bhagavadgItA sandhi-vichCheda-anvaya-sahitA (09/24/12)

23 views
Skip to first unread message

gita-anva...@googlegroups.com

unread,
Sep 23, 2012, 9:42:16 PM9/23/12
to gita-anva...@googlegroups.com


रजस्तमश्चाभिभूय सत्त्वं भवति भारत .
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा .. १४.१०..

रजः तमः च अभिभूय सत्त्वम् भवति भारत .
रजः सत्त्वम् तमः च एव तमः सत्त्वम् रजः तथा .. १४.१०..

हे भारत! सत्त्वम्, रजः तमः एव अभिभूय (स्वयं) भवति\;
च रजः, सत्त्वम् तमः च (अभिभूय स्वयं भवति)\; तथा तमः,
सत्त्वम् रजः (अभिभूय स्वयं भवति).



--------------------------------------------------------------
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते .
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत .. १४.११..

सर्व-द्वारेषु देहे अस्मिन् प्रकाशः उपजायते .
ज्ञानम् यदा तदा विद्यात् विवृद्धम् सत्त्वम् इति उत .. १४.११..

उत यदा अस्मिन् देहे सर्व-द्वारेषु प्रकाशः ज्ञानम् (च)
उपजायते, तदा सत्त्वम् विवृद्धम् इति विद्यात् .



--------------------------------------------------------------
लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा .
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ .. १४.१२..

लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा .
रजसि एतानि जायन्ते विवृद्धे भरतर्षभ .. १४.१२..

हे भरतर्षभ! लोभः, प्रवृत्तिः, कर्मणाम् आरम्भः,
अशमः, स्पृहा एतानि (चिह्नानि) रजसि विवृद्धे (सति) जायन्ते .



--------------------------------------------------------------
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च .
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन .. १४.१३..

अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च .
तमसि एतानि जायन्ते विवृद्धे कुरु-नन्दन .. १४.१३..

हे कुरु-नन्दन! अप्रकाशः, अप्रवृत्तिः च, प्रमादः च,
मोहः एव एतानि (चिह्नानि) तमसि विवृद्धे (सति) जायन्ते .



--------------------------------------------------------------
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् .
तदोत्तमविदां लोकानमलान्प्रतिपद्यते .. १४.१४..

यदा सत्त्वे प्रवृद्धे तु प्रलयम् याति देह-भृत् .
तदा उत्तम-विदाम् लोकान् अमलान् प्रतिपद्यते .. १४.१४..

यदा तु सत्त्वे प्रवृद्धे (सति) देह-भृत् प्रलयम् याति
तदा उत्तम-विदाम् अमलान् लोकान् प्रतिपद्यते .



--------------------------------------------------------------
रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते .
तथा प्रलीनस्तमसि मूढयोनिषु जायते .. १४.१५..

रजसि प्रलयम् गत्वा कर्म-सङ्गिषु जायते .
तथा प्रलीनः तमसि मूढ-योनिषु जायते .. १४.१५..

(देह-भृत्) रजसि प्रलयम् गत्वा कर्म-सङ्गिषु जायते .
तथा (सः) तमसि प्रलीनः मूढ-योनिषु जायते .



--------------------------------------------------------------

516
Reply all
Reply to author
Forward
0 new messages