bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/03/12)

16 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 2, 2012, 9:42:17 PM10/2/12
to gita-anva...@googlegroups.com


आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः .
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् .. १६.१७..

आत्म-सम्भाविताः स्तब्धाः धन-मान-मद-अन्विताः .
यजन्ते नाम-यज्ञैः ते दम्भेन अविधि-पूर्वकम् .. १६.१७..

आत्म-सम्भाविताः स्तब्धाः धन-मान-मद-अन्विताः, ते दम्भेन
अविधि-पूर्वकम् नाम-यज्ञैः यजन्ते .



--------------------------------------------------------------
अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः .
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः .. १६.१८..

अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः .
माम् आत्म-पर-देहेषु प्रद्विषन्तः अभ्यसूयकाः .. १६.१८..

अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः
आत्म-पर-देहेषु (स्थितं) माम् प्रद्विषन्तः अभ्यसूयकाः
(ते भवन्ति) .



--------------------------------------------------------------
तानहं द्विषतः क्रूरान्संसारेषु नराधमान् .
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु .. १६.१९..

तान् अहम् द्विषतः क्रूरान् संसारेषु नराधमान् .
क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु .. १६.१९..

तान् द्विषतः क्रूरान्, अशुभान्, नराधमान् संसारेषु
आसुरीषु एव योनिषु अजस्रम् अहम् क्षिपामि .



--------------------------------------------------------------
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि .
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् .. १६.२०..

आसुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि .
माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमाम् गतिम् .. १६.२०..

हे कौन्तेय! आसुरीम् योनिम् आपन्नाः जन्मनि जन्मनि मूढाः
(सन्तः) माम् अप्राप्य एव, ततः अधमाम् गतिम् यान्ति .



--------------------------------------------------------------
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः .
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् .. १६.२१..

त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः .
कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् .. १६.२१..

कामः क्रोधः तथा लोभः इदम् त्रिविधम् आत्मनः नाशनम्
नरकस्य द्वारम् (अस्ति), तस्मात् एतत् त्रयम् त्यजेत् .



--------------------------------------------------------------
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः .
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् .. १६.२२..

एतैः विमुक्तः कौन्तेय तमो-द्वारैः त्रिभिः नरः .
आचरति आत्मनः श्रेयः ततः याति पराम् गतिम् .. १६.२२..

हे कौन्तेय! एतैः त्रिभिः तमो-द्वारैः विमुक्तः नरः, आत्मनः
श्रेयः आचरत्, ततः पराम् गतिम् याति .



--------------------------------------------------------------

570
Reply all
Reply to author
Forward
0 new messages