
भय-अभये च बन्धम् मोक्षम् च वेत्ति, सा सात्त्विकी (मता).



--------------------------------------------------------------
यया धर्ममधर्मं च कार्यं चाकार्यमेव च .
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी .. १८.३१..

यया धर्मम् अधर्मम् च कार्यम् च अकार्यम् एव च .
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी .. १८.३१..

हे पार्थ! यया च (बुद्ध्या जीवः) धर्मम् अधर्मम् च,
कार्यम् अकार्यम् च, अयथावत् एव प्रजानाति सा बुद्धिः राजसी (मता).



--------------------------------------------------------------

630
Reply all
Reply to author
Forward
0 new messages