bhagavadgItA sandhi-vichCheda-anvaya-sahitA (10/07/12)

9 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Oct 6, 2012, 9:42:17 PM10/6/12
to gita-anva...@googlegroups.com


सत्कारमानपूजार्थं तपो दम्भेन चैव यत् .
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् .. १७.१८..

सत्कार-मान-पूजार्थम् तपः दम्भेन च एव यत् .
क्रियते तत् इह प्रोक्तम् राजसम् चलम् अध्रुवम् .. १७.१८..

सत्कार-मान-पूजार्थम् दम्भेन च एव यत् तपः क्रियते,
तत् इह राजसम्, चलम्, अध्रुवम् प्रोक्तम् .



--------------------------------------------------------------
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः .
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् .. १७.१९..

मूढ-ग्राहेण आत्मनः यत् पीडया क्रियते तपः .
परस्य उत्सादनार्थम् वा तत् तामसम् उदाहृतम् .. १७-
१९..

मूढ-ग्राहेण आत्मनः पीडया परस्य उत्सादनार्थम् वा
यत् तपः क्रियते, तत् तामसम् उदाहृतम् .



--------------------------------------------------------------
दातव्यमिति यद्दानं दीयतेऽनुपकारिणे .
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् .. १७.२०..

दातव्यम् इति यत् दानम् दीयते अनुपकारिणे .
देशे काले च पात्रे च तत् दानम् सात्त्विकम् स्मृतम् .. १७.२०..

दातव्यम् इति यत् दानम् देशे च काले च पात्रे (च) अनुपकारिणे
दीयते, तत् दानम् सात्त्विकम् स्मृतम् .



--------------------------------------------------------------
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः .
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् .. १७.२१..

यत् तु प्रति-उपकारार्थम् फलम् उद्दिश्य वा पुनः .
दीयते च परिक्लिष्टम् तत् दानम् राजसम् स्मृतम् .. १७.२१..

यत् तु प्रति-उपकारार्थम्, फलम् उद्दिश्य, वा पुनः
परिक्लिष्टम् च दीयते, तत् दानम् राजसम् स्मृतम् .



--------------------------------------------------------------
अदेशकाले यद्दानमपात्रेभ्यश्च दीयते .
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् .. १७.२२..

अदेश-काले यत् दानम् अपात्रेभ्यः च दीयते .
असत्कृतम् अवज्ञातम् तत् तामसम् उदाहृतम् .. १७.२२..

यत् दानम् असत्कृतम् अवज्ञातम्, अदेश-काले अपात्रेभ्यः
च दीयते, तत् तामसम् उदाहृतम् .



--------------------------------------------------------------
ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः .
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा .. १७.२३..

ॐ तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः .
ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा .. १७.२३..

ॐ तत् सत् इति ब्रह्मणः त्रिविधः निर्देशः स्मृतः
तेन ब्राह्मणाः वेदाः च यज्ञाः च पुरा विहिताः .



--------------------------------------------------------------

594
Reply all
Reply to author
Forward
0 new messages